सामग्री पर जाएँ

सदस्यः:Arundathisv/सुभाष घई

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

सुभाष घई एकः भरतीय चलनचित्रकारः अस्ति | सः हिन्दी चलनचित्रक्षेत्रे कार्यनिरतः अस्ति | सुभाष घई कि जन्मम् २४ जनवरि १९४५तमे जातः |भारतस्य स्वातन्त्र्यसङ्ग्रामस्य वेलायां प्रसिद्धिं गतायाः इन्‌खिलाब् जिन्दाबाद् इति घोषणायाः स्फूर्त्या अमिताभस्य नामकरणं पूर्वम् इन्‌खिलाब् इत्येव कृतमासीत् । ततः परम् अमिताभः इति पुनर्नामकरणं जातम् । तस्य अर्थः “शाश्वतदीपः” इति । बच्चन्-वंशस्य नाम यद्यपि श्रीवास्तव इति वर्तते तथापि तस्य पिता बच्चन् इति नाम एव चित्वा तेनैव नाम्ना सर्वाणि पुस्तकानि प्राकाशयत् ।बच्चनः स्वीये चलच्चित्रवृत्तिजीवने त्रिस्रः राष्ट्रिय-चलनचित्रप्रशस्तीः द्वादश फिलंफेर् प्रशस्तीः च आसादितवान् । न केवलं तावत् इतराः अनेकाः अपि प्रमुखाः प्रशस्तीः तेन अर्जिताः । अत्युत्तमनट इति क्षेत्रे “फिलंफेर्-प्रशस्ति”निमित्तम् अत्यधिकवारम् अयमेव नामकरणं प्राप्तवान् इति अभिलेखे अङ्कनम् अस्य नाम्नि एव अस्ति ।

बच्चनेन न केवलं नटनक्षेत्रे कार्यं कृतम् अपि तु पृष्ठभूमिका-गायकत्वेन चित्रनिर्मापकत्वेन ‘टि.वि’निरूपकत्वेन अपि कार्यं कृतम् । अमिताभः १९८४तः १९८७तमवर्षपर्यन्तं यावत् भारतस्य संसत्-सदस्यः अपि आसीत् । नटीं जयाबादुरि इत्येतां सः वृतवान् अस्ति । एतयोः दम्पत्योः श्वेतानन्दा अभिषेक-वच्चनः इति द्वौ पुत्रौ । नटः अभिषेकः नटीम् ऐश्वर्या रै इत्येताम् ऊढवान् अस्ति । १९६९तमे वर्षे ‘सात् हिन्दूस्तानि’ चित्रस्य सप्त नायकेष्वन्यतमः भूत्वा बच्चनः चित्ररङ्गं प्रविष्टवान् । उत्पलदः मधुः जलालः आघा इयादीनां तारागणेन युक्तं चित्रमिदं ख्वाजा अहमद् अब्बास् इत्येतस्य महाशयस्य निर्देशनयुक्तं वर्तते । आर्थिकदृष्ट्या यद्यपि चित्रमिदं यशस्वितां नाप्नोत् तथापि तस्य चित्रेऽस्मिन् नटनाय प्रथमवारम् ‘अत्युत्तमः नवनटः’ इति राष्ट्रियप्रशस्तिं अमिताभः आसादितवान् ।

तत्पश्चात् राजेश् खन्ना इत्येतेन सह अभिनीतम् 'आनन्द' (१९७१) चित्रं वाणिज्योद्देश्येन यशस्वितां विमर्शकानां प्रशंसां चापि आप्नोत् । अस्मिन् चित्रे अनेन निरूढं जीवनस्य विषये विभिन्नदृष्टिकोणयुतं वैद्यस्य पात्रं तस्मै फिल्म्‌फेर्-अत्युत्तम-पोषकनटप्रशस्तिं समानयत् । पश्चात् अमिताभः 'पर्वाना' (१९७२) चित्रे नवीन्‌निस्कोलः योगिताबालि ॐप्रकाशः इत्यादीनां तारागणे अविवेकिनः प्रेमिणः पात्रे अभिनीतवान् ।

अमिताभस्य खलनटस्य पात्रे अभिनयाय इदमपरूपमुदाहरणम् । तत्पश्चात् निर्मितानि रेश्मा और् शेरा(१९७१) इत्यादि बच्चनेन अभिनीतानि अनेकानि चित्राणि चित्ररङ्गक्षेत्रे विशेषं यशः नाविन्दन्त । अस्मिन् एवावसरे नटेन धर्मेन्द्रेण तथा भाविन्या पत्न्या जयाबादुर्या सह गुड्डि इति चित्रे अतिथिनटो भूत्वा बच्चनः अदृश्यत । आरम्भिके वृत्तिजीवने स्वस्य अपूर्वेण ध्वनिना सर्वेषां ध्यानम् आकृष्टः अयं ‘बावर्चि’ चित्रस्य भागमेकमपि निरूपितवान् वर्तते । १९७२तमे वर्षे प्रयाणस्य सन्निवेशयुक्ते, साहसमये हास्यमये च एस्.रामनाथन् महाशयेन निर्देष्टे बाम्बे टु गो‌आ चित्रे असावभिनीतवान् । अस्मिन् चित्रे अरुणा इरानी मेह्‌मूद् अन्वर् अलि नासिर् हुसेन् इत्यादिभिः सह बच्चनः अनटत् ।लण्डन्-नगरे बच्चनस्य ‘व्याक्स्’ इति वस्तुना निर्मिता प्रतिमा काचिद्वर्तते ।

"https://sa.wikipedia.org/w/index.php?title=सदस्यः:Arundathisv/सुभाष_घई&oldid=421121" इत्यस्माद् प्रतिप्राप्तम्