सदस्यः:Bharathi.achaar/दार्जिलिङ्ग

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


दार्जिलिङ इति शब्दस्य व्युत्पत्तिः संस्कृतं 'दुर्जयलिङ्गम्' इति शब्दात् । देवादिदेवः शिवः अत्र द्योत्यते । परन्तु अपरपक्षानुसारं तिब्बतदेशीय 'दोर्जे' (अर्थः-वज्रः) तथा 'लिङ' (अर्थः-भूमिः) पदयोः सम्मिलितरूपं 'दार्जिलिङ'(वज्रभूमिः) इति । दार्जिलिङ अन्ताराष्ट्रियस्तरे प्रसिद्धस्थलम् । विशेषतः सुगन्ध-चायपत्राणि पृथिवीख्यातः । 'युनेस्को' इति संस्थया दार्जिलिङप्रदेशीय हिमालयन् रेल्वे विश्वसम्पदस्थलमिति घोषितम् । दार्जिलिङमण्डले चायसस्यकृषिः प्रथमवारं प्रायः १८०० वर्षे प्रारब्धासीत् । भौगोलिकदृष्ट्या दार्जिलिङमण्डलं शिवालिक-पर्वतश्रेण्याम्(शिवलिङ्गपर्वतश्रेणी) अन्तर्भवति । दार्जिलिङमण्डलस्य नैसर्गिकपरिदृश्यानि अतीवरमणीयानि सन्ति ।

• उनविंशशतके दार्जिलिङमण्डले राजनैतिकाऽस्थिरता आसीत् । तस्मिन् समये प्रदेशोऽयं राजनैतिकशक्तिप्रदर्शनी स्थलरूपेण परिवर्तितासीत् । आदौ तिब्बत अनन्तरं यूरोप-[[रशिया-आफगानिस्तानाधीनं मण्डलमिदमासीत् । ब्रिटिशशासनकालेऽपि जापानसेनायाः तथा सुभाषचन्द्र बोस महोदयस्य भारतीयराष्ट्रियसेनावाहिन्या(इंडियन नेशनल आर्मी ) कार्यलयाः दार्जिलिङमण्डले आसन् । वर्तमानस्थितिः[सम्पादयतु] वर्तमानकाले दार्जिलिङमण्डलं पश्चिमबङ्गस्य एकः भागः । अस्य मण्डलस्य विस्तारः ३,१४९ वर्गः कि मी । दार्जिलिङमण्डलस्य उत्तरदिशि सिक्किमराज्यस्तथा नेपालदेशः स्तः । अत्र अत्यधिकशैत्यता वर्षस्य अधिकांशसमये तिष्ठति । शिशिरऋतौ अत्र पार्वत्यप्रदेशेषु हिमपातः भवति । व्याघ्रगिरिः दार्जिलिङ-मण्डलस्य दर्शनीयस्थलेषु अन्यतमः । अत्र पर्यटकानां मुख्यार्षकव्यापारं भवति पर्वतारोहणम् । व्याघ्रगिरेः समीपे एव काञ्चनजङ्घा पर्वतशिखरः अस्ति । १८४९ वर्षपर्यन्तं काञ्चनजङ्घापर्वतशिखरः एव पृथिव्याः सर्वोच्चशिखरःइति प्रचारितः आसीत् ।