सदस्यः:Bhimshankar 2015/प्रयोगपृष्ठम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
          मध्यमव्ययोगः 

ग्रन्थकर्ता भासः- अस्य ग्रन्थस्यकर्ता महाकवि भासः। महाकवि भासः संस्कृतदृश्यकव्यकविषु अति प्राचीनः । संस्कृत नाटकानां विकासइतिहासे भासः तस्य कीर्तिकौमुदीम् सुदूरम् दक्षिणतः उत्तर पर्यन्तं पूर्वतः पश्चिम पर्यन्तं व्यपितवान् । भासस्य नाटकेषु इदम् रूपम् द्रष्टुम् शक्नुमः येन कारणेन भरतः नाटकम् पञ्चमवेदरूपेण गौरवम् दत्तम् तादृशम् । नाटकम् कवित्वस्य चरमस्थितिः भवति “नाटकान्तं कवित्वम्” । भासस्य नाटकेषु मानवीय भावनानां सफलपूर्वक चित्रणम् कृतम् । भासस्य नाटाकानां प्रामाणिकतयां अविश्वासः नास्ति, किमर्थम् इत्युक्ते सर्वानां नाटकानां भाषा एवं शैली सरलः तथा सहजा च । तस्य नाटकेषु भावनानां विचारपुनरुक्तिः तथा पत्राणाम् नामेषु समरूपता दृश्यते एवमेव सर्वेषु नाटकेषु अपि प्रस्तावना इति सब्दस्य स्थाने स्थापना सब्द प्रयोगः एव प्रमाणम् । संस्कृतनाटक जगति भासस्य विशिष्ठ स्थानं वर्तते । भासस्य कालः- अस्माकं देशे आत्मकथायाः लेखन परम्परा नासीत् । भासस्य सम्पूर्ण नाटकेषु यत्र कुत्रापि नामोल्लेखस्य स्पष्टवर्णनं नास्ति परन्तु तेषां ग्रन्थान् आधारीकृत्य वक्तुम् शक्नुमः यत् ते ब्राह्मण वर्णस्य अनुसर्ता एवं वैष्णवमतावलम्बी सशक्त नाटककारः आसन् इति । भासस्य समयनिर्धारणे मतभेदः अस्ति । अस्य मुख्यकारणमस्ति तस्मिन् समये कवय़ः सर्वेपि जीवन एवं परिचयस्य लेखनपरम्परा नास्तीति कारणेन । भासस्य समय विषये यदि एकः वर्गः वदति यत् सः ईशात् पूर्वं चतुर्थ शताब्दौ इति अन्यः कश्चन वर्गः वदति सः ईशायाः दशमी शताब्दौ इति इत्येवं प्रकारेण भासस्य समये १,४००० वर्षाणाम् अन्तरम् अस्ति । दक्षिण विव्दासाः वदन्ति यत् ते कक्षिण देशस्य निवासिनः आसन् इति अस्मिन् संदर्भे तेषां तर्कः अस्ति । (१) भासस्य नाटकानां सर्वविध हस्तोल्लेखाः केरले एव प्राप्ताः । (२) सम्पूर्ण भारतं त्यक्त्वा केवलं केरले एव एतादृश नियमः अस्ति यत्

        संस्कार समये पत्या सह पत्नेः उपस्थितेः अनिवार्यता नास्ति । भासः                  स्वनाटके प्रतिमायां संस्कारसमये रामेण सह सीताय़ाः चित्रणम् न कृतवान् । अतः      एतादृश वर्णनानां आधारेण भासः केरलीयः इति भाति ।

(३) भासः मातुलसब्दस्योल्लेखनं बहु सम्मानेन अकरोत् । यस्य कारणं दक्षिण भारतस्य प्रभावः अस्ति । किन्तु सर्वेपि विव्दांसाः ते दाक्षणीयाः नास्ति उत्तरीयाः इति मन्यन्ते तत्रापि बहुमतान्तरम् अस्ति । उपर्युक्त विषयेषु केचन विषयानां बहु खण्डनं अपि क्रियन्ते । मध्यमव्योग्स्य विषयः व्यायोगः—व्यायोगः इति रूपकप्रभेदः। वि-आङ्-उपसर्गपूर्वकस्य युजधातोः निष्पन्नः शब्दः व्यायोगः मध्यमः इति पाण्डवेषु मध्यमः भीमः। व्यायोगः इति रूपकभेदेषु अन्यतमम् अपि च पुनर्मेलनम् इत्यपि स्वीक्रियते । एषः नाटकप्रभेदः भासेन विरचितः। एषः नाटकप्रभेदः भासेन विरचितः । एतस्य मूलकथा महाभारततः स्वीकृता । ततः एव स्वीकृताणि पात्राणि सन्ति । एतस्मिन् व्यायोगे भीमस्य घटोत्कचस्य च मेलनवृत्तम् सुचारुतया वर्णितम् । प्रदर्शनयोग्यं इदम् नाटकम् । रूपकस्य विषयः अस्ति भीमघटोत्कचयोः मेलनम् । अत्र ब्राह्मणः तस्य पत्नी त्रयःपुत्राः च भवन्ति । ते च राक्षस्या पीडिताः भवन्ति । राक्षसमात्रा आज्ञापितः घटोत्कचः हिडिम्बायाः कृते भोजनार्थं तत्कुटुम्बात् एकं जनं प्रेषयन्ति चेत् कुतुम्बम् यावत् सुरक्षितम् भवतीति उक्त्वा आश्वासनं करोति । तत्कुटुम्बात् मध्यमः बालकः आत्मानं अर्पयितुम् सिद्धः भवति अग्रमागच्चति च । सरः गत्वा शुद्धः भवितुम् च आज्ञां पृच्चति । तत्र गत्वा पुनः न प्रत्यागच्चति । तत्र स्थितं धर्मराजं एतत् वृत्तं विवृणोति । स च मध्यम इति भीमम् आह्वायति यः तत्रैव समीपे व्यायामरतः आसीत् । रूपकस्य भाषा— यतोहि नाटकस्य भाषा संस्कृतमेव तथापि स्त्रीपात्राणां परिचारकपात्राणां च भाषा प्राकृतम् अस्ति । नाम रूपकमिदं सर्वजनरञ्जनमासीत् च इति ज्ञायते । महाभारतस्य कथावस्तु आधारेण एतत् नाटकस्य रचना कृता । भासेन विरचित अस्मिन् मध्यमव्यायोगनाटककथा एकेन अङ्केन रचितम् तदर्थं इदम् नाटकम् एकाङ्किका इत्यपि वक्तुम् शक्यते ।