सदस्यः:2030993REGANTI BHARAT CHANDRA SAI/प्रयोगपृष्ठम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

https://commons.wikimedia.org/wiki/File:VIRAHAMIHIRA.jpg भारतस्य वैज्ञानिकपरम्परा अतिविशिष्टा अस्ति खलु वेदकालादारम्य अस्माकं प्राचीना: भूगोला, खगोलः, वैद्यकीय, ज्योतिष, गणित, विज्ञान मित्यादिषु क्षेत्रेषु परिश्रमेण संशोधनं कृत्वा परा सिद्धि प्राप्तवन्तः। तत्र आर्यभट- भास्कराचार्य-ब्रह्मगुप्तादयो यथा प्राचीनकाले गणितशास्त्रे, खगोलशास्त्रे, ज्योतिशुशास्त्रे च सुप्रसिद्धाः, तथैव वराहमिहिराचार्योऽपि प्रसिद्धः उद्देश प्राचीन भारतस्य विज्ञान, तंत्र वराहमिहिरस्य योगदानमित्यादिकं प्रदर्श्य, छात्राः अपि तेषां सम्पादने आसक्ताः भवेयुः इति अयं पाठो निबद्धः । उज्जयिन्यां कदाचित सायड्काले परे सम्पत्स्यमानस्य (सूर्यग्रहणस्य विषये पण्डिता इत्थं चर्चा कुर्वन्तः आसन् श्वः सूर्योदयानन्तरं 'विंशतिर्निमेषाधिकचतुवदने सूर्यग्रहण भविष्यति। राहुर्वा केतुर्वा सूर्य प्रसते तदा तयोः मात्र कीयत बृहत् भवेत? सूर्यस्य का गतिः तदानीम् ? इति । तत्र कश्चन ज्योतिर्वित कांस्यकण्ठेन अवदत् सत्यं, श्वः सूर्यग्रहणं भविष्यति नास्ति तत्र सन्देहलेशीऽपि अस्माकं कालगणनापि तद्दृढयति परन्तु (राहुकेत्वोः ग्रहणस्य च कोऽपि सम्बन्धो नास्ति ग्रहणं नाम आकाशे सम्पत्सूयमाना छायाप्रकाशयोः क्रीडा असूया कौड़ाया सूर्यः चन्द्रः, भूमिश्चेति त्रयः कायाः भाग वहन्ति चन्द्रग्रहणकाले चन्द्रः भूमेः छायां प्रविशति सूर्यभूमिचन्द्राः यदा समानरेखायां भवन्ति तदा चन्द्रग्रहणम् सूर्यग्रहणकाले चन्द्रः सूर्यस्य छायां प्रविशति सूर्यचन्द्रभूमयः यदा समानरेखायां भवन्ति तदा सूर्यग्रहणं भवति इति एतादृशस्य अपूर्वविषयस्य द्रष्टा कः ? एष एवं अत्यन्तमेधावीति ख्यातः वराहमिहिरः । एषः प्राचीन भारतस्य खगोलविज्ञानी, गणितज्ञः, तत्त्वज्ञानी चासार्थकसहस्रवर्षेभ्यः पूर्वमेव देशेऽस्मिन् ग्रहणम्, उल्कापातः धूमकेतुः, भूमेः आकारः, ग्रहह्मणां चलन, सूर्यस्य गतिः इत्यादिविषयेषु तदा तदा विदुषां चर्चागोष्ठी प्रचलति सम तदा वराहमिहिरः एतेषां विषये सप्रमाणं विवरणं करोति स्म।

"खगोलकायान वीक्षणे वैज्ञानिकोपकरणरहिते तस्मिन् काले एषः गणित नियमान् अवलम्बय खगोलविज्ञाने नूतनं विचारम् आविष्कृतवान् । पञ्चाधिक पञ्शततमचर्षादार भूयदेशकल वराह मिहिरस्य देशकालविषये इतिहासग्रन्थानामवलोकनेन एते विषयाः उपलभ्यन्ते सप्ताशीत्यधिकशततमवर्षपर्यन्तम् एतस्य जीवितकालः। कपित्थकः वराहमिहिरस्य जन्मस्थानम् । पिता आदित्यदास: माता च सत्यवती अनयोः दम्पत्योः पेशाशत्तम वर्षे एषः सूर्यस्य अनुग्रहेण जातः । अतः एतस्य मिहिरः' इति नाम कृतम्। संस्कृतभाषायां मिहिरः इत्यस्य सूर्यः इत्यर्थः । एषः पितुः सकाशात् ज्योतिशुशास्त्रम् अधीत्य सूर्यदेवस्य वरप्रसादेन होराशास्त्रम् (बृहज्जातकम्) अरचयत् । स्वजीवितस्य् अधिक कालम एषः उज्जयिन्या यापयामासज्योतिषशास्त्रे एतस्य अगाधपाण्डित्य दृष्ट्वा राजा विक्रमादित्यः एनं स्वास्थान विद्वांस चकोर । एवमेष: धन्वन्तरिः क्षपणकः, अमरसिंह, शङ्खभट्ट, वेतालभट्ट घटकर्परः, कालिदासः वररुचिरित्येभिः सह विक्रमस्यास्थाने विराजमानेषु नवरत्नेषवन्यतमो बभूव इत्यपि श्रूयते मिहिर इति पित्री कृतनामधेयः एषुः 'वराहमिहिर' इति प्रसिद्धि कथमवाप? इत्यत्र (एका कथा श्रूयते। विक्रमादित्यस्य कश्चन पुत्र आसीत्। तं दृष्ट्वा मिहिरः एषः राजपुत्रः यदा अष्टादशवर्षीयो भविष्यति तदा वराहः एन हनिष्यति" इत्यकथयत्। चिन्ताकुलो राजा पुत्रस्य संरक्षणे अतीवजागरूको बभूव तथापि एकस्मिन् दिने वन्यसूकरः तं राजकुमार जधान। तदारभ्य मिहिरः वराहमिहिर इत्येव प्रथितः पञ्चसिद्धान्तिका, लघुजातकम्, बृहज्जातकम् (बृहत्संहिता, योगतन्त्रम् इत्यादयः वराहमिहिरस्य प्रमुखकृतयः एते ग्रन्थाः गणितशास्त्र- खगोलशास्त्र ज्योतिषशास्त्रसम्बद्धान अनेकान् विषयान् प्रतिपादयन्ति । बृहत्संहिता एतस्य श्रेष्ठकृतिः । अत्र ४००० (चतुःसहस्रम् ) श्लोकाः १०० (शते) अध्यायेषु निबद्धाः 100 प्राचीन विश्वकोशाख्येऽस्मिन् ग्रन्थे मनुष्याणां, सस्य पशु प्राणि-पक्षिणां, भूकम्पनसूय, पञ्चाङ्गसूय, आकाशकायानाम्, आर्थिक सामाजिक-धार्मिकाणां च विषयाणां प्रतिपादनं कृतम्। वास्तुविद्या, अश्वलक्षण, वजपरीक्षा पाकशास्त्र, मनशुशासूत्र, वृष्टि मेघ वायूनां च विषयाः अत्रैव विलसन्ति । एवं ग्रन्थः अरबखगोलशास्त्रज्ञेन आलबेरू निम हाशयेन अरेबिभाषया अनूदितोऽस्ति। ततः विश्वस्य नानाभाषाभिः ग्रन्थोऽयम् अनूदितः । पञ्चसिद्धान्तिकाग्रन्थे एतस्मात् पूर्वकालिकस्य भारतीयज्यौतिषस्य विषयाः रोमकसिद्धान्तः सगृहीताः अत्र ग्रहाणां चलनस्य, अक्षांश-रेखांशयोः विषयस्य च निरूपणं विद्यते। ग्रन्थेऽस्मिन् अलेग्साण्ड्रियादेशस्थपालूमहोदयेन रोमनखगोल विज्ञानसम्बद्धः विरूपितः पौलिशसिद्धान्तश्च अस्ति। जर्मनपण्डितः डा. थीबोमहोदयः ऐदम्प्राथम्येन ग्रन्थस्यास्य सम्पादनं कृत्वा क्रि.श. १८५७ (सप्तपञ्चाशदधिक-अष्टादशशततमे) वर्षे प्राकटयत्। वराहमिहिस्स्य असाधारण बुद्धिकौशलं भारतीयैः पाश्चात्त्यैश्च सर्वदा सुमर्पते एतेन प्रतिपादिताः विषयाः अद्यापि विज्ञानक्षेत्रे बहुपकारकाः संशोधनयोग्याश्च सन्ति ।

ANDHRAPRADESH INTERMEDIATE BOARD 1 YEAR TEXTBOOK