सदस्यः:2040901nidhichinnamanthur/प्रयोगपृष्ठम्/sanskrit poetry
संस्कृतकाव्यस्योद्भवः विकासश्च
[सम्पादयतु]वेदेष्वेव उत्कृष्टकाव्यस्य दर्शनं भवति। वैदिकसाहित्यस्यरम्भः संहितासाहित्यात् स्वीकार्यते । ॠग्वेदसंहिता प्राचीनतमा । भारतीयैः मनीषिभिः वेदेष्वेव सर्वेषां शास्त्राणां स्त्रोतं मन्यते । एवं काव्यस्योद्भवः वेदादेव जायते । वैदिकसाहित्ये उत्कृष्टकाव्यशास्त्रीयविधानां दर्शनं भवति । वेदेषु देवानां स्तुत्यतिरिक्त्तं तत्कालीनराज्ञां कीर्तेः गानं विद्यते । संहितासु ब्राह्मणग्रन्थेषु च अनेकानां यज्ञशालिनां राज्ञां कथाः विद्यन्ते । वेदेषु अनेकेषां रसयुक्त्तोत्क्त्तीनां दर्शनं भवति । विविधानां काव्यशास्त्रीयतत्वानां समन्वयमत्र प्राप्यते । अतः कथितुं शक्यते यत् सुसम्बद्धकाव्यस्यारम्भः वैदिककालात् एव अभवत् । संस्कृतसाहित्यस्य विकासक्रमं सामान्यरूपेणैवं विभाजितुं शक्यते -
१. वैदिककालः २. वेदोत्तरकालः आर्षकालः वा ३. महाभारतकालः पुराणकालः वा ४. कालिदासात् पूर्वकालः ५. कालिदासकालः सरसकाव्यकालः ६. कालिदासोत्तरकालः अलङ्कृतकाव्यकालः वा ७. आधुनिककालः
वैदिककालः
[सम्पादयतु]वैदिकसाहित्यस्य विभागचतुष्टयं विद्यते - संहिता - ब्राह्मण - आरण्यकोपनिषद् च । वैदिकसाहित्यात् समुद्भूता काव्यधारा अविच्छन्नरूपेण प्रवाहिता सती लौकिकसाहित्यपर्यन्तमायाति यतः लौकिकरूपञ्च धारयित्वा अधुनाऽपि प्रवहति ।
आर्षकालः
[सम्पादयतु]वैदिककालानन्तरमार्षकालस्यागमनं विद्यते । अस्मिन् काले संस्कृतकाव्यजगतः महत्वपूर्णग्रन्थं रामायणं निर्मितम् । अस्य ग्रन्थस्य प्रणेता महर्षिवाल्मीकिः विद्यते । भारतीय विदुषां मते रामायणं एव संस्कृतकाव्यजगतः आदिकाव्यम् । लौकिकसंस्कृतकाव्यस्याद्य ग्रन्थः वाल्मीकिरामायणं परकालिकसाहित्यस्य उपजीव्यः जातः। ग्रन्थेऽस्मिन् काव्यरसनामुल्लेखं विद्यते -
रसैः श्रृङ्गारकरुणहास्यरौद्रभयानकैः । वीरादिभी रसैर्युक्तम् ।
वेदेषु स्फुटितकाव्यशैल्याः विकसितं रूपं रामायणे दृशयते ॥ अस्य काव्यस्य कर्ता ॠषिः वाल्मीकिः विद्यते । अत एव एषः आर्षकाव्यनाम्नापि ख्यातः । अस्य कालः आर्षकाव्यकाल - नाम्ना कथितुं शक्यते ।
महाभारतकालः
[सम्पादयतु]आर्षकाव्यकालानन्तरं महाभारतकालस्योदयः भवति । माहाभारतकाले एव पुराणानां प्रणयनपभवत् । अत एव कालोऽयं पुराणकालनाम्नापि प्रसिद्धः । यतः महाभारतस्य कर्ता व्यासेनैव पुराणानामपि रचना कृता । युगेऽस्मिन् विशालकलेवरयुक्तानां ग्रन्थानां प्रणयनमभवत् । भारतस्य सर्वोत्कृष्टः ग्रन्थः महाभारतं स्ववैशिष्ट्येन विश्वविख्यातः पुराणेषु संस्कृतसाहित्यस्य विकसितशैल्याः दर्शनं भवति । श्रीमद्भागवते भक्तिरसस्य श्रृङ्गारसस्य च प्रवाहः प्रवहति ।
कालिदासपूर्वकालः
[सम्पादयतु]महाभारतकालात् कालिदासपूर्वकालः संस्कृतकाव्यनिमित्तमन्धकारमयः । महाकविकालिदासस्य कृतयः साहित्यकदृष्ट्या पर्याप्तविकसिताः सन्ति । कवेः व्यञ्जनाविलासः छन्दानामलङ्कराणां वैविध्यं वैचित्र्यं च कवितायाः कमनीयकलेवरं कान्तं कुर्वन्ति । कालिदासस्योत्कृष्टशैल्याः परिशीलनेन ज्ञायते पुराणकालात् कालिदासपूर्वकालर्यन्तं अवश्यमेव महाकाव्यानां रचनाऽभवत् । परञ्च दुःखस्य विषयोऽयं यत् कालेऽस्मिन् रचितानि काव्यानि न उपलब्धानि । सुभाषितग्रन्थानां परिशीलनेन ज्ञायते यत् पाणिनिना पातालविजयः जाम्बवतीजयश्च काव्यद्वयं विरचितम् । कतिपयवैय्याकरणमतेन काव्यस्य प्रणेता पाणिनिः वैयाकरणात् पाणिनेः भिन्नं विद्यते। परञ्चाधिकांशविदुषां मते वैयाकरणः सत्यपि पाणिनिः सरसहृदयः सहृदयसंवेद्यकाव्यनिर्माणे पूर्णसक्षमः आसीत् । सदुक्तिकर्णामृते कविप्रशंसाप्रसङ्गे सुबन्धुकालिदास - भारवि - भवभूतिभिः सह दाक्षिपुत्रस्य पाणिनेरापि नामोल्लेखं विद्यते -
सुबन्धौ भक्तिर्न क इह रघुकारे न रमते
धृतिर्दाक्षीपुत्रे हरति हरिश्चन्द्रोऽपि हृदयम् ।
विशुद्धोक्तिः शूरः प्रकृतिमधुरा भारविगिर -
स्तथाप्यन्तर्मोदं कमपि भवभूतिर्वितनुते ।।
भाष्यकारेण पतञ्जलिना पाणिनेः दाक्षिपुत्ररूपेणोल्लेखं कृतम् । पाणिनेः काव्यम् अत्यधिकं सरसं रोचकं काव्योचितगुगैः विभूषितञ्च । महाभाष्येन ज्ञायते यत् वररुचिनापि काव्यम् विरचितम् । एवं स्पष्टं भवति यत् तत्कालेऽपि विभिन्नमनीषिभिः काव्यकाननं स्ववचनामृतेन सिञ्चितं परञ्च तेषां कृतयः शनैः शनैः लुप्ताः जाताः । तत्कालीनशिलालेखैरपि काव्यस्य विकसितरूपं प्रकाशितम् । शिलालेखेषु उपलब्धः श्लोकः उत्तमकाव्यस्य द्योतकः । रुद्रदामनस्य गिरिनारस्य शिलालेखः अलङ्कृतकाव्यशैल्याः निर्दशनं विद्यते । हरिषेणलिखितस्य समुद्रगुप्त - प्रशस्तेः काव्यक्षेत्रे महत्वपूर्णस्थानं वर्तते । वत्समहिस्तु अलङ्कृतशैल्याः कविरेव विद्यते । एवं ज्ञायते यत् कालिदासपूर्वमपि काव्यानां रचना अभवत् यैः सः प्रभावितः आसीत् ।
कालिदासकालः सरसकाव्यकालः
[सम्पादयतु]कालोऽयं संस्कृतकाव्यक्षेत्रे स्वर्णयुगः विद्यते । संस्कृतकाव्यस्य सरस - स्वाभाविक - सुकुमार शैल्याः चरमोत्कर्षः कालिदासस्य काव्ये दृश्यते। कालिदासानन्तरमश्वघोष - मातृचेट - आर्यशूरादयः बौद्धकवयः सन्ति। यद्यपि एभिः कविभिः कालिदासस्य सुकुमारकाव्यशैल्यनुकरणं कृतम् तेषां ग्रन्थेषु काव्यकलापेक्षया धर्मस्य दर्शनस्य च स्थले स्थले स्थानं विद्यते परञ्च काव्यस्य सरलता, सुन्दरता, स्वाभाविकता च सराहनीया ।
अलङ्कृतकाव्यकालः
[सम्पादयतु]कालिदासकालानन्तरम् शनैः शनैः कृत्रिमकाव्यशैल्याः विकासमारभत् । कविषु पाण्डित्यप्रर्दशनस्य प्रवृत्तिः अभवत् । केनापि अलङ्कारप्रवीणतायां केनापि शब्दाडम्बरे केनापि व्याकरणवैदुष्यप्रर्दशने केनापि दार्शनिकज्ञानप्रदर्शने तत्परः भूत्वा कवितायाः स्वाभाविकत्वम् सौन्दर्यं विनष्टं कृतम् । फलतः कालिदासस्य कवितासदृशः काव्यविलासः न दृश्यते । अस्याः परम्परायाः प्रथमः कविः भारविः विद्यते । अस्मिन्नेव युगे भट्टि - कुमारदास - माघ - श्रीहर्ष - जयदेव - बिल्हण - क्षेमेन्द्रादयः कवयः सन्ति ।
आधुनिककालः
[सम्पादयतु]अस्मिन् काव्यकालेऽपि अलङ्कृतकाव्यकालस्य प्रभावः विद्यते एव परञ्च कविभिः अनुभवं कृतम् यत् कृत्रिमकाव्येषु काव्योचितसरसतायाः अभावः भवति । अत एव तैः सरस - सरलकाव्यानां रचना कृता । अस्य युगस्य प्रमुखाः कवयः वामनभट्टबाण - युवराजकवि - भूरामब्रह्मचारी - दिलीपदत्तशर्मा - अखिलानन्दशर्मा - गङ्गाधरशास्त्री - मथुरानाथशास्त्री - मेघाव्रत - रामावतारपाण्डेय - रेवाप्रसादद्विवेदी - राजेन्द्रमिश्रादयः सन्ति।
एवं ज्ञायते यत् वैदिककालाद् अद्यावधिपर्यन्तं संस्कृतकाव्यम् उत्तरोत्तरं विकासस्य मार्गेंऽग्रसरं विद्यते।