सदस्यः:Ganesh Paudel/प्रयोगपृष्ठम्
| स्वागतं ते हार्दं प्रवेशद्वारं नेपाल
| नेपालः हिमालयस्य कपाले स्थितः, अद्वितीयसांस्कृतिकविविधतायुक्तः, पशुपतिनाथ-गौतमबुद्धयोः च पवित्रतपोभूमिः ।
संघीयलोकतान्त्रिकराष्ट्रम् नेपाल एशियाखण्डे अन्तर्भवति । अस्य पूर्वस्याम्, दक्षिणस्याम्, पश्चिमस्याम् च भारतम्, उत्तरस्याम् चिनगणराज्यम् अवस्थितौ स्तः । हिमालयस्य सानुप्रदेशे स्थितं राष्ट्रं परितः भूभागेनैव आवृतम् अस्ति । नेपालस्य उत्तरे त्रिविष्टपम् (तिब्बत) अस्ति। परितः विश्वस्य अत्युन्नतपर्वताः १० सन्तीति भावयामश्चेत् तेषु अष्टपर्वताः नेपाले एव सन्ति । नेपालस्य विस्तीर्णं १४११८१ च.कि.मी । जनसङ्ख्या प्रायशः ३ कोटिः । नेपालदेशस्य पूर्वतः पाश्चिमान्तभागपर्यन्तं ८०० कि.मी भवति । दक्षिणतः उत्तरान्तपर्यन्तं २०० कि.मी भवति । तिर्यक् पट्टिकारीत्या भारतस्य उत्तरभागे अस्ति । भौगोलिकरीत्या उन्नतपर्वतप्रदेशः, लघुगिरीणां प्रदेशः, तराय् प्रदेशः च इति विभागः शक्यते । भारतसीमानिकटे गङ्गायाः समतलप्रदेशः अस्ति । एतस्मिन् प्रदेशे कोसी, नारायणी ( गण्डकी ) कर्नाली नद्यः च जलम् आनयन्ति । लघुगिरिप्रदेशे काठ्मण्डुखनिप्रदेशः अस्ति । एतस्य देशस्य अत्यधिकजनाः अत्र वसन्ति । एतस्मिन् प्रदेशे महाभारतलेख् शिवालिकपर्वतश्रेणयः च सन्ति । एताः पर्वतश्रेणयः मध्यमस्तरीयाः सन्ति । एतासामौन्नत्यं १००० मीटरतः ४००० मी पर्यन्तम् अस्ति । उन्नतपर्वतप्रदेशे प्रपञ्चस्यैव अत्युन्नतपर्वताः सन्ति । तत्र सगरमाथा, कञ्चनजङ्घा, अन्नपूर्णा, मकालु, धवलागिरिः इत्यादयः विश्वस्य दशमध्ये अष्ट सर्वोन्नतपर्वताः विराजिताः सन्ति। अत्र घनवनानि सन्ति । परन्तु सद्यः अरण्यनाशः मानवानां दुष्टेच्छाकारणतः प्रचलति । एतेन प्रकृतेरुपरि विपरीतपरिणामः दृश्यते । इदानिं सप्त प्रशासनिक प्रदेशेषु व्यवस्थितं तानि कोशी प्रदेश, मधेशप्रदेश, बाग्मती प्रदेश, गण्डकी प्रदेश, लुम्बिनी प्रदेश, कर्णाली प्रदेश, सुदुरपश्चिम नाम्ना ख्याताः । कोशी, बाग्मती, गण्डकी, कर्णाली ख्याताः नद्यः मधेश एवं सुदुर पश्चिम स्थान विशेष लुम्बिनी बुद्धजन्मभूमि इति महत्वेन प्रदेशाः नामाकृतानि सन्ति। ‘नेपाल’ इति अस्य राष्ट्रस्य नाम ‘ने’ नामक ऋषिद्वारा पालित इति अर्थम् (सिन्धुनदी) इति मूलसम्स्कृतशब्दस्य तद्भवपर्शियाभाषाशब्दात् ‘इण्डस्’ इत्यतः निष्पन्नम् । नेपालस्य संविधाने नेपालराज्यस्य परिभाषा नेपालः स्वतन्त्रः, अविभाज्यः, सार्वभौमः, धर्मनिरपेक्षः, समावेशी, लोकतान्त्रिकः, समाजवादी उन्मुखः, संघीयप्रजातन्त्रवादी गणतन्त्रीयः राज्यः इति उल्लिखितम् वर्तते । हिन्दूबौद्ध प्राकृतेती त्रिणीप्राचीनधर्माणाम् आचरितम् इदम् राष्ट्रम् । व्यापकतया तु हिन्दुधर्मः अत्र पाल्यते । प्रपञ्चानुरागः सर्वधर्मसहिष्णुता च अस्य राष्ट्रस्य विशेषः । इदम् राष्ट्रम् कदापि अन्यानि राष्ट्राधीनं नासित् । |
|
प्रवेशद्वारम्:नेपालम्/भौगोलिकम् |
| ||||
|
| |||||
|
प्रवेशद्वारम्:नेपालम्/संस्कृतिः | |||||
|
| |||||
|
|
