सामग्री पर जाएँ

सदस्यः:Debasmitasi99

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

लिङ्गराजमन्दीरम्

उत्कलप्रदेशस्य मन्दिरमालिनी नगरम् इति कथनेन खोर्द्धामणडलस्य भुवनेश्वरम् एव बुध्यते। लिङ्गराजमन्दिरम् अत्यन्तं पुरातनं शिवमन्दिरं वर्त्तते । एकादश शताब्द्यां राजा ययातिकेशरी एतत् मन्दिरं निर्मितवान् । लिङ्गराजमन्दिरं कलिङ्गस्य पञ्चरथशैल्यां निर्मितं भुवनेश्वरस्य सर्व बृहत् मन्दिरम् अस्ति । अस्य मन्दिरस्य आयतनं 520 परिमिते 465 परिमितम् एवं च भित्तिः 7 परिमितं 6 परिमितं च । लिङ्गराज शब्दस्य अर्थः भवति लिङ्गानां राजा अथवा लिङ्गपूजा । लिङ्गम् अर्थात् शिवपूजायाः प्रतीकः इति तस्मात् कारणतः लिङ्गराजमन्दिरम् एकं शैवक्षेत्रभावेन प्रसिद्धम् अस्ति । उत्कलप्रदेशस्य बृहत्तमं मन्दिरं भवति लिङ्गराजमन्दिरम् ।

"https://sa.wikipedia.org/w/index.php?title=सदस्यः:Debasmitasi99&oldid=490530" इत्यस्माद् प्रतिप्राप्तम्