सदस्यः:Biduchhaya Majhi
आस्तिकदर्शनानां परिचयः
सांख्यदर्शनस्य परिचयः
कपिल
वृत्तिकार - नागेशभात
अस्मिन् जगति विद्यमानेषु षड् आस्तिकदर्शनषु साङ्ख्यदर्शनम् अन्यतमं भवति । सम्यक्तया आख्यायते गण्यते पञ्चविंशति तत्त्वानि येन तत् सांख्यम् इति । भगवान् कपिलः साङ्ख्यसूत्राणि विरचितवान्, अतः कपिलः साङ्ख्यदर्शनस्य कर्त्ता इत्युच्यते । साङ्ख्यदर्शने षड् अध्यायाः, ५३७ सूत्राणि सन्ति । अयं कपिलः तत्त्वसमासम् इति ग्रन्थं विरचितवान् । कपिलस्य प्रथमशिष्यः आसुरिः आसीत् । अस्य दर्शनस्य भाष्यकारः विज्ञानभिक्षुः सांख्यप्रवचनभाष्यम् इति ग्रन्थं विरचितवान् । नाङ्ङ्ख्यदर्शनस्यं वृत्तिकारः श्रीमान् नागेशभट्टः । अस्य दर्शनस्य बहव्यः वृत्तयः सन्ति । यथा माठराचार्यस्य माठरवृत्तिः, एवमेव युक्तिदीपिका, जयमङ्गला, चन्द्रिका इत्यादयः सन्ति। सर्वेषामपि दर्शनकाराणां मूलं भवति मोक्षः, परन्तु तत्प्राप्तुं दर्शनकाराणां भित्रभित्रमार्गः वर्तते । तथैव साङ्ख्यदर्शन दुःखत्रयस्य विनाशेन मोक्षः भवति इति सिद्धान्तः वर्तते । दुःखत्रयमित्युक्ते आध्यात्मिक (आत्मनि शरीरे भवः आध्यात्मिकः, आध्यात्मिकं द्विविधम्-शारीरिकं मानसं चेति, वातपीतश्लेषादीनि, प्रियवियोगादीनि च)-आदिदैविक (दिवि स्वर्गे भवः विद्युतादि) आदिभौतिकम् (प्राणिषु भवं मनुष्यपशुमृगपक्षिसरीसृपादीनि) इति । एतेभ्यः निवृत्तिः मोक्षः । एतस्य दुःखत्रयस्य निवृत्तिः व्यक्ताव्यक्तज्ञविज्ञानात् भवति । अर्थात् पंचविंशतितत्त्वज्ञः दुःखत्रयात् निवृत्तिः स्यात् । उच्यते यथा सांख्यदर्शन-
पंचविंशतितत्त्वज्ञो यत्र तत्राश्रमे वसेत् । जटी मुण्डी शिखी वाऽपि मुच्यते नात्र संशयः ।।
सृष्टिक्रम :- ८.
प्रकृतिपुरुषयोः संयोगहेतुः सर्गः-
पुरुषस्य दर्शनार्थं कैवल्यार्थं तथा प्रधानस्य ।
पङ्गवन्धवदुभयोरपि संयोगस्तत्कृतः सर्गः ।।
पुरुषस्य प्रधानेन सह संयोगः दर्शनार्थ तथा प्रधानस्य पुरुषेण सह संयोगः कैवल्यप्राप्त्यर्थं उभयोः पङ्गवन्धवद् संयोगः भवति तेन च सर्गः जायते ।
साङ्ख्यदर्शन पञ्चविंशतितत्त्वानि सन्ति ।
मूलप्रकृतिरविकृतिर्महदाद्याः प्रकृतिविकृतयः सप्त ।
षोडशकस्तु विकारो न प्रकृति र्न विकृतिः पुरुषः ।।
एतानि पञ्चविंशतितत्त्वानि चतुर्धा विभक्तम् यथा-
१६३ इति