सदस्यः:Dkg1995aja/प्रयोगपृष्ठम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
अयं योजकः क्रैस्तविश्वविद्यालयस्य विकिप्रकल्पस्य सदस्यः ।

भारतस्य् प्रामुक व्यक्थीन॥।

गुरुनानक 
पिता उपनयनं कर्तुम् उद्युक्तवान् । बालः नानकः यज्ञोपवीतधारणं नाङ्गीकृतवान् । " तत् तृटयति, अपवित्रं भवति, गमनसमये नैव सहागमिष्यति" इति वदति स्म। न केवलं तत्, " दयां कार्पासं कृत्वा, सन्तृप्तिं सूत्रं कृत्वा, निग्रहं बन्धनं कृत्वा ध्रीयते चेत् तदेव यज्ञोपवीतं भवति" इति स: प्रतिवदति स्म। "तादृशं यज्ञोपवीतं यः धरति सः एव दैवानुग्रहं प्राप्नोति" इति उक्तवान् । नानकस्य भार्या सुलखनी । श्रीचन्द्रः, लक्ष्मीदासश्च तस्य पुत्रौ । 'कृषिं कुरु' इति पिता प्रार्थितवान् । "मम देहक्षेत्रे मनः कृषीवलः, शीलमेव कृषिः, विनय एव जलम्, भगवद्भक्तिरेव बीजम्, सन्तृप्तिः हलः, दारिद्र्यं सीमा । प्रेम्णा पोषणं क्रियते चेत् वृक्षोप्तत्तिः भवति" इति भागवततत्त्वं ज्ञापयति स्म । "प्रतिदिनं पञ्चविषयान् प्रार्थयामि । प्रथमं सत्यं, द्वितीयं विशुध्दजीवनं, तृतीयं दैवानुग्रहं, चतुर्थं परिशुध्दं मनः,पञ्चमं दैवचिन्तनम् " इत्यवदत् ।
युधिष्ठिरः 

युधिष्ठिरः पञ्चपाण्डवेषु ज्येष्ठः । पाण्डुमहाराजस्य पुत्रः । कुन्ती अस्य माता । भीमः, अर्जुनः च युधिष्ठिरस्य अनुजौ । नकुलः सहदेवः च युधिष्ठिरस्य विमातुः माद्र्याः पुत्रौ । अयं युधिष्ठिरः यमधर्मराजस्य वरेण जन्म प्राप्नोत् । महाभारतस्य प्रमुखेषु पात्रेषु अन्यतमम् अस्ति युधिष्ठिरस्य पात्रम् । जीवने सर्वदा धर्माचरणं कुर्वन् युधिष्ठिरः "धर्मराजः" इत्येव प्रसिद्धः ।

बालगङ्गाधर तिलकः 

बालगङ्गाधर तिलकः (1856-1920) महान् राष्ट्रभक्तः । भारतस्य स्वातन्त्रसङ्ग्रामे प्रमुखः नेता आसीत् । स्वतन्त्रताया: आन्दोलनस्य प्रसङ्गे स: अघोषयत्‌, "स्वराज्यम्‌ अस्माकं जन्मसिद्ध: अधिकार:." इति । समाचारपत्राणां प्रकाशनं सम्पादनं च कृत्वा स: देशसेवां करोति स्म । बहुबारम्‌ कारागारवासम् अनुभूतवान् स: संस्कृते विद्वान्‌ आसीत्‌ ।

पाणिनिः 

पाणिनिः संस्कृतस्य महान् वैयाकरणः । पाणिनेः जन्म क्रिस्तपूर्वसप्तमशताब्द्यां शलातुरग्रामे अभवत् । अतः तस्य 'शलातुरीयः' इति नाम अति प्रसिद्धम् अस्ति । वर्तमानकाले पाकिस्थानदेशे स्थितः लहुरनामकः ग्रामः एव शलातुरग्रामः अस्ति । पाणिनेः मातुः नाम दाक्षी । अतः एव सः दाक्षीपुत्रः इत्यपि कथ्यते । 'पणिनः' इति तस्य पितुः नाम । अतः तस्य नाम 'पाणिनिः' अभवत् । आचार्यः वर्षः पाणिनेः गुरुः आसीत् । पाणिनिः 'तक्षशिला'विद्यापीठे शिक्षां प्राप्तवान् | पञ्चतन्त्रानुसारेण पाणिनेः मुत्युः सिंहकारणात् अभवत् - 'सिंहो व्याकरणस्य कर्तुरहरत् प्राणान् प्रियान् पाणिनेः ।' परम्परानुसारेण पाणिनेः मृत्युः त्रयोदशीतिथ्याम् अभवत् । अतः एव पण्डितपरम्परायाम् अधुना अपि त्रयोदश्यां व्याकरणस्य अनध्यायः भवति |

महात्मा गान्धिः 

महात्मा गान्धिः इति प्रसिद्धः मोहनदासकरमचन्दगान्धिः (१८६९-१९४८) गुजरातस्य पोरबन्दरनामके नगरे जन्म प्राप्तवान् । तस्य उदारान् मानवीयान् गुणान् दृष्ट्वा कवि: रवीन्द्रनाथठाकुर: तं महात्मा इति शब्देन सम्बोधितवान् । तत: पश्चात् सर्वे भारतीया: तं महात्मा गान्धिः इति एव अभिजानन्ति ।भारतमातुः श्रेष्ठः पुत्रः महात्मा गान्धिः स्वातन्त्र्यान्दोलने सर्वेषां भारतीयानाम् आधारभूतः मार्गदर्शकः च आसीत् । अत एव गान्धिजयन्ती पर्व राष्ट्रियपर्वरुपेण आचर्यते । दक्षिण-आफ्रिकादेशेऽपि महात्मा गान्धिः उत्तमं कार्यं कृतवान् ।