सदस्यः:Aare hrushikesh 1830784

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


— Wikipedian —
जन्म हर्यन
देशः भरत्
निवासः हर्यना
भाषा हिन्दि
देशजातिः हरियानि

हरियाणा संस्कृति सम्प्रदयः[सम्पादयतु]

भारतस्य हरित-क्रान्तौ समृद्धस्य हरियाणा-प्रदेशस्य योगदानम् ऊन-विंश-शताब्दस्य षष्ठे दशके [१९६०] देशे प्रवर्तितायां हरित-क्रान्तौ हरियाणा-प्रदेशस्य

महद् योगदानमासीत् येन आधनिकं भारतं खाद्यान्न-सम्पन्नं जातम् । भारतस्य समृद्धतम-राज्येषु अन्यतमस्य हरियाणा-राज्यस्य, प्रतिव्यक्ति आयमानाधारेण इदं देशस्य

द्वितीयं समृद्धतमं राज्यं वर्तते । एतदतिरिच्य, भारते सर्वाधिकाः कोटि-पतयो धनिकाः अपि अस्मिन्नेव राज्य सन्ति । हरियाणा-राज्यम् आर्थिकरूपेण दक्षिण-एशिया-द्वीपस्य

विकसिततमं क्षेत्रं वर्तते, अपि चात्र, कृषि-विनिर्माणोद्योगः १९७०-२०००-तमे वर्षतः अनारतं वृद्धिमवाप्नोत् । यात्रिणां कारयानानां, द्विचक्रिका-वाहनानां, कृषित्र-[ट्रैक्टर]-यानानाञ्च निर्माणे भारते हरियाणा-राज्यं सर्वोपरि वर्तते। भारते प्रतिव्यक्ति-निवेशाधारेण वर्षे हरियाणा सर्वोपरि स्थानं भजते स्म ।

हरियाणा-राज्यस्य कला-परम्पराः बहुवर्णीया संस्कृतिश्च - हरियाणा-राज्यस्य सांस्कृतिक-जीवनेsपि कृषेः अर्थव्यवस्थायाः विभिन्नानाम् अवसराणां समन्वितिः प्रतिबिम्बायते तथा चास्मिन्

विराजते प्राचीन-भारतस्य परम्पराणां लोककथ भाण्डारः। हरियाणा-प्रदेशस्य एका विशिष्टा भषित-भाषास्ति, एतस्याञ्च स्थानिकानाम् आभाणकानां सहजं प्रचलनं प्रवर्तते ।

स्थानीयं लोकगीतं [विशेषरूपेण...रागिणी] नृत्यञ्च स्वीयाकर्षक-शैली- कारणात् एतद्- राज्यस्य सांस्कृतिक-जीवनं सविशेषं प्रदर्शयतः । एते ओजोभरिते स्थानीय-संस्कृतेः विनोद-प्रियतया

च संपृक्ते स्तः। वसन्तर्तौ आनन्दोल्लास-सम्भृते होलिका-पर्वणि जनाःपरस्परं ‘गुलाल’-इति रक्तचूर्णं स्नेहेन रागेण प्रेम्णा च प्रक्षिप्य आर्द्र-वर्णैः क्रीडन्ति | अस्मिन् न कस्यचन वयसो वा सामाजिक-योग्यतायाः वा भेदो व्यवह्रियते । हरियाणा-राज्ये जन्माष्टमी - इति भगवतः श्रीकृष्णस्य जन्मदिनस्य विशिष्टं धार्मिकञ्च महत्त्वं वर्तते |



"https://sa.wikipedia.org/w/index.php?title=सदस्यः:Aare_hrushikesh_1830784&oldid=484581" इत्यस्माद् प्रतिप्राप्तम्