सदस्यः:Achinthya Bhat/प्रयोगपृष्ठम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

मनोविज्ञानम्[सम्पादयतु]

Nicolas_P._Rougier's_rendering_of_the_human_brain

मानसिकरोगः -[सम्पादयतु]

मनुष्यः यदा खिन्नः भवति तदा सः दुःखभावनायुक्तः भवति । अल्पावधिखिन्नस्य मनुष्यस्य चिकित्सा अनपेक्षिता । किन्तु दीर्घावधिं खिन्नतां यः अनुभवेत् तस्य मनुष्यस्य चिकित्सा अपेक्षिता भवति । खिन्नता सप्ताहद्वयं यावत् तिष्ठेत् तर्हि सा भवति चिन्तनीया । अनेन कारणेन व्यक्तेः कार्येषु , दैनन्दिनक्रियासु, तृप्तिकरसम्बन्धेषु च विपरिणामाः भवन्ति । मानसिकरोगः सामान्यतः पुरुषाणाम् अपेक्षया स्त्रीषु अधिकतया दृश्यते । डोपमिन् -सेरोटोनिन्-रासायनिके मस्तिष्के समप्रमाणेन भवेताम् । एते नरवाहकाः न्यूनाः भवन्ति चेत् मानसिकरोगः उत्पत्स्यते ।

मानसिकरोगिणः लक्षणानि-[सम्पादयतु]

मानसिकास्वस्थः मन्दगत्या चलति । अलोचने अपि मन्दगतिः भवति । वैयक्तिकशुचित्वस्य अरोग्यस्य विषये च निरासक्तिः । दुःखसहितः भवति । सुलभतया अश्रूणि स्रावयति । अल्पमानसिकास्वस्थस्य कदाचित् अश्रूणि नागच्छेयुः । स्वालोचनासु विश्वासः न भवति । असहायकता व्यक्तिषु दरीदृश्यते ।

मानसिकरोगोत्पत्तये नैकानि कारणानि विद्यन्ते । तेषु जैविक-मानसिक-सामाजिकानि कारणानि भवन्ति । एतैः सह शारीरकरोगाः, कौशलानां न्यूनतादीनि अपि कारणानि भवन्ति ।

मनोविज्ञानि-[सम्पादयतु]

इवान् पेत्रोविच् पाव्लोव् सोपाधिकप्रतिवर्तनस्य संशोधकः । अयम् एव रष्यादेशे "नोबेल्” पुरस्कारं प्राप्तवान् प्रथमः विज्ञानी । अयं १८४९ तमे वर्षे सेप्टेम्बरमासस्य १४ दिनाङ्के रष्यादेशस्य रैजान् इति प्रदेशे जन्म प्राप्नोत् ।