सदस्यः:Ipsita panda 6/प्रयोगपृष्ठम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

                                                          गोमाहात्म्यम्

प्राणिषु यव्दा सर्वश्रेष्ठस्थानं मानवस्य कृते दीयते तथापि एतादृशस्य स्थानस्य अधिकार प्राप्तुं अन्यैकजीवः भवति गौः ।कारणं जीवेषु सर्वश्रेष्ठस्थानं प्राप्तुम् एतदर्थं अर्हः भवति यत् अस्याः  गोमातुः पञ्चवर्ज्य वस्तुनि अस्माकं कृते पञ्चगव्यरुपेण व्यवह्रियन्ते।न केवलं मनुष्यस्य परन्तु सर्वेषां प्राणिनां कृते पञ्चगव्यं पवित्रं करोत।उक्तमस्ति –

                               “सृष्टाश्च गावः शमयन्ति पयः संसेविता श्वोपनयन्ति वित्तम्

                              ता एव दत्तान्त्रिदिवं नयन्ति गोर्भिन्नतुल्यं धनमस्ति किञ्चित् “।इति

तर्हि गोमातुः स्थानं विश्वे अस्मिन् सर्वर्श्रष्ठ प्राणिरूपेण आगच्छति ।यथा महापुरुषः समाजस्य मंगलविधानाय सर्वदा प्रयत्नशीलाः तथा भवति गोमाता ।सा एव माता शिशोः जन्म स्वोदरात् प्रददाति परन्तु न भवतु वा एषा तादृशी माता परन्तु हिन्दवः तां माता रुपेण मन्यन्ते ।सर्वेषां देवानां आलय भवति गोमाता ।उक्तमस्ति –

                         सर्व देवाः स्थितोदेहे सर्वदेवमयी हि गो,

                       पृष्ठे व्रह्मा गले विष्णु मुखे रूद्र प्रतिष्ठितः “।इति हिन्दुभिः तान् माता इति मनसि निधाय गह्मापूर्णिमायाम् अस्याः जन्मोत्सवं परिपाल्यते ।सर्वे गन्धपुष्पमालामाध्यमेन भक्तिं प्रदर्शयन्ति ।पुनः तद् दिने भोजनार्थं पिष्टकादि प्रयच्छन्ति ।जगत् पावना अस्याः मातः योगदानमुत्तमा भवति ।उक्तमस्ति –

                                      “गावः श्रेष्टा पावनेषु पावना जगदुत्तमा,

                                      ऋते दधि घृताभ्यां च नेह यज्ञ प्रवर्तते “। इति

एषा माता पञ्चगव्य प्रदायकः। दुग्धं-घृतं-दधि-गोमूत्रं-गोमयं भवति पञ्चगव्यम्। एतस्मात् पञ्चगव्यात् यज्ञकर्मसमुभ्दुत भवेत्।

दुग्धम्-

           शिशोः विकाशाय मातुः स्तनात् वात्सल्येन निःसरति अमृतोपमप्राणदायिजीवनशक्तिस्वरुपं दुग्धम्।यदा आदिममानवाः आसन् ते अपक्वमांसान् भुक्त्वा स्वजीवनं निर्वाहयन्ति स्म। यदा कृषिकार्याणि विकसितानि आसन् तदा गोपालनं तैः आदिममानवाः अनुस्तदताः अभवन्। दुग्धपान कारणात् तस्य अमृततुल्य उपयोगित्वात् च।

दधिः – गीतायामुक्तमस्ति गतयाम गतरमं पूतिपर्युशितं च यत् उच्छिष्टमपिचामेधं भोजनं तामसप्रियमं दिनिन्तरेण खाद्यं अखाद्येन प्रवर्तन्ते परन्तु दुग्धं दिनान्तरेण दधि रुपेण रुपान्तरं भवति परन्तु केवलं दधि सात्विकानां प्रियं भवति। दुग्धस्य भौतिक प्रक्रियायां दधि सम्भवति। एतत् जनाः व्यञ्जनं रुपेण स्वीकृत्य भोजनादि क्षेत्रे व्यवहरन्ति। एतस्यापि अपरं महत्वपूर्ण कार्यं वर्त्तते, यत्र पञ्चामृत रुपेण एतस्य स्थानं महत्वपूर्णं वर्त्ततैव। कारणं पञ्चामृते पञ्चानां द्रव्याणां समाहारो भवन्ति।तानि द्रव्याणि भवन्ति यथा-दुग्धं, दधि, घृतं, मधु, शर्कराश्च।एते सर्वे मिलित्वा पञ्चामृतस्य निमित्तं भवन्ति। पञ्चामृतस्य कार्यं तावत् पवित्रिकरणमेव।

घृतम्-यव्दा एतस्य कृते साधारणतः दुग्धम् आवश्यकम्, दुग्धात् दधि, तदन्तरं घृतस्यैव निर्माणं भवति। एतस्य तु न केवलं पृथिव्यां महत्वं वर्त्तते, अपितु स्वर्गेअपि। कारणं स्वर्गे देवताभ्यः घृतमाध्यमेन यज्ञ मपि कुर्वन्ति। यज्ञे तु घृतस्य स्थानं प्रथममेव वर्त्तते। अतः घृतमाध्यमेन यज्ञ फलं प्राप्तं वयं समर्थाः भवाम। न चेद् इति।

गोमयम्-एतद् तु गोः वर्ज्य वस्तु रुपेण यव्दा भवति, परन्तु अस्माकं कृते पवित्रिकरणरूपेण स्वीक्रीयते। यथा यदि अस्माकम् गृहे प्रातः एतस्य गोमयं जले सम्मिश्रणं कृत्वा परितः नसिञ्चामः तर्हि रात्रिजनितपारत्षयं दूरं न भवति। साधारणतः गोमयस्य उपयोत्वम् अस्माकं गृहेषु भवति। अपं गृहस्य पुनः लेपनार्थं जनाः एतस्यापि स्वीक्रियन्ते।

गोमूत्रम्-अपरं तावत् गोः वर्ज्य वस्तु भवति गोमूत्रमं।संसारे ये जीवाः सन्ति तेषु तेषु जीवेषु एषः एकैव जीवः यस्य मूत्रमपि पवित्रिकरणरूपेण कार्यं करोति ।यथा पञ्चगवेषु इदं गव्यं तु भवति अन्यतमम् एतस्याभावेन पञ्चगव्यस्य निर्माणं नभवत्यैव।

                                                     उपरोक्तमाध्यमेन गो माहात्म्यम् अतीव महत्वपूर्ण स्थानमधिकरोति। एतस्य एतादृशं महात्म्यं स्थित्वापि वयं तेषां कृते किं किं व्यवहारं कुर्वन् आसम्, तद् सर्वे अपि जानीम।

भोजनविषये- वयं सर्वे स्ववुध्दया एव सर्वश्रेष्ठस्थानं प्राप्तुं सर्वमपि कार्याणि उन्नतिमार्गेण भवेयुः।एतद् न कोऽपि चिन्तयन्ती। कारणं स्वार्थं यद् यद् भोजननिमित्तं व्यवहारं स्वीकुर्वन्ति तद् तद् वर्ज्य वस्तुनि स्वीकृत्य एतस्यां कृते एव प्रयच्छन्ति। यदा अस्माकं भोजनमपि नष्टं जायते। तदैव एतस्य कृते प्रयच्छन्ति न तु तद् प्रागेव।

गृहम् – वयं अस्माकं कृते वज्रचुर्णैः निर्मितं तस्योपरि मृद्युलतापूर्वकं आस्थानं विस्थाय शयनार्थं, भोजनार्थं, उपवेशनार्थं व्यवहार कुर्मः।परन्तु एतस्य कृते यदि पश्यामः तर्हि ज्ञानिनः यत्र अस्माकं गतागतं न भवति अर्थात् एतस्य स्थानं तत्रैव भवति यत्र अस्माकं कृते गन्तव्यं सदा नैव भवति। तत्र मशकादि परिपूर्णाः भवन्ति तथापि एतस्य कृते एतादृश कष्टात् न निवारयामः।

व्यवहार- यदि अस्माकं कृते कोऽपि किञ्चित् सुव्यवहारं प्रदर्शयति, तर्हि वयं सः साधु इति विचिन्त्य तस्य सेवापूजादिकं च कुर्मः। परन्तु एतस्याः कृते न भवति। यथा नीतिशतके उक्तमस्ति –

                       “नारिकेलसमाकारा दृश्यन्तेऽपि हि सज्जनाः,

                         अन्य वदरिकाकारा वहिरेव मनोहराः”। इति। उपरोक्त श्लोकात् ज्ञायते यदि अस्माकं कृते किमपि उचितव्यक्तिः प्राप्तमव्ययम् अस्ति तर्हि तादृशकष्टं कुर्यात् यथा नारिकेल – प्राप्तुं जनाः नारिकेलस्य उपरिभागे आसन् कठिन स्थानं पर्यन्तं गच्छन्ति अनन्तरमेव सुस्वादुयुक्तजलं रसः च प्राप्तुं अर्हः भवन्ति कारणम् एते जनाः स्वल्प सौम्येन प्राप्तुं अर्हः भवन्ति कारणम् एते जनाः किञ्चित् साधुव्ववहार प्रयच्छन्ति ।अनन्तरम् अस्माकं कृते यद् यद् अनिष्ठं भवति, तद् तद् कुर्वन्ति यथा श्लोके उक्तं साधुतया वदरिका फलसदृशं भवन्ति एते जनाः। यथा वदरिका फलस्य उपरिभागे केवलं कोमलं चिक्कणञ्च भवति परन्तु तस्य मध्ये कठिनं वीजमस्ति। तादृशं दुष्टजनस्य हृदये तु केवलं कठिनता दृश्यते। अतः गो प्राप्तुं वयं वहु षष्ठं कुर्यामः। तस्य कृतेऽपि व्यवहारं प्रयच्छेत् यदि तर्हि तस्य उत्तमगुणस्य अधिकारी भवामः इति।

                           उपरोक्तं विचारानुसारं गोः माहात्म्यं न केवलं अस्माकं संसारे अपितु विश्वेऽपि स्वर्गेअपि च नितरां परिवर्त्तते एव। अतः एतस्य कृते भूयो भूयः सदासर्वदा पूजास्थानादि प्रयच्छेत् इति मम मतम्।

                           “  गावो लक्ष्म्याः सदा मूले गोषु पम्पा न विद्यते,

                             मातरः सर्वभूतानां गावः सर्व सुखप्रदा”।