सदस्यः:Bhuvana Talanki Vinuth/प्रयोगपृष्ठम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Jump to navigation Jump to search
                                                             मानसं सरः
मानसं सरः
हिमालयः


भारतभूमिः पुण्यक्षेत्राणां तीर्थक्षेत्राणां च सङ्गमभूमिः । भारतस्य शिरस्थानभूते हिमालयपर्वते अनेकानि पुण्यक्षेत्राणि सुशोभन्ते । अस्याद्रेः शिखराणि अतीव तङ्गानि,सततं हिमाच्छादितानि च सन्ति । अत एवायं लोके हिमालयः इति प्रख्यातः । अत्र केदारबदर्यादीनि पुण्यक्षेत्राणि सन्ति । गङ्गायमुना ब्रह्मपुत्राद्याः नद्यः अस्मात् उद्गम्य भारते प्रवहन्ति । अनेके यतयः हिमालयस्याश्रमेषु तपस्यन्ति । अत्र विद्यमानेषु पुण्यक्षेत्रेषु मानसं सरः अन्यतमम् ।

हिमालयपर्वतपङ्क्तिषु शक्तिपीठमिति सुविख्यातं मानसं सरः । सर इदं हिमाद्रेः , पश्चिमभागे टिबेट्प्रदेशे सुशोभते । एतत्सरः समुद्रस्तरात् सामान्यतः पञ्चदशसहस्त्रपादोन्नतस्ते (१५००० फीट्) विराजते । अस्य सरसः दैर्घ्यं तु द्वादशकिलोमीटर् , विशालता चतुर्दशकिलोमीटर् विद्यते । अस्य परिधिः सामान्यतः द्विशतकिलोमीटर् इति वदन्ति । रुद्ररमणीयस्य कैलासपर्वतस्य गुर्लामान्धातगिरेश्च मध्यभागे विराजमानमिदं मानसं सरः नयनमनोहरमस्ति । जगत्येव अत्युन्नतस्तरे विद्यमानम् इदं सरः मधुरजलयुक्तं शुद्धस्फटिकसदृशं नीलवर्णयुक्तञ्चास्ति ।

मानसस्रोवरस्य उद्भवविषये काचन पुराणकथा अपि अस्ति । ब्रह्मणः मानसपुत्रेष्वन्यतमः मरीचिः शिवपार्वत्योः दर्शनार्थं कैलासं जगाम । तत्र तावदृष्ट्वा तयोः दर्शनार्थं दीर्घं तपश्चक्रे । गच्छति काले शिशिरऋतुः आगतः । तदा कैलासः तुषारमयः सञ्जातः । तत्र स्नानानुष्ठानार्थं किञ्चिदपि जलं न लब्धम् । तदा मरीचिः स्वपितरं ब्रह्माणं अस्तौत् । तस्य तपसा सन्तुष्टः विरिञ्चिः प्रत्यक्सो बभूव । तत्रत्यां समस्यां निवेदयामास स्वपित्रे मरिचिः । तस्य प्रार्थनानुसारं लोककल्याणार्थं च प्रजापतिः स्वमनसा सरः निर्मितवान् । अत एव 'मानसं सरः' इति नाम प्राप्तम् । सुवर्णह्ंसानाम् आवासस्थानं, हिरण्यकमलानाम् उद्गमस्थानमिति ख्यातमिदं मानसं सरः । सरोवरे अस्मिन् अनेके हंसपक्षिणः सदा विहरन्ति, अधिकानि सरोजानि रोहन्ति च । अत्र सरसि बहद्गात्राः मीनाः इतस्ततः सञ्चरन्ति ।

अस्मात्सरसः सिन्धुसतलेज्ब्रह्मपुत्रादयः नद्यः प्रवहन्ति । इदं सरः वनस्पतीनां सम्पर्केण औषधगुणयुक्तमस्ति । अतः अत्र स्नानं जलपानञ्च सर्वरोगनिवारकं सकलपापपरिहारकम् इति भक्ताः भावयन्ति । मानससरसि कृतं स्नानं पुण्यजनकमिति स्कन्दपुराणेऽप्युक्तम्-

                                        नानाविधानि पापानि मेरुतुल्यानि वै पुनः ।
                                        तत्र स्नानत् क्षयं यान्ति नात्र कार्या विचारणा ॥

अस्य सरसः तटेषु अष्ट मन्दिराणि सन्ति । केषुचिन्मन्दिरेषु हिन्दूदेवतामूर्तयः दृश्यन्ते । मानससरसः महत्तवर्णनं विविधकाव्येष्वपि उपलभ्यते-

                                        कैलासपर्वते राम! मनसा निर्मितं पुरा ।
                                        ब्र्ह्मणा नरशार्दूल तेनेदं मानसं सरः ॥ 

इति रामायणे श्रूयते । तस्मात्सरवरादेव सरयूनदी प्रवहति इत्यपि कथा वर्तते । एवमेव महाभारते सर इदं "हेमपुष्परसच्छन्नं राजहंसनिषेवितम्"- इति वर्णितम् ।

मानससरोवरस्य पश्चिमदिशि 'राक्षसताल्' नामकम् अन्यत्सरः विद्यते । लङ्काधिपतिः रावणः अत्रैव स्थित्वा शिवानुग्रहार्थं तपश्चक्रे इति पुराणकथा प्रथिता । अस्य स्रसः शीतलत्वपावनत्वादिभिराकृष्टः शिवः स्वपत्न्या गिरिजया सहात्रैव विहरति निवसति च । जगतः पुण्याचलेष्वन्यतमः मेरुगिरिरपि अस्मिन्नेव पर्वतप्रान्ते विराजते इति कथयन्ति ।

टिबेट् प्रदेशस्य दार्चुलाहुम्लामण्डलयोः सीमप्रदेशे विद्यमान्यस्यास्य मानससरसः प्राकृतिकसौन्दर्यं वर्णनातीतमस्ति । अस्य नातिदूरस्थेषु गिरिकन्दरेषु सानुप्रदेशेषु च निबिडान्यरण्यानि विद्यन्ते । गगनचुम्बिनः तरवः अत्र रोहन्ति । देवदारुचन्दनादिवृक्षैः सुसमृद्धोऽयं प्रदेशः नन्दनवनमिव शोभते । अत्र सिम्हाः कस्तूरीमृगाः हिमभल्लकाः वराहदयः प्राणिनः च निवसन्ति । नेपाल्पाकिस्तानटिबेट्प्रदेशतोऽपि अत्रागन्तुं मार्गास्सन्ति । सामान्यतः ग्रीष्मकालं विना आसंवत्सरमयं प्रदेशाः हिमाच्छादिति एव भवति । अत एवात्र शैत्यं सदा भादते । इति एव पुण्यतमस्य कैलासगिरेः दर्शनं साध्यम् । मानसं सरः हिन्दुजैनबौद्धटिबेटीयानां च पवित्रस्थानम् । अस्य दर्शनं मोक्षप्रदायकमिति ते आमनन्ति । प्रतिवर्षं नानादेशेभ्यः भक्थाः सहस्त्रशः अत्रगत्य पूता भवन्ति ।