सदस्यः:Bvvinay/प्रयोगपृष्ठम्
दिखावट
अर्थसमुद्देशः अर्थ आर्जयेत् । सस्यार्थराशिरस्ति तस्य मित्राणि धर्मः विद्या गुणः विक्रमः बुद्धिक्च् । अधनेनार्थमार्जयितुं न शक्यतें, गजोsगजेनेव । घनमूलं जगत्, सर्वाणि तत्र सन्ति । निर्घनो मृतः (इव) । - बाईस्पत्यानि नीतिसूत्राणि
अर्थसंपत् प्रकृतिसंपदं करोति । वृत्तिमूलमर्थलाभः। अर्थमूलॉ धर्मकामॉ । सुखस्य मूलं धर्मः, धर्मस्य मूलं अर्थः, अर्थस्य मूलं राज्यम्। अर्थमूलं सर्वं कर्यं, यदल्पप्रयत्नात् कार्यसिद्धिर्भवति । अर्थॅषणा न व्यसनेषु गण्यते । अर्थतोषिणं हि राजानं श्रीः परित्यजति । भाम्यवन्तमप्यपरीक्ष्यकारिणं श्रीः परित्यजति। - चाणक्य-नीतिसूत्राणि
अर्थसमादाने वैरिणां सङ्ग् एव न कर्तव्यः । अर्थसिद्धॉ वॅरिणं न विष्वसेत् । अर्थाधीन एव नियतसंबन्धः । अमरवदर्थजातमार्जयेत्। अर्थवान् सर्वलोकस्य बहुमतः । महेन्द्रमपि अर्थहीनं न बहुमन्यते लोकः । दारिघं खलुं पुरुषस्य सजीवितं मरणम् । -चाणक्य-नीतिसूत्राणि
यः कृशार्थः कृशागवः कृशभृत्यः कृशातिथिः। स वै राजन् कृशो नाम न शरीरकृश: कृशः ॥ -महाभारत-शान्तिपर्व विरुपोsप्यर्थवान् सुरूपः । अदातारं अपि अर्थवन्तर्मार्थनो न त्यजन्ति । अकुलीनोsपि घनवान् कुलीनाद्विशिष्टः । यतः सर्वप्रयोजनसिद्दिः सोsर्थः । -चाणक्य-नीतिसूत्राणि
सोsर्थस्य भाजनं योsर्थानुबन्धेनार्थमनुभवति । अलब्धलाभः लब्धपरिरक्षणं रक्षितविवर्घनं वृद्धस्य तीर्येषु प्रतिपादनं चार्यानुबन्धः। धर्मसमवायिनः कार्यसमवायिनस्च पुरुषाः तीर्तम् । तीर्तं अर्थैनाsसंभावयन् मधुच्चत्रमिव सर्वात्मना विनश्यति । तादात्विकमूलहरकदर्येषु नासुलभः प्रत्यवायः । यः किमपि असस्चिनोति स कदर्यः । तादात्विकमूलहरयोः आयत्यां नास्ति कल्याणम् । कदर्यस्यार्थसंग्रहः राजदायादतस्करानणां अन्यतमस्य निधिः ।
अतिव्ययः अपात्रव्ययस्च अर्थस्य दूषणम् । अर्थदूषणः कुबेरोsपि भवति भिक्षाभाजनम् । कर्यार्थिनः पुरुषान् लञ्चलुञ्चनिशाचराणां भूतबलिं कुर्यात् । लञ्चो हि सर्वपातकानां आगमनद्वारम् । लञ्चेन कायकारिभिः उरभ्रवत् स्वामी विक्रयते । लञ्चेन राग्न्येsर्थलाभः प्रासादविध्वंसनेन लोहकीलकमलाभ इव । राग्न्यो लञ्चेन कार्यकारणं कस्य नाम कल्याणम्? देवताsपि यदि चोरेषु मिलति, कुतः प्रजानां कुशलम्? लञ्चेनार्थोपायं दर्शयन् देशं कोशं मित्रं तन्त्र भक्षयति। -सोमदेव-नीतिसूत्राणि