सूक्ष्मशिक्षणम्
""सूक्ष्मशिक्षणम्(Micro teaching)""
सूक्ष्मशिक्षणस्य विकासः-
Ø 1963 तमे वर्षे अमेरिकादेशे स्टेनफोर्डविश्वविद्यालये सूक्ष्मशिक्षणप्रक्रियायाः आरम्भः अभवत्।
Ø सर्वप्रथमं कीथस्कैन तथा बुशमहोदयौ अस्मिन् कार्यं कृतवन्तौ।
Ø पुनः1967 तमे वर्षे भारते डी.डी. तिवारी महोदयेन एषा प्रक्रिया आरब्धा ।
सूक्ष्मशिक्षणस्यार्थः
§ सूक्ष्मशिक्षणं प्रशिक्षणस्य एका प्रक्रिया वर्तते।
§ एतस्योद्देश्यं वर्तते नियमिताध्यापनप्रक्रियासु काठिन्यस्य सरलीकरणम्।
§ अस्यां प्रक्रियायां छात्राध्यापकः 5 तः 10 छात्राणाम् एकं लघुसमुहं पाठयति।
§ एतस्य मापदण्डः कक्षायाः आकारे आश्रितो भवति।
सूक्ष्मशिक्षणस्य परिभाषाः-
प्रो. बी. के पासीमहोदयानुसारम्-
“सूक्ष्मशिक्षणं कश्चन प्रशिक्षणविधिः, यत्र छात्राध्यापकः किञ्चन एकं शिक्षणकौशलं प्रयुज्यमानः अल्पावधये लघुछात्रसमूहं किञ्चित् एकं संप्रत्ययं पाठयति।“
एलेन्-ईवमहोदयौ अनुसारम्-
“सूक्ष्मशिक्षणं काचित् नियन्त्रिता अभ्यासपद्धतिः, या विशिष्टशिक्षणकौशलेषु अवधातुं नियन्त्रितपरिस्थितिषु शिक्षणाभ्यासं कर्त्तुं च आनुकूल्यं कल्पयति।“
सूक्ष्मशिक्षणस्य स्वरूपम्-
छात्रसंख्या | 5 तः 10 पर्यन्तम् |
छात्राणां प्रकारः | विद्यालयीयच्छात्राः सहाध्यायिनः शिक्षाशास्त्रिच्छात्राः वा |
निरीक्षणं प्रतिपुष्टिःवा | प्राध्यापकः सहाध्यायिनः शिक्षाशास्त्रिच्छात्राः वा |
पाठस्य अवधिः | 6 निमेषाः |
कौशलानांसंख्या | एकस्मिन् समये एकमेव कौशलम् |
पाठ्यांशः | एकः शिक्षणबिन्दुः |
आहत्य समयः | 36 निमेषाः |
सूक्ष्मशिक्षणचक्रावधिः-
शिक्षणम् (Teaching) | 6 निमेषाः |
प्रतिपुष्टिः (Feedback) | 6 निमेषाः |
पुनर्योजना (Re plan) | 12 निमेषाः |
पुनर्शिक्षणम्(Re teach) | 6 निमेषाः |
पुनःप्रतिपुष्टिः (Re feedback) | 6 निमेषाः |
आहत्य समयः (Total time) | 36 निमेषाः |