सदस्यः:Dhruvi1831392

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


— Wikipedian —
Theophrastus (cropped)
थियोफ्रास्टस्
जन्म ग्रीस्-देशस्य
देशः ग्रीस्-देशस्य
देशजातिः यूनानी
विद्या उद्योगः च
विद्या प्लेटो-अकादमीं
रुचयः, इष्टत्मानि, विश्वासः
पुस्तकानि हिस्टोरिया प्लांटरम, करैक्टर

थियोफ्रास्टस्[सम्पादयतु]

अयं थियोफ्रास्टस् सस्यविज्ञानस्य जनकः । अयं ग्रीस्-देशस्य लेस्बास्-प्रदेशे क्रि.पू.३७२ तमे वर्षे जन्म प्राप्नोत् । ततः बाल्ये एव अथेन्स्-नगरं गत्वा प्लेटो-अकादमीं (लैसियम्) प्राविशत् । थियोफ्रास्टस् प्रथमवारम् अरिस्टाटलेन लेस्बास्-नगरे एव अमिलत् । तदनन्तरम् आजीवनं तयोः महान् स्नेहः आसीत् । थियोफ्रास्टस्य वास्तविकं नाम “टैर्टमस्” इति । अरिस्टाटल् एव तस्य नाम “थियोफ्रास्टस्” इति परिवर्तनम् अकरोत् । “थियोफ्रास्टस्” इत्यस्य शब्दस्य अर्थः “अद्भुतः वक्ता” इति । केषाञ्चन प्राणिनां कशेरुकं भवति ते कशेरुकाः । केषाञ्चन प्राणिनां कशेरुकं न भवति ते अकशेरुकाः । केचन प्राणिनः अण्डरूपेण जन्म प्राप्नुवन्ति । अन्ये केचन प्राणिनः मातृवत् रूपं प्राप्य जन्म प्राप्नुवन्ति । केषाञ्चन प्राणिनां शरीरस्य उष्णता तेषां वसतिस्थानस्य परिसरस्य अनुगुणं परिवर्तते । कदाचित् शीतलं कदाचित् उष्णं वा भवति शरीरम् । ते शीतरक्तप्राणिनः । केषाञ्चन प्राणिनां शरीरस्य उष्णता सर्वदा समाना भवति । ते च उष्णरक्तप्राणिनः ।

योगदान[सम्पादयतु]

इत्येतान् अंशान् संशोध्य उल्लिखितवान् । अरिस्टाटल्स्य अपेक्षानुगुणं सस्यानं प्राणिनां च प्रभेदानां सङ्ग्रहणाय तस्य शिष्यः अलेक्साण्डरः व्याधान्, वाटिकारक्षकान्, धीवरान् च असूचयत् । जगति विद्यमानस्य सर्वस्य अपि देशस्य प्राणिवैविध्यं, सस्यवैविध्यं च सङ्ग्रहीतुं ग्रीस्-देशे, एषियाखण्डे च सहस्राधिकाः नियुक्ताः आसन् अलेक्साण्डरेण । तैः सङ्गृहीतं सर्वं प्राप्य अध्ययनं संशोधनं च कृत्वा अरिस्टाटल् "जीवशास्त्रस्य पितामहः” इति प्रसिद्धः सञ्जातः । अरिस्टाटलस्य निवृत्तेः अनन्तरं थियोफ्रास्टस् एव (मरणपर्यन्तम् अपि) ३५ वर्षाणि यावत् अरिस्टाटलस्य ग्रन्थालयस्य साहाय्येन सर्वाः शालाः (लैसियम्) सञ्चालितवान् । अयं थियोफ्रास्टस् सस्यशास्त्रं गभीरतया अधीतवान् । ५०० सस्यप्रभेदान् सविवरणम् उल्लिखितवान् अस्ति । अरिस्टाटल् यथा “प्राणिविज्ञानस्य अध्वर्युः” इति प्रसिद्धः तथैव थियोफ्रास्टस् “सस्यविज्ञानस्य अध्वर्युः” इति प्रसिद्धः अस्ति । तेन थियोफ्रास्टसेन लिखितः “सस्यानां परीक्षा” इत्याख्यः ग्रन्थः अद्यापि कश्चन अविस्मरणीयः विक्रमः एव । अयं थियोफ्रास्टस् क्रि.पू.२८७ तमे वर्षे मरणम् अवाप्नोत् ।

॥धन्यवादः॥

"https://sa.wikipedia.org/w/index.php?title=सदस्यः:Dhruvi1831392&oldid=471271" इत्यस्माद् प्रतिप्राप्तम्