सदस्यः:Bhuvana Talanki/प्रयोगपृष्ठम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
                                                             ललितालङ्कारः

वर्ण्ये स्याद्वणर्यवृत्तान्तप्रतिबिम्बस्य वरणनम् । ललितं निर्गते नीरे सेतुमेषा चिकीर्षति ॥

प्रस्तुते धर्मिणि वर्णनीयो वृत्तान्तस्तमवर्णयित्वा तत्रैव तत्प्रतिबिम्बरूपस्य कस्यचिदप्रस्तुत वृत्तान्तस्य वर्णनं ललितम् । यथाकथंचिद्वाक्षिण्यसमागततत्कालोपेक्षितप्रतिनिवृत्तनायिकान्तरासक्तनायकानयनाथ सखीं प्रेषयितुकामां नायिकामुद्ऱिष्य सख्या वचनेन तद्व्यापारप्रतिबिम्बभूतगतजलसेतुबन्धवर्णनम् । नेयमप्रस्तुतप्रशंसा; प्रस्तुतधमिकत्वात् । नापि समासोक्तिः, प्रस्तुतवृत्तान्ते वर्ण्यमाने विशेषणसाधारण्येनसाप्येणवाऽप्रस्तुतवृत्तान्तस्फूर्त्यभावात्;अप्रस्तुतवृत्तन्ता देव स्वरूपादिह प्रस्तुतवृत्तान्तस्य गम्यत्वात् । नापि निदर्शना;प्रस्तुताप्रस्तुतवृत्तान्त्योः शब्दोपात्तयोरैक्यसमारोप एव तस्याः समुन्मेषात् । यदि विषपयिणोः शब्दोपात्तयोः प्रवर्तमान एवालङ्कारो विषयिमात्रोपादानेऽपि स्यातद् कमेव भेदेऽप्यभेदरूपाया अतिशयोक्तरेपिविषयमाक्रमेत् । ननु तर्ह्यत्र प्रस्तुतनायकादिनिगरणेन तत्र शब्दोपात्ताप्रस्तुतनीराद्यभेदाध्यवसाय इति भेदे अभेदरूपातिशयोक्तरस्तु । एवं तर्हि सारूप्यनिबन्धा अप्रतुततप्रशंसाविषयेऽपि सैवातिशयोक्तिः स्यात् । अप्रस्तुतधर्मिकत्वान्न भवतीति चेत्,-तत्राप्यप्रस्तुतधर्मिवाचकपदस्यापि प्रसिद्धातिशयोक्त्युदाहरणेध्विव प्रस्तुतधर्मिलक्षकत्वसम्भवात् ॥ नन्वप्रस्तुतप्रशंसायां सरूपादप्रस्तुतवाक्यार्थात् प्रस्तुतवाक्यर्थोऽवगम्यते, नत्वतिशयोक्ताविव विषयिवाचकैस्तत्तत्पदैर्विषया लछ्यन्द इति भेद इति चेतार्हि इहापि प्रस्तुतगतादप्रस्तुतवृत्तान्तरूपाद्वाक्यार्थात्तद्गतप्रस्तुतवृत्तान्तरूपो वाक्यार्थोऽवगम्यत इत्येवातिशयोक्तितो भेदोऽस्तु । वस्तुतस्तु,-

                                              सोऽपूर्वो रसनाविपययविधिस्तत्कर्णयोश्चापलं
                                           दृष्टिः सा मदविस्मृतस्वपरदिक्किं भूयसोक्तेन वा ? ।
                                             पूर्वं निश्चतवानसि भ्रमर ! हे यद्वारणोऽद्याप्यसा-
                                          वन्तः शून्यकरो निषेव्यत इति भ्रातः ! क एष ग्रहः ? ॥

इत्याद्यप्रस्तुतप्रशंसोदाहरगे प्रथमप्रतीतादप्रस्तुतवाक्यार्थात् प्रस्तुतवाक्यार्थोऽवगम्यत इत्येतन्न घटते; अप्रस्तुते वारणस्य भ्रमरासेव्यत्वे कर्णचपलमात्रस्य भ्रमरनिरासकरण्स्य हेतुत्वस्म्भवेऽपि रसनाविपर्ययान्तःशून्यकरत्वयोर्हेतुत्वासम्भवेन मदस्य प्रत्युत तत्सेव्यत्व एव हेतुत्वेन च रसनाविपर्ययादीनां तत्र हेतुत्वान्वयार्थं वारणपदस्य दुष्प्रभुरूपविषयक्रोडीकारेणैव प्रवृत्तेर्वक्तव्यत्वात् । एवं सत्यपि यद्यप्रस्तुतसम्बोधनादिविच्छित्तिविशिषात्तत्राप्रस्तुतप्रशंसाया अतिशयोक्तितो भेदो घटते , तदात्रपि प्रस्तुतं धमिणं स्वपदेननिदिश्य तत्राप्रस्तुतवर्णनारूपस्यविच्छित्तिविशेषस्यसद्भवात्ततो भेदः सुतरां घटते । 'पश्य नीलोत्पलद्वन्द्वान्निःसरन्ति', 'वापि कापि स्फुरति गगने तत्परं सूद्मपद्या' इत्यादिषु तु प्रस्तुतस्य कस्यचिद्धर्मिणः स्ववाचकेनानिर्दिष्टत्वादतिशयोक्तिरेव । एतेनगतजलसेतुबन्धनवर्णनादिष्वसंबन्धे संबन्धरूपातिशयोक्तिरस्त्विति शङ्कापि निरस्ता । तथासति 'कस्त्वं भोः ! कथयामि' इत्यादावपि तत्प्रसङ्गत् सारूप्यनिबन्धनप्रस्तुतवाक्यार्थावगतिरूपविच्छित्तिविशेषेणालङ्कारन्तरत्वकल्पनं त्विहापि तुल्यम् । तस्मात्सर्वालङ्कारविलक्षणमिदं ललितम् ।

                                            क्क सूर्यप्रभवो वंशः क्क चाल्पविषया मतिः ।
                                             तितीर्षुर्दुस्तरं मोहादुडुपेनास्मि सागरम् ॥

अत्रापि निदर्शनाभ्रान्तिर्न कार्या । 'अल्पविषयया मत्या सूर्यवंशं वर्णायितुमिच्छुरहम्' इति प्रस्तुतवृत्तान्तानुपन्यासात्तत्प्रतिबिम्बभूतस्य 'उडुपेन सागरं तितीर्षुरस्मि' इत्यप्रस्तुतवृत्तान्तस्य वर्णनेनादौ विषमालङ्कारविन्यस्नेन च केवलं तत्र तात्पर्यस्य गम्यमानत्वात् । यथा वा -

                                            अनायि देशः कतमस्त्वयाद्यवसन्तमुक्तस्य दशां वनस्य ।
                                            त्वदाप्तसंकेततया कृतार्थ श्राव्यापि नानेन जनेन संञ ॥

अत्र 'कतमो देशस्त्वया परित्यक्तः ?' इति प्रस्तुतार्थम्नुपन्यस्य 'वसन्तमुक्तस्य वनस्य दशामनायि' इति प्रतिबिम्बभूतार्थमात्रोपन्यासाल्ललितालङ्कारः ॥