सूक्ष्मशिक्षणम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(सदस्यः:Deendayal shukla इत्यस्मात् पुनर्निर्दिष्टम्)

""सूक्ष्मशिक्षणम्(Micro teaching)""

सूक्ष्मशिक्षणस्य विकासः-

Ø    1963 तमे वर्षे अमेरिकादेशे स्टेनफोर्डविश्वविद्यालये   सूक्ष्मशिक्षणप्रक्रियायाः आरम्भः अभवत्।

Ø    सर्वप्रथमं कीथस्कैन तथा बुशमहोदयौ अस्मिन् कार्यं कृतवन्तौ।

Ø    पुनः1967 तमे वर्षे भारते डी.डी. तिवारी महोदयेन एषा प्रक्रिया आरब्धा ।

सूक्ष्मशिक्षणस्यार्थः

§ सूक्ष्मशिक्षणं प्रशिक्षणस्य एका प्रक्रिया वर्तते।

§ एतस्योद्देश्यं वर्तते नियमिताध्यापनप्रक्रियासु काठिन्यस्य सरलीकरणम्।

§ अस्यां प्रक्रियायां छात्राध्यापकः 5 तः 10 छात्राणाम् एकं लघुसमुहं पाठयति।

§ एतस्य मापदण्डः कक्षायाः आकारे आश्रितो भवति।

सूक्ष्मशिक्षणस्य परिभाषाः-

प्रो. बी. के पासीमहोदयानुसारम्-

“सूक्ष्मशिक्षणं कश्चन प्रशिक्षणविधिः, यत्र छात्राध्यापकः किञ्चन एकं शिक्षणकौशलं प्रयुज्यमानः अल्पावधये लघुछात्रसमूहं किञ्चित् एकं संप्रत्ययं पाठयति।“

एलेन्-ईवमहोदयौ अनुसारम्-

“सूक्ष्मशिक्षणं काचित् नियन्त्रिता अभ्यासपद्धतिः, या विशिष्टशिक्षणकौशलेषु अवधातुं नियन्त्रितपरिस्थितिषु शिक्षणाभ्यासं कर्त्तुं च आनुकूल्यं कल्पयति।“

सूक्ष्मशिक्षणस्य स्वरूपम्-

छात्रसंख्या 5 तः 10 पर्यन्तम्
छात्राणां प्रकारः विद्यालयीयच्छात्राः सहाध्यायिनः शिक्षाशास्त्रिच्छात्राः वा
निरीक्षणं प्रतिपुष्टिःवा प्राध्यापकः सहाध्यायिनः शिक्षाशास्त्रिच्छात्राः वा
पाठस्य अवधिः 6 निमेषाः
कौशलानांसंख्या एकस्मिन् समये एकमेव कौशलम्
पाठ्यांशः एकः शिक्षणबिन्दुः
आहत्य समयः 36 निमेषाः


सूक्ष्मशिक्षणचक्रावधिः-

शिक्षणम्    (Teaching) 6  निमेषाः
प्रतिपुष्टिः   (Feedback) 6   निमेषाः
पुनर्योजना   (Re plan) 12 निमेषाः
पुनर्शिक्षणम्(Re teach) 6  निमेषाः
पुनःप्रतिपुष्टिः (Re feedback) 6 निमेषाः
आहत्य समयः (Total time) 36 निमेषाः


सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=सूक्ष्मशिक्षणम्&oldid=466457" इत्यस्माद् प्रतिप्राप्तम्