सदस्यः:2040468dhiyasavla

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
                                                              स्वरनियमाः 

श्रीदीप्ती हीकीर्ती धीनीती गीःप्रीती ।

एघेते द्वे द्वे ते ये नेमे देवेशे ।। 01 ।।

सामायामा माया मासा मारानायायाना रामा । यानावारारावानाया

मायारामा मारायामा ॥ 02 ॥

नयनानन्दजनने नक्षत्रर्गणशालिनि ।

अघने गगने दृष्टिरङ्गने दीयतां सकृत् ॥ 03 ॥

एतादृशाः । कुरवः पाण्डवाः युधि समरे उरु विशालम् | स्वं स्वीयम् । अरिकुलं ६ दुर्योधनप्रभृतिरिपुकुलम् | रुरुधुः सर्वतो निरोधयामासुः । तथा गुरु यथा स्यात् तथा । सातिशयमित्यर्थः । दुधुवुः कम्पयामासुः । अत्र इ – अउ इति त्रयः खरा निबद्धाः । त्वरितगतिवृत्तम् | द्विरवरं दर्शयति – श्रीदीप्ती इति कश्चित् सत्पुरुषः स्तूयते । ये द्वे द्वे इमे श्रीदीप्यादी । देवेशे महेन्द्रे अपि न विद्यते ते त्वयि एघेते वृद्धिं ३ प्राप्नुतः 1 के ते श्री लक्ष्मीः दीप्तिः शोभा हूी: लज्जा शालीनतेति यावत् । कीर्तिः यशः । श्रीः बुद्धिः नीतिः नयः । गीः वाणी वाग्मित्वमिति भावः प्रीतिः संतोषश्च । अत्र इ-ए-स्वरौ निबद्धौ । वृत्तं वाणी |एकस्वरमुदाहरति सामायेति । अयं श्लोकः सर्वतोभद्रोदाहरणत्वेन पूर्वत्रैव व्याख्यातः । अत्र आ-इति एक एव खरो निबद्धः |अथ स्थाननियमे चतुःस्थानमुदाहरति नयनानन्देति । अङ्गने सुन्दरि । नयनयोः आनन्दं जनयति तस्मिन् नयनानन्दजनने । दृष्टिमोहके इत्यर्थः ३ नक्षत्राणां गणैः सङ्घैः शलते शोभते तस्मिन् नक्षत्रगणशालिनि । अघने घनशून्ये । गगने वियति । सकृत एकवारम | दृष्टिः दीयताम अवलोकयेत्यर्थः । अनया प्रार्थनया एतादृशगगनबिलोकनेन सोत्सुका गलितमाना मामियमासेविष्यते इति ६ नायकाभिप्रायः सूच्यते । अत्रौष्ठवभिन्नस्थानीयाः सर्वे वर्णा निवेशिता इति चतुःस्थाननियमितमिदं पद्यम् |

१ एवैते. अ.

२ चन्द्रनक्षत्रमायिनि अ. काव्यादर्शे तृतीयः परिच्छेदः

अलिनीलालकलेतं कं न हन्ति घनस्तनि । आननं नलिनच्छायनयनं शशिकान्ति ते ।। 04 ।। अनङ्गलङ्घनालमनानातङ्का सदङ्गना । सदानघ सदानंन्द नताङ्गासङ्गसङ्गत ॥ 05 ॥ अगा गाङ्गाङ्ग काकाकगाहकाधककाकहा ।

त्रिस्थानमाह–अलिनालेति । हे घनस्तनि कठिनकुचे । अलिवद् भ्रमस्वत् नीला थे अलका ते एव लता सर्वतो व्यापनेन लतासदृशा यत्र तत् । ३ नलिनानि कमलानि तेषां छायेव च्छाया शोभा ययोरेतादृशे नयने यस्मिन् तत् । शशिवत् कान्तिर्यस्य तत् । ते तत्र । आननं कं न हन्ति मदनपीडया व्याकुलपति | सर्वमपि पीडयतीत्यर्थः । अन कण्ठचदन्यतायैर्निबन्धनम् |.

             द्विस्थानमुदाहरति — अनङ्गेति । काचिद् दूती नायकं प्रियासंगमाय प्रार्थयते । हे सदा अनघ निर्दोष । सदाचरणशील इत्यर्थः । तथा सदानन्द सतां ३ आनन्दो यस्मात् तादृश । हे सप्रियेत्यर्थः । नतानि प्रश्रयेण नम्राणि अनि यस्य तत्संबुद्धिः नताङ्ग । असङ्गाः विषयेष्वनासक्ता ये सत्पुरुषास्तेषु सङ्गत संसक्त । (सा) सदङ्गना सती चासौ अङ्गना च सुखरूपा सदाचरणशीला वा ६ तव नायिका । अनङ्गस्य मदनस्य लङ्घनम् अतिक्रमणम् । अनुपसेवनमित्यर्थः । तेन लग्नाः संसक्ता नाना विविधा आतङ्का पीडा यस्याः सा । विविधमदनयातना अनुभत्रन्तीत्यर्थः । अस्ति । अतस्तथा संगत्य तत्पीडामपनयेत्यर्थः । अत्र कण्ठ्य दन्त्यवर्णैरेव प्रबन्धनमस्ति । 

एकस्थानमुदाहरति—अगा इति । अत्र पदच्छेदः-अगाः गाम् गाङ्ग काकाकगाहक अघककाकहा। अहाहाङ्क (ङ्ग ) खगाङ्कागकङ्क अगखगकाकक । अन्वयार्थ:-हे गाङ्गकाकाकगाहक | गङ्गाया इदं गाझं गाङ्गं च तत् कं जलं गाङ्गकम् । आकायति शब्दं करोतीत्याकाः । के गै शब्दे इत्यस्मात् आड्यूर्वकात् कर्तरि क्वि । तथा अकति कुटिलं गच्छतीति अकः । पचाद्यच् । आकश्चासौ ६ अकच आकाकः । सशब्दतिर्यग्गामी । गाङ्गकस्य गङ्गाजलप्रवाहस्य आकाकः

१ युतं. कपा.

२ नन्दिन्तताङ्ग. अ.

३ संगतः, ब, ड, प.


    सशब्दतिर्यक्प्रवाहो गाङ्गकाकाकः तस्य गाहक गङ्गाप्रवाहम्नायिनित्यर्थः । तत्संबोधनं गाङ्गकाकाकगाहक तथा अहाहाङ्क हा हा इति दुःखसूचकः ९ शब्दः अङ्कः चिह्नं यस्य स हाहाङ्कः । संसारतापत्रस्त इत्यर्थः । तथा न भवति इति अहाहाङ्कः । तत्संबुद्धिः अहाहाङ्क | संसारतापशून्य । अहाहाङ्ग इति पाठे हानं हाः किप् । न हाः विनाशः अहाः । तं अविनाशं जिहीते गच्छति इति अहाहा अविनश्वरमित्यर्थः । तादृशमङ्ग यस्य तत्संबुद्धिः अहाहाङ्ग । अवि नाशिस्वरूप इत्यर्थः । खे गच्छति इति खगः सूर्यः । स अङ्क: चिहं यस्य स खगाङ्कः । खगाङ्कश्वासौ अगः पर्वतः मेरुपर्वतः उदयाचलो वा । तत्र कङ्कति १५ गच्छति इति खगकङ्कः । मेरुपर्वते उदयाचले वा गमनसमर्थ । ककि बकि कि इत्यादयो गत्यर्थाः तस्मात् पचायच् । पुनः अगखगकाकक अगन्ति कुटिलं गच्छन्तीति अगानि तानि च खानि इन्द्रियाणि । अक अग कुटिलायां गतौ इत्यस्मात् पचाद्यच् । तानि गच्छन्ति इति अगखगाः कुटिलेंद्रियपरवशाः । कुत्सिताः अगखगाः अगखगकाः । कुत्सायें कन् । कको लोलः । कक लौल्ये इत्यस्माद् अच् । न ककः अक्कः अलोल इत्यर्थः । अग २१ खगकेषु अककः अगखगकाककः तत्संबुद्धिः अगखगकाकक । कुसितेन्द्रियपर वशाननुरक्त । त्वं अवककाकहा कुत्सितं अघं अघकं तदेव काकस्तं जहातीति अधककाकहा । एतादृशः सन् गां स्वर्गम् अगा: गमिष्यसि । इणो लुङि रूपम् । इणो गा लुङि इति गांद्रेशः । आशंसायां भूतबन्च इति भविष्यति लुड्डू । अत्र कण्ठयैरेव वर्णैर्वन्धरचना |अय वर्णनियम चतुर्वर्ण दर्शयति रेरे इति । तत्र तावत् पदच्छेद: रे रे रोरुरुरुरोरुगागोग: अगाङ्गगायगुः । किं. काकाकः काकः मा मां आम अमममम । अन्ययाधः कश्चिद्वधार्थ निन्दन् तससर्ग परिहरति । रे रे इत्यनादरे | रोपांवेशाद् द्विरुक्तिः । अमममम नास्ति मम ममत्वं येषां ते अममाः । मम इति भावप्रधानो निर्देशः । ममत्वशन्याः सर्वत्र समन्द्रयः साधय इत्यर्थः । 
अहाहाङ्ग ब, क, ड, प. ३ काककः क, काकुकः कपा. 
काङ्का ग. कपा. ४ गोगगु: ब, क, ड, प.     
   स्थूलाक्षरैः युक्तः भागःतेषां आमं निर्घृणाचरणेन खेदं मयते प्रणिददाति इति तत्संबुद्धिः अममामम । निर्घृणाचरणेन सत्पुरुषदुःखद । मेडू प्रणिदाने इत्यस्माद् आतोनुपसर्गे कः इति कः । रोरूरुरूरोरुगागोग: रोरूयते इति रोरू: यडन्तात् किप् । रोरू ९ श्वासौ रुरुश्च चित्रमुगः रोरूरुरु: पुनः पुनः शब्दकारी चित्रमृगः तस्य उरसः बक्षसः रुक् पीडा । शरवेधजनितेत्यर्थः । सा एव आग: अपराधः तं गच्छतीति रोरूरुरूरोरुगागोगः । मृगहत्याविधायक इत्यर्थः । अगाङ्गगागगुः अगस्य पर्वतस्य अङ्गं अधित्यकां गच्छन्ति इति अगाङ्गगाः । पर्वतोपरि वर्तमाना इत्यर्थः । ते च ते अगाः वृक्षाः अगाङ्गगागाः तेषु गावो यस्य स अगाङ्गगागगुः । पर्वतो परिप्रदेशस्थवृक्षाधःस्थितधेनुक इत्यर्थः । अगाङ्गगोगगुः इति पाठे पदद्वयं १५ अगाङ्गगः अगगुः इति । अगा वृक्षाः तस्य अङ्गानि अवयवास्त्वक पुष्पफलादय स्तानि गच्छति सेवनार्थमिति अगाङ्गगः वृक्षत्वकुपुष्पफलोपभागीत्यर्थः । तथा अगगुः अगे पर्वते गौः दृष्टिः यस्य सः । मृगयीर्थं नगासक्तदृष्टिरित्यर्थः । ईदृशस्त्वं १८ मां मा आम मा आगच्छ । वत्संपर्क मा विधेहि इत्यर्थ: । दृष्टान्तनामुमर्थ विशदयति । किमिति प्रश्ने। काकः वायसः । केकाकाकुकः केका मयूरवाणी काकु: मदसूचकध्वनिविशेषः यस्य सः केकाकाकुकः । शेषाद्विभाषा इति  कपू । भवतीति शेषः । यथा काको मदेन आराचं कुर्वन्नपि केका सौभाग्यं न लभते तथा भवान् महता परिश्रमणापि अम्माकं सङ्गं न लभत इति भावः । अत्रापि विविधा अर्थाष्टीकाकृद्भिः प्रदर्शितास्त तत एव द्रष्टव्याः । चतुर्भि २४ कम इति वर्ग निबन्धनाचतुर्वर्णनियमितचित्रम् । वर्णपदं च वृत्तपूरक वर्णपरम । तेन अंडयन्त्र काराधियेतिनशेगन |

त्रिवर्णमुदाहरति देवानामिति । भगवतो नरसिंहस्य स्तुतिरियम् । देवानां इन्द्रादिदेवानां नन्दनः आह्लादकः । तथा वेदनिन्दिनाम् वेदान् निन्दन्ति ३ कुतर्कैदूषयन्ति ते वेदनिन्दिनः असुरादयस्तेषाम् । नोदनः निवारकः । देवो

१ मा मा मामम मामम. ब, ड, प.

२ देवनिन्दिनाम् कपा. ३ दानव अ.

४ नन्दिनः ब, क, ड, प.

"https://sa.wikipedia.org/w/index.php?title=सदस्यः:2040468dhiyasavla&oldid=463046" इत्यस्माद् प्रतिप्राप्तम्