सदस्यः:AUPRIYA SANS/प्रयोगपृष्ठम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

{Infobox | name = योग विद्या | image = | caption = योग शास्त्रम् }

योगः

योगविद्या भारतवर्षस्य अमूल्यनिधिः । पुराकालादेव अविच्छित्ररुपेण गुरुपरम्परापूर्वकं प्रचलिताऽऽसीत् गुरुपरम्परेयम् । वस्तुत ऋषिमुनियोगिनामध्यवसायजनितं साधनालब्धं अन्तर्जगतो महत्त्वपूर्णमन्तर्विज्ञान भवति तथा । अनेन योगसमाधिना ऋषयो मन्त्रान् द्रष्टुं समर्था आसन् श्रीमद्भगवद्गीतायां योगस्य द्विविधत्वं वर्णितं श्रीकृष्णेन । यथा –ज्ञानयोगः, कर्मयोगश्च । परम्परनिरपेक्षं मोक्षसाधनत्वेन कर्मज्ञानयोगरुपं निष्ठाद्वयमुक्तम् ।योगदर्शनानुसारेण योगस्य अष्टौ अङ्गानि सन्ति । तदुक्तं योगदर्शने यम्- नियम- आसन- प्राणायाम-प्रत्याहार –धारण् –ध्यान – समाधयोऽष्टाङ्गानि – इति । एतेषां वहिरङ्गान्तरङ्गभेदेन द्विविधत्वं कल्प्यते । एषु यम- नियम – आसन –प्राणायाम –प्रत्याहरादीनि पञ्चाङ्गानि वहिरङ्गानि सन्ति । धारणा –ध्यान –समाधीति त्रीणि अन्तरङ्गाणि भवन्ति । यतो हि एतेषामन्तः करणेन साकमेव सम्बन्धो विद्यते । अतः एतेषामन्तरङ्गत्वम् ।योगः भारतस्य आधारः अस्ति।योगं विना वयं स्वस्थः सानन्दः च भवितुम नशक्नुमः। अस्मिन् ग्रन्थे अष्टांग-योगस्य वर्णनम् अस्ति।केवलम् योगेन सहायस्य स्वस्थः भविष्यति शारिरिकम् मान्सिकम् च पुष्ठये योगः महत्वपूर्णः अस्ति।


महर्षिणा पतञ्जलि:

सर्वप्रथम महर्षि पतञ्जलिः योगसुक्तम् प्रतिपादितम। महर्षिणा पतञ्जलिना त्रयाणां कृते संयमः इत्युच्यते । तद्यथा – त्रयमेकत्र संयमः । अष्टाङ्गयोगद्वारा प्रमाण- विपर्यय- विकल्प निद्रा – स्मृत्यादिपञ्चप्रवृत्तीनां निरोधं कृत्वा योगसमाधौ प्रविशति योगी ।कर्मफलमनपेक्षमाणः सन् अवश्यं कार्यतया विहितं कर्म यः करोति स एव योगी भवति । इन्द्रियभोगेषु तत्साधनेषु च कर्मसु यदा आसक्तिं न करोति, सर्वान् भोगविषयान् परित्यजति तदा स योगारुढं उच्यते । स एकान्ते स्थितः सन् सङ्गशून्यो भूत्वा मनः वशीकृत्य आशां परिग्रहञ्च परित्यज्य सततमात्मानं समाहितां कुर्यात् । तत्रासनमुपविश्य एकाग्रं विक्षेपरहितं मनः कृत्वा योगमथ्यसेत् । यस्य आहारः विहारश्च नियमितः, सर्वेषु कर्मसु यस्य चेष्टा नियमिता, यस्य शयनः जागरणञ्च नियमितं तस्य दुःखनिवर्त्तको योगो सिद्धिम्।

योगशास्त्रपरिचयः

अस्मिन् योगशास्त्रे चत्वारः पादाः सन्ति । तेषां नामानि क्रमाद् भविष्यन्ति -समाधिपादः, साधनपादः विभूतिपादः, कैवल्यपादश्चेति । प्रथमे पादे भगवान् पतञ्जलिः -‘अथ योगानुशासनम्’, इति शास्त्रारम्भस्य प्रतिज्ञां करोति । अनन्तरं योगस्य परिभाषा अस्ति -"योगश्चित्तवृत्तिनिरोधः" इति । चित्तवृत्तयः-प्रमाणविपर्ययविकल्पादयः । एतेषां निर्वर्तनं योगशब्दार्थः । समाधिशब्दस्यार्थः -सम्यक् आधानम् इति, अर्थात् चित्तस्य स्वात्मस्वरुपे अवस्थापनमिति । योगवासिष्ठे सामाधिलक्षणमेवमभिहितम्- 'इमं गुणसमाहारमनात्मत्वेन पश्यतः' । 'अन्तः शितलता यस्य समाधिरिति कथ्यते' ॥ इति । द्वितीये साधनपादे -" तपः स्वाध्यायेश्वरप्रणिधानानि क्रियायोगः" इत्यादि सूत्रद्वारा चञ्चलचित्तपुरुषाणां तपः स्वाध्यायादि क्रियायोगः एवं यमनियमादिबहिरङ्गसाधनभूतानां तत्त्वानामुल्लेखः वर्णितः । अत्र तपः इति शब्देन चान्द्रायणादिक्लेशकारकस्य तपसः अर्थावबोधो न भवति, यतः चान्द्रयणादयः शरीरे क्लेशजनकत्वात् तेन चित्तस्य ऐकाग्य्रं न तिष्ठति । अत्र तपः शब्दार्थः इत्यंभूतः भवति-हितकारकं स्वल्पं सात्विकभोजनं तथा शीतोष्णसुखदुःखादीनां सहनं एवमिन्द्रियाणां निरोधात्मक यद्भवति तत्तपः इत्युच्यते । योगशास्त्रे तपः प्रसन्नकरणात्मकं वर्तते न तु पीडात्मकम् । स्वाध्यायस्यार्थः-मोक्षशास्त्राध्ययनं या नियमपूर्वकं प्रणवादिजपानुष्ठानमिति । ईश्वर-प्रणिधानं नाम परमात्मनः अनुचिन्तनम् अथवा परमात्मनि सर्वकर्मणां समर्पणम् इति भवति । सर्वेषु क्रियायोगेषु ईश्वरप्रणिधानं नाम क्रियायोगः उत्तमः इति स्वीक्रियते । "यद्यत् कर्म करोमि तत्तदखिलं शम्भो तवाराधनम्" इति ईस्वरप्रणिधानयुक्तः पुरुषः सर्वकर्माणि ईश्वारा-र्पितसेवाबुध्या करोति इत्यादयः विषयाः प्रतिपादिताः । तृतीये विभूतिपादे -जन्मान्तज्ञानं, भूतभविष्यदर्थकं ज्ञानं, अन्तर्हितम् इत्यादि अनेकप्रकाराः सिद्धयः उपन्यस्ताः । चतुर्थे कैवल्यपादे -"जन्मोषधिमन्त्रतपः समाधिजाः सिद्धयः" इति सूत्रेण पञ्चानां सिद्धीनां वर्णनं करोति । देवतानां सिद्धिः जन्मना एव जायते । एवं पक्षिणामाकाशे उड्डयनं पशूनां जलतरणमित्यादि जन्मतः एव प्रसिद्धः । ओषधेभ्यः सिद्धिः प्राप्यते । आयुर्वेद, रसेश्वरदर्शनादिषु सिद्धिरियं वर्णिता ।


योग सूत्र:

योगसूत्रस्य चत्वारः पादाः सन्ति –(१) समाधिपादः (२) साधनपादः (३) विभूतिपादः (४) कैवल्यपादश्च । प्रथमे समाधिपादे चित्तवृत्तीनां समाधिभेदानां च वर्णनं विद्यते । द्वितीये साधनपादे क्रियायोग- क्लेशनाशोपायानां योगाङ्गानां च प्रतिपादनमस्ति । तृतीये विभूतिपादे धारणा –ध्यान –समाधिरुपाणां अवशिष्टानां विशिष्टयोगाङ्गनां प्रतिपादनेन सह योगाभ्यासजन्य –अदृश्यशक्तिनाम् अर्थात् विभूतीनामपि वर्णनं प्राप्यते । चतुर्थे कैवल्यपादे समाधिसिद्धि-निर्वाणचित्त-विज्ञानवादखण्डन –कैवल्यादयो विषयाः विस्तरेण निरुपिताः सन्ति ।

समाधिपादः साधनापादः विभूतिपादः कैवल्यपादः

पतञ्जलिविरचितस्य योगसूत्रस्य एको भाष्यग्रन्थः प्रसिद्धोऽस्ति । तस्य नामास्ति व्यासभाष्यम् इति । योगसूत्राणां रहस्यं स्फुटीकर्त्तुम् अस्य भाष्यग्रन्थस्य अपयोगिता प्रामाण्यं च स्वीक्रियते । यद्यपि व्यासभाष्ये क्लिष्टताया आधिक्यमस्ति तथापि दुर्वहं नास्ति, यतो हि अस्य भाष्यस्यापि अनेके टीकाग्रन्थाः प्राप्यन्ते । वाचस्पतिमिश्रस्य तत्त्ववैशारदी “ विज्ञानभिक्षोः” “योगवार्तिकम् “ च श्रेष्ठौ टीकाग्रन्थौ स्तः । एतदतिरिक्तं हरिहरानन्द आरण्यक विरचिता एका अन्या टीका “ भास्वती” नाम्नाऽपि प्राप्यते । तत्त्ववैशारदी” विषयीकृत्य कालान्तरे राघवानन्देन “पातञ्जलयोगरहस्यम्” इति नाम्ना टीकाग्रन्थो रचितः ।


https://en.wikipedia.org/wiki/Yoga