सामग्री पर जाएँ

सदस्यः:2330931CHIRAGJAIN

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

ईराणदेशस्य श्वेतक्रान्तिः

ईराणदेशस्य इतिहासे कदाचित् एव दृश्यते यत्र राजा स्वमेव पार्षदेषु, सेनाधीशेषु, कुलीनजनेषु, धर्माचार्येषु च क्रान्तिं प्रेरयति। किन्तु ईराणदेशे मोहम्मद् रेज़ा पहलवी नामकः सम्राट् एषां सर्वेषां विरुद्धं क्रान्तिं कृत्वा स्वदेशीयान् निर्धनकृषकान् लाभयितवान्। अस्य क्रान्तेः प्रमुखलाभः पञ्चदशसहस्रं लब्धिहीनकृषकाः स्वभूमेः स्वामीभूताः।

ईराणदेशे पूर्वं स्थूलकृषिभूमिः केवलं धनाढ्यकुलपतिभिः नियंत्रिता आसीत्। कृषकाः धनिकानां अधीनाः आसन्, तेषाम् अधिकारं प्रतिकूले ये जनाः विद्रोहं कुर्वन्तः ते कठोरं दण्डं प्राप्नुवन्तः।

वर्षे १९५२ तः आरभ्य राजकीयभूमेः वितरणं प्रारभ्य १९६२ पर्यन्तं बृहत्स्वामिस्थलीनां विनाशनं कृतं। कृषकानां कृते लघुभूमिः सुलभं कृत्वा, सहकारितायोजनां च स्थापितवन्, यथा ते वित्तीयं स्थैर्यं प्राप्तुं शक्नुवन्ति। एषा भूमिवितरणप्रणाली विधाय, कृषकाः स्वश्रमस्य फलं लब्धुं शक्नुवन्ति।

जनवरी १९६३ तमे वर्षे शाहः सहस्राधिकं कृषिसंस्थायाः प्रतिनिधिभिः सह एकत्र मिलित्वा सहकारितायोजनां स्थापयति स्म। अपि च, कृषकानां राजनीतिकस्वतन्त्रता अपि स्वीकृता यतः तत्र पूर्वं जमींदाराणां प्रभुत्वं आसीत्।

शाहः १९४९ तमे वर्षे एव उक्तवान् यत् निर्धनानां राजा भवति चेत् तत् गौरवदायकं नास्ति। तस्य स्वप्नः ईराणदेशीयानां सत्कारं जीवनं दातुं आसीत्। पूर्वं पञ्चाशतः प्रतिशतं कृषिभूमिः केवलं शताधिककुलपतिनाम् आसीत्। अतः भू-सुधारणाय नितान्तं आवश्यकं आसीत्।

भूमिसुधारणाय कटुतमं प्रतिरोधः धनिककुलीनजनात्, परम्परागतधर्माचार्येभ्यश्च अभवत्। किन्तु शाहः न केवलं तेषां विरोधं सहित्वा अग्रेसरः अपितु सुधाराणां स्थिरीकरणाय दृढं प्रयत्नं कृतवान्। एषा क्रान्तिः रुधिरविहीना आसीत्, किन्तु प्रभावशाली।

मतदानद्वारा इयं क्रान्तिः जनसाधारणेन अनुमोदिता। महिलाभ्यः अपि मताधिकारः प्रदत्तः, यः पूर्वं न आसीत्। जनतायाः सहकारेण शाहः भूमिवितरणं, कारखानासंयुक्तभागिता, निर्वाचनविधानपरिवर्तनं च सिध्दीकृतवान्।

अस्य श्वेतक्रान्तेः प्रभावः केवलं ईराणदेशे नास्ति अपितु सम्पूर्णमध्यपूर्वे, उत्तरआफ्रिकायां, लाटिन-अमेरिकायां च अनुकरणीयः अस्ति।

"जनता सह मिलित्वा अस्माभिः एकं उज्ज्वलं राष्ट्रं निर्मातव्यं।" इति शाहस्य कथनं आसीत्। सः केवलं इतिहासस्य पृष्ठं न परिवर्तितवान्, अपितु नूतनायां युगे देशं प्रविष्टवान्।

शाहस्य योजनासु केवलं भूमिवितरणं नासीत्, अपितु शिक्षायाः विकासः, स्वास्थ्यसेवायाः प्रवर्धनं, औद्योगिकीकरणस्य तीव्रगमनं च सम्मिलितमासीत्। ईराणदेशस्य विद्यालयाः, चिकित्सालयाः, उद्योगाः च नवीननीतिभिः समृद्धाः अभवन्। कृषकानां सहकारितासंस्थाः तेभ्यः वित्तसाहाय्यं प्रदातुं स्थापिताः।

शाहः स्वदेशीयानां जीवनगुणस्य वृद्धये नवीननीतिं स्वीकृतवान्। सः इत्थं वदति स्म - "देशस्य विकासः केवलं धनाढ्यवर्गस्य हिताय न भवेत्, अपितु प्रत्येकः नागरिकः अपि तत्र लाभं प्राप्नुयात्।" एषा दृष्तिः एव तस्य नेतृत्वस्य विशेषता आसीत्।

ईराणदेशीयाः महिलाः अपि एषस्य क्रान्तेः महत्त्वपूर्णभागं अभवन्। मताधिकारः, शिक्षा, कार्यक्षेत्रे अवसराः इत्यादयः महिलाभ्यः प्रदत्ताः। शाहः स्वीकृतवान् यत् "राष्ट्रस्य समृद्धिः केवलं पुरुषाणां कार्येण न भवेत्, अपितु स्त्रियाः अपि समानं योगदानं ददाति।"

अस्मिन श्वेतक्रान्तौ प्रमुखं लक्ष्यं आसीत् - आधुनिक, शिक्षितं, औद्योगिकरूपेण समृद्धं च ईराणं निर्मातुं। यद्यपि विरोधाः आसन्, तथापि शाहस्य दृढसंकल्पः, सुधारयोजनाः च राष्ट्रं नूतनदिशायां प्रेरितवन्तः।

"https://sa.wikipedia.org/w/index.php?title=सदस्यः:2330931CHIRAGJAIN&oldid=492089" इत्यस्माद् प्रतिप्राप्तम्