सदस्यः:Agarwalronak7/प्रयोगपृष्ठम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

अयं सिग्मण्ड् फ्राय्ड् मनोविज्ञानस्य अध्वर्युः । एषः आस्ट्रियादेशस्य फैबर्ग् इति प्रदेशे १८५६ तमे वर्षे मेमासस्य ६ दिनाङ्के निर्धने यहूदिकुटुम्बे जन्म प्राप्नोत् । यदा एषः सिग्मण्ड् फ्राय्ड् ४ वर्षीयः आसीत् तदा तस्य कुटुम्बं वियेन्नां प्रति गतम् । तदनन्तरं सम्पूर्णं जीवनम् अयं सिग्मण्ड् फ्राय्ड् वियन्नानगरे एव अयापयत् । अयं श्रमेण अध्ययनं कृतवान् । गृहे तु सदा दारिद्र्यम् एव आसीत् । यद्यपि सः तत्त्वशास्त्रे, संस्कृतौ, रसायनशास्त्रे, जीवशास्त्रे च आसक्तः आसीत् तथापि संशोधनार्थं जीवशास्त्रम् एव अचिनोत् । तस्य पूरकत्वेन अङ्गरचनाशास्त्रं, प्राणिनां नाडीसमूहम्, औषधशास्त्रं च अध्येतव्यम् अभवत् । अनन्तरं तेषां सर्वेषां शास्त्राणां मिश्रणेन वैद्यपदवीं प्राप्नोत् । वैद्यपदव्याः प्राप्तेः अनन्तरम् अपि जीवविज्ञाने, नाडीसमूहविषये च आसक्तः सिग्मण्ड् फ्राय्ड् प्रशिक्षणार्थं प्रसिद्धानां वैद्यानां समीपम् अगच्छत् । सः मनसः विषये, नाडीविज्ञाने, मस्तिष्कविषये च परिणतानां जीन् चार्काट्, वान् ब्रुयर्, जि.एच्.मेयनर्ट् इत्यादीनां मार्गदर्शने अध्ययनं कृत्वा वियेन्नानगरे एव कञ्चित् नाडीरोगस्य चिकित्सालयम् उदघाटयत् । तदा समाजे मस्तिष्कस्य, मनसः, नाड्याः च रोगाणां विषये जनानां ज्ञानं न आसीत् एव । मानसिकरोगीन् उन्मत्ताः इति मत्वा बन्धने स्थापनं वा ताडनं वा कुर्वन्तः तान् दण्डयन्ति स्म । मानसिकरोगस्य कारणं भयम् अपि भवितुम् अर्हति इति न जानन्ति स्म । एतत्सर्वं दृष्टवान् सिग्मण्ड् फ्राय्ड् मानसिकानां रोगाणां विषये एव अधिकं लक्ष्यम् अददात् । एषः सिग्मण्ड् फ्राय्ड् “कोकेन्” इत्यस्य परीक्षां कृत्वा तत् स्थानीयस्य संज्ञाहीनकरणस्य औषधत्वेन उपयोक्तुं शक्यते इति सूचितवान् । किन्तु वेदनानिवारकं कोकेन् अग्रे अभ्यासत्वेन परिवर्तते स्म । तेन जायमानां हानिम् अपि सः जानाति स्म । एषः सिग्मण्ड् फ्राय्ड् यदा प्यारिस्-नगरे आसीत् तदा प्रख्यातः नाडीतज्ञः जीन् मार्टिन् शार्कूट् उन्मादरोगस्य चिकित्सां यत् विशिष्टया रीत्या कृतवान् तत् दृष्टवान् आसीत् । तथैव ब्रायर् इत्याख्यः उन्मादयुक्तानां वशीकरणं कृत्वा सुप्तावस्थायां यत् रोगनिवारणं कृतवान् तदपि दृष्टवान् आसीत् । तदा एव सिग्मण्ड् फ्राय्डस्य सुप्तावस्थायाः जागरितावस्थायाः च मध्ये कश्चन सेतुः भवेत् इति अस्फुरत् । एतत् एव तस्य मनोविश्लेषणस्य प्रेरणामूलम् अपि अभवत् ।

RONAK AGARWAL BA JPEng 1631379