सदस्यः:Dhanusha.s/प्रयोगपृष्ठम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
                                                                                             अर्थसमुहॆश:            
अर्थम् आर्जयेत् | यस्यार्थराशिरस्ति तस्य मित्रानणि धर्माः विद्या गुणः विक्रमाः बुद्धैक्ष्व | अधनेनार्थमार्जयितुं न शक्यते, गजोगजेनेव | धनमूलं जगत् , सर्वाणि तत्र सन्ति | निर्ध्नो  मृताः[इव]
                                                                                                                              -बार्हस्पत्यानि नीतिसूत्राणि।

अर्थसंपत् प्रकृतिसंपदं करोति| वृत्तिमूलँमर्थलामः| अर्थमूलौ धर्मकामौ | सुखस्य मूलं धर्मं: ,धर्मस्य मूलं अर्थं:,अर्थस्य मूलं राज्यम्| अर्थमूलं सर्वं कार्यं , यदल्पप्रयन्तात् कार्यसिद्धिभवति| अर्थेषणा न व्यसने गण्यते|अर्थतोषिणं हि राजानं परित्यजति | भाग्यवन्तमप्यपरीक्ष्यकारिणं परित्यजति|

                                                                                                                          -चाणक्य नीतिसूत्राणि।
                   अर्थेभ्यो हि विवृद्धेभ्याः संभृतेभ्यस्ततस्ततः।
                   क्रिया: सर्वा: प्रवर्तन्ते पर्वतेभ्य इवापगा:॥
                   अर्थाद्धर्मक्ष्व कामक्ष्व स्वर्गक्ष्वाइव नराधिप।
                   प्राणयात्रापि लोकस्य विना ह्यर्थं न सिध्यति॥
                                                      - महाभारत शान्तिपर्व।

अर्थसमादाने वैरिणां सङ्ग एव न कर्तव्यः। अर्थसिद्धौ वैरिणं न विक्ष्वसेत्। अर्थाधीन एव नियतसंबन्धः।अमरवदर्थजातमार्जयेत्। अर्थवान् सर्वलोकस्य बहुमतः। महेन्द्रमपि अर्थहीनं न बहुमन्यते लोकः। दारिर्द्यं खलु पुरूषस्य सजीवितं मरणम्।

                                                                                         -चाणक्य नीतिसूत्राणि।
                    यः कृशार्थं: कृशगवः कृशभृत्यः कृशातिथि:।
                   स वै राजन् कृशो नाम न शरीरकृशः कृशः॥
                                                -महाभारत शान्तिपर्व।

विरूपोप्यर्थवान् सुरूपः। अदातारं अपि अर्थवन्त्मर्थिनो न त्यजन्ति।अकुलीनोपि धनवान् कुलीनादूइशिष्टः। यतः सर्वप्रयोजनसिद्धिःसोर्थः॥

                                                                                                  - चाणक्य नीतिसूत्राणि।

सोर्थस्य भाजनं योर्थनुबन्धेनार्थमनुभवति।अलब्धलाभाः लब्धपरिरसक्षणं रक्षितविवर्धनं वृद्धस्य तीर्थेषु प्रतिपादनं चार्थानुबन्धः। धर्मसमवायिनः कार्यसमवायिनक्ष्व पुरूषाः तीर्थम्।तीर्थं अर्थेनासंभावयन् मधुच्छत्रमिव सर्वात्मना विनश्यति।

                                                                                 -सोमदेव नीतिसूत्राणि