सदस्यः:Adarsh bhandari/प्रयोगपृष्ठम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

श्री श्रृंगीऋषिआश्रमधाम

अयोध्याया: राजा दशरथस्य चत्वार: पुत्रा: आसन् । तेषामुत्पत्तिकथा तु प्रायश: सर्वे जानन्ति । राज्ञा दशरथेन पुत्रेष्टियज्ञम् आयोजितम् । तेन भगवान् अग्नि: प्रसन्न: अभूत । स: तं प्रति चरू प्रदत्तवान् ।

Pk13, Old building of the Ashram

तत् भुक्त्वा कौसल्या, सुमित्रा, कैकेयी च तिस्र: अपि राजमहिषय: पुत्रवत्य: अभवन् । कौशल्याया: पुत्ररूपेण जगत्पिता श्रीनारायण: अवतरित: अभवत् । स: रावणं हत्वा जगत: कष्टशान्तिम् अकरोत् ।

कथा - भगवत: श्रीरामस्य कथा तु वयं जानिम: एव, किन्तु किं भवन्त: जानन्ति यत् य: दशरथस्य पुत्रेष्टियज्ञस्य पुरोहित: आसीत्, किं नाम तस्य महात्मन: । स: आसीत् महर्षि: माण्डव्यस्य पुत्र: महात्मा श्रृंगीऋषि: । महात्माश्रृंगीऋषि: तपस्यारत: आसीत् यदा राज्ञा रोमपादेन प्रेरित: महाराज दशरथ: तं प्रति गतवान् पुत्रेष्टि यज्ञाय निवेदितुम् । जगकल्याणाय महात्मा श्रृंगीऋषि: तस्य निवेदनं स्वीकृतवान् । तेन कारितेन यज्ञेन भगवत: श्रीरामस्य जन्ममभवत् । तस्य एव महात्मन: आश्रम: अस्ति सरयूनद्य: तटे अयोध्याधामत: कदाचित् चत्वारिंशतकिलोमिटरमिति, उत्तरपूर्वदिशि ।

माहात्म्यम् - श्रीश्रृंगीऋषि धाम्न: स्थापना कदा अभवत् इति तु नैव जानन्ति केचिदपि । किन्तु अस्य प्राचीनता विषये वदन्ति केचन् वृद्धपुरुषा: महिलाश्च स्थानीयानां ग्रामाणाम् । अस्य स्थानस्य वर्तमानस्वरूपं तु भिन्नमेव किन्तु जना: अस्य पूर्वस्वरूपस्य विषये वदन्ति यत् पूर्वं तु अत्र केवलं गुहाद्वयमासीत् । एका तु महात्मन: श्रीश्रृंगीऋषे:, अपरा तु तस्या: भार्या माता शान्तादेव्या: । उभयौ अपि गुहौ परस्परं वामत: दक्षिणत: विराजेते । गुहायां महात्मन: श्रृंगीऋषे: मृदापिण्डम् अपि । तथैव मातु: शान्ताया: अपि मृदापिण्डमस्ति तस्य गुहायाम् । जना: एतयो: मृदापिण्डयो: विषये वदन्ति यत् अस्य क्षरणं कदापि न भवति । पुनश्च एतौ मृदापिण्डौ सहस्राधिकवर्षेभ्य: अत्रैव एवमेव विराजेते । एतयो: परिवर्तनं नाभवत् ।

मान्यता: - अस्य स्थानस्य विषये मान्यता अस्ति यत् अत्र ये केपि यत् किमपि शुद्ध-पूतमनसा याचन्ते तेषां ता: सर्वा: आवश्यकता: पूर्णा: भवन्ति । अत्र ये जना: आत्मन: समस्या: स्वीकृत्य महर्षे: मृत्पिण्डे नमन्ति तेषां ता: समस्या: महर्षिणा श्रृंगीऋषिणा निवार्यते । एवं वदन्ति जना: यत् एकदा कश्चित् ज्येष्ठक्षत्रिय: कुटिलसिंह: (काल्पनिकं नाम) कस्यचित् दुर्बलसिंह नामकस्य ग्रामीणस्य भूमि: बलात् गृहीतवान् । तं परिवारेण सह गृहात् निस्सारितवान् । स: दुर्बलसिंह: असहाय: सन् महर्षे: स्थानं प्रति गतवान् सपरिवारेण । तत्र स्थित्वा स: प्रार्थनां कृतवान् यत् - 'भो भगवन् । यदि भवत: इच्छा भवेत् चेत् अहं जीवामि नोचेत् अत्रैव जलसमाधि: स्वीकरिष्यामि परिवारेण सह सरयूनद्याम् । तस्य एतां याचनां कदाचित् महर्षि: अंगीकृतवान् । तक्षणमेव ग्रामीणा: एकं पंचायतम् आयोजितवन्त: श्रृंगीऋषिआश्रमे एव । तत्र सर्वे एकत्रिता: अभवन् । कुटिलसिंह: चापि उपस्थित: अभवत् । इदानीमपि कुटिलसिंह: तस्य भूमिम् आत्मन: एव वदति स्म । तदानीमेव साक्षात् महात्माश्रृंगीऋषे: गुहात: एक: विषधर: कृष्णवर्णीय: सर्प: आगत्य सर्वेषां मध्ये उपविष्ट: सन् मनुष्यवाण्याम् अवदत् यत् एषा भूमि: अस्य दुर्बलसिंहस्य एव अस्ति । कुटिलसिंह: तु मिथ्याभाषक: । इति एतत् चमत्कारं दृष्ट्वा सर्वे जना: आश्चर्यचकिता: अभवन् । स: दुष्ट: कुटिलसिंह: नितरां लज्जित: अभवत् । तस्य मानसिकवेदना एतावती वर्धिता यत् स: तदा एव प्रमत्त: अभवत् । तस्य मानसिकदशा विकृता अभवत् । दुर्बलसिंह: तु न्यायं प्राप्य भगवत: श्रृंगीऋषे: महिमां गीत्वा गृहं प्रति गतवान् । तदा आरभ्य तत्र जना: मन्दिरनिर्माणं कारितवन्त:, पूजापाठादिकं च आरब्धवन्त: । इति

प्रभाव: - प्रतिवर्षे सरयूनद्यां वर्षाकाले जलप्रवाह: वर्धते । सरयूतटे स्थिता: शताधिका: ग्रामा: च विस्थापिता: भवन्ति किन्तु साक्षात् सरयूनद्यामेव स्थित: श्रृंगीऋषिआश्रम: कदापि न विस्थापित: । अत्र जलाप्लावनस्य समस्या कदापि न विद्यते । अत्र यानि सोपानानि अवस्थितानि सन्ति तेषु सोपानेषु अन्तिमसोपानपर्यन्तम् आगत्य सरयूजलं प्रतिगच्छति । कदापि अन्तिमसोपानस्य उल्लंघनं नैव करोति । सम्प्रति अत्र बहूनि मन्दिराणि निर्मितानि सन्ति येषु श्रीरामजानकीमन्दिरं सर्वतो प्राचीनम् अस्ति । तत्र महात्मा श्रीजगदीशदास: मुख्यपूजक: अस्ति । तत्र अन्यमन्दिरेषु प्रमुखमन्दिराणि श्रीराधाकृष्णमन्दिरं, श्रीलक्ष्मीनारायणमन्दिरं, श्रीनाउबाबाहनुमानमन्दिरं, श्रीदुर्गामन्दिरं, श्रीबिहारीबाबामन्दिरं इत्यादीनि सन्ति । प्रतिवर्षे अत्र श्रीरामनवमीअवसरे मेलापकम् आयोज्यते । श्रावणमासे झूलामहोत्सव: भवति । वर्षे एकबारं सत्संगमपि आयोज्यते । सर्वाणि कार्याणि स्थानीयग्रामा: ईशापुरं, शेरवाघाट, सुजानपुरं इत्यादया: मिलित्वा साधयन्ति । अत्र आगत्य जनानां सर्वा: मनोकामना: स्वयमेव पूरित: भवति । इति .......