सदस्यः:Buravalla Abhinav/प्रयोगपृष्ठम्
संस्कुतसाहित्यम् [१]
जगतीतले विद्यमानासु भाषासु निखिलासु संस्कुतभाषैव प्राचीनतमा। अस्यां भाषायाम् आबहो: कालात् वेदा: द्रष्टा: शास्त्राणि काव्यानि च विरचितानि विरजन्ते। विगतेभ्य: नैकसहस्रवर्षेभ्य: साम्स्क्रुतिके ब्रुहद्भारते कियन्त: लेखका: अभूवन् कियन्तश्च ग्रन्था: विलिखिता: इति परिगणना अशक्यप्राया। मुद्रणादीनाम् अनाविष्कारात्, प्राक्रुतिकविकोपै: अन्यान्यसामाजिक-राजकीय-सांस्कृतिक-वयक्तिककारनैश्च संस्कुतग्रन्था: इतरे प्राचीनग्रन्थाश्च कालकविलिता: जाता:। अवशिष्टं साहित्यजातं प्राय: शतेषु एकमिव अत्यन्तं न्यूनमेव। लभ्यमानेष्वपि ग्रन्थेषु मुद्रणभाग्यं न समेषामभवत् अद्यावधि। तथापि अधुना यावन्त: सम्स्क्रुतग्रन्था: मुद्रिता: सन्ति न कस्यामपि अन्यस्यां प्राचीनभाषायां तावन्तो ग्रन्था: द्रुष्यन्ते। एतेन सम्स्क्रुतसाहित्यस्य अगाधताम् अपरिमेयतां च ऊहितुं शक्यम्।
काव्यप्रकारा:
वैदिकसाहित्यं शास्त्रसाहित्यं च विहाय अविष्टं तु काव्यसाहित्यम्। काव्यमिति शब्द: सम्स्क्रुतभाषायां व्यापकमर्थमावहति। प्रधानतया काव्यं श्रव्यं द्रुष्यमिति द्विधा विभक्तम्। श्रव्ये गद्यं पद्यं चम्पूरिति पुन: त्रैविद्यम्। यत् काव्यं पठितुं द्रष्टुमपि शक्यते अथवा यस्य आनन्दं श्रोत्राभ्यां चक्षुर्म्यामपि अनुभवितुं शक्यते ताद्रुशं काव्यं द्र्य्ष्यकाव्यं यस्य साधारणतया नाटकम् इति प्रसिधं नाम। नाट्यशास्त्रकारस्तु रूपकम् उपकारम् इति द्र्य्ष्यकाव्येपि विभागद्वयमङगीकुर्वन्ति। उपरूपकेषु अष्टादशभेदा: परिकल्पिता:। रूपकाणि दशप्रकारकाणि गण्यते। तानि नाटकम्, प्रकरणम्, भाण:, प्रहसनम्, डीम:, व्यायोग:, समवकार:, वीथी, अङ्क:, ईहामृगश्च। सर्वेष्वपि नाटकशब्देनैव व्यवह्रियन्ते अद्यत्वे। संस्कुतसाहित्ये श्रव्यकाव्यमिव द्रुश्यकाव्यमपि प्राचीनमेव। विगतद्विसहस्रवर्षेभ्य: तत्पूर्वकालादपि संस्कुतरूपकाणि रङ्गप्रयोगे सन्ति। भारतस्य नाट्यशास्त्रं संस्कुतनाटकानां प्राचीनतां सूचयितुं प्रमुखम् एकं प्रमाणमास्ते।