सदस्यः:Gitika gitanjali/प्रयोगपृष्ठम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

ऋग्वेदीयमन्त्रे 'ईले' इति यत्र भवति तत्रकृष्णयजुर्वेदे सामवेदस्य कौथुमराणायनीयशाखयोश्च 'ईडे' इत्येव प्रयोगः। ईड स्तुतौ इति धातोः निष्पन्नं चेदं तिङिन्तं लोके अपि डकारस्यैव प्रयोगः - 'स्वात्मारामं मुदितवदनं दक्षिणामूर्तिं ईडे' इति।

भवतु , डकारस्य स्थाने ळकारश्चेद् ढकारस्य स्थाने महाप्राणळकारो भवति किम्?

आम् ! महाप्राणळकार एव। परन्तु देवनागर्याम् (अन्यासु च लिपिषु) तस्य पृथक् चिह्नं नास्तीत्यतः सर्वे अपि लकारहकारसम्युक्ताक्षरमिव लिखन्ति 'ळह' इति। 'वोढुम्' इति यद् लोके कृष्णयुर्वेदादौ वा भवति तद् ऋग्वेदादौ 'वोलहुम्' इति भवति। अयं च वस्तुतः संयोगः न, प्रत्युत पृथग् वर्ण ळकारस्य महाप्राणरूपः इत्येदपि स्मर्तव्यम्।

तस्माद् 'ळ' 'ळह' इत्येतौ वर्णौ विशिष्टौ विद्येते इति प्रथमतो ज्ञायम्।

(कोचित्तु 'ळ ' 'ळह' इत्यनयोः ड-ढ-अपेक्षया स्वातन्त्र्येण प्रयोगाभ प्रयोगाभावात् पृथग्वर्णत्वं  नाङ्गीकुर्वन्ति, तस्यैव उच्चारेण विशेषः अयम् इति वदन्ति। तस्मिन्  पक्षे पाणिनीयशिक्षायां दुःस्पृष्टस्य पृथक्कथनं नोपपद्यते।

इदमपि अत्र वत्कव्यम। डकारो ढकरो वा यत्र अन्येन व्यंजनेन संयुक्तौ भवतः , तत्र सर्वासु शखासु तथैव तयोः उच्चारणम् , तन्नाम 'ळ' 'ळह' इति व्यत्ययो नास्ति। द्वेयोः स्वरवर्णयोर्मध्येएव व्यततः। अतः 'ईडायः' 'मृढ्वम्' इत्यदयःएव वैदिकाः प्रयोगाः भवन्ति, न तु तत्र ळळहौ भवतः।

जैमिनीयशाखापरिचयः[सम्पादयतु]

अधुना तावत् अधिकृतं विषयं वदामः। यत्र लोके कृष्णयुर्वेदे समवेदस्य कौथुमराणायनीयशाखयोञ्च डकरो भवति, ऋग्वेदे शुक्लयुर्वेदे च ळकरो भवति, तत्र साम्वेद्स्य जैमिनीयशाखायां कारो भवति।

वेदविचारः[सम्पादयतु]

जैमिनीशाखा इति सामवेदस्य अप्रसिद्धतरा कचनशखा । सहस्त्रवर्त्मा सामवेदः इति सामवेदे सहस्त्रं शाखाः आसन् इति महाभाष्यकारः वदति । तत्र अद्यत्वे अध्ययनपरम्परयां तिस्रः एव शाखाः अवशिष्टाः- ताश्च कौथुम –राणायनीयशाखा- जैमिनीशाखा:। प्रायेण महाराष्ट्रस्मीपवर्तिषु जनपदेषु राणायनीयशीखा विद्यते। अन्यत्र सर्वत्र कौथुमशाखा। जैमिनीशाखा तु तमिखयनाडु – कैरल –प्रदेशेयोः अद्यत्वे कौथुम-भूयिष्ठत्वे अपि अल्पप्रमाणेन अवाशिष्यते ।