सामग्री पर जाएँ

सदस्यः:Khyathisamhitha2031390/प्रयोगपृष्ठम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

संस्कृतस्य माहात्म्यम् अथवा संकृतस्य उपनिषदः | []

संस्कृतम् जगतः एकतमा अतिप्राचीना समृद्धा शास्त्रीया च भाषा वर्तते। संस्कृतं भारतस्य जगत: वा भाषास्वेकतमा‌ प्राचीनतमा। भारती, सुरभारती, अमरभारती, अमरवाणी, सुरवाणी, गीर्वाणवाणी, गीर्वाणी, देववाणी, देवभाषा, संस्कृता वाक्, दैवीवाक्‌ इत्यादिभिः नामभिः एतद्भाषा प्रसिद्धा। भारतीयभाषासु बाहुल्येन संस्कृतशब्दाः उपयुक्ताः। संस्कृतात् एव अधिका भारतीयभाषा उद्भूताः। तावदेव भारत-युरोपीय-भाषावर्गीयाः अनेकाः भाषाः संस्कृतप्रभावं संस्कृतशब्दप्राचुर्यं च प्रदर्शयन्ति। व्याकरणेन सुसंस्कृता भाषा जनानां संस्कारप्रदायिनी भवति। अष्‍टाध्‍यायी इति नाम्नि महर्षिपाणिनेः विरचना जगतः सर्वासां भाषाणाम् व्याकरणग्रन्थेषु अन्यतमा, वैयाकरणानां भाषाविदां भाषाविज्ञानिनां च प्रेरणास्‍थानं इवास्ति। संस्कृतवाङ्मयं विश्ववाङ्मये अद्वितीयं स्थानम् अलङ्करोति। संस्‍कृतस्‍य प्राचीनतमग्रन्‍थाः वेदाः सन्‍ति। वेद-शास्त्र-पुराण-इतिहास-काव्य-नाटक-दर्शनादिभिः अनन्तवाङ्मयरूपेण विलसन्ती अस्ति एषा देववाक्। न केवलं धर्म-अर्थ-काम-मोक्षात्मकाः चतुर्विधपुरुषार्थहेतुभूताः विषयाः अस्याः साहित्यस्य शोभां वर्धयन्ति अपितु धार्मिक-नैतिक-आध्यात्मिक-लौकिक-वैज्ञानिक-पारलौकिकविषयैः अपि सुसम्पन्ना इयं देववाणी। अस्यां उपनिसदः विश्वस्य उत्पात्तिः अक्षरात् इति उकतं| किं तदक्सरमिति चेत् न क्षरति इत्ययक्षरं| अर्थात द्रुशमानम् अनुभूयमानच्हेदं विश्वं संभूतं जातं इत्युक्तं भवति| तेन विश्वं कार्यं इति संपन्नं| कारणं विना कार्यं नूत्पध्यते| अतः कार्यरॊपस्य प्रबन्जस्य कारणं अक्सरं ब्रह्म इति फलितं| तस्य कारनीभूतस्य ब्रम्हनह् स्वरूपं अक्षरम शब्देन अभिहितम्| अनेन ब्रम्हनह् अविनाशित्वं, सत्यत्वं च सूचितं| एतादृशं ब्रह्म भूतभविष्य वर्तमानेषु अबाद्यं| तत् सत्यं| तत् यया विध्याय गुरूपदेश पुरस्सरम् बोध्यते सा परा विद्या|

संस्कृतस्य महाकाव्यः - रामायणम् | []

वाल्मीकिमहर्षिणा विरचिते रामायणे सप्तकाण्डाः सन्ति । ते बालकाण्डः, अयोध्याकाण्डः, अरण्यकाण्डः, किष्किन्धाकाण्डः, सुन्दरकाण्डः, युद्धकाण्ड, उत्तरकाण्डः चेति । अधुना अपि जनाः रामायणकाव्य वाचनं कुर्वन्ति । मानवजीवने अनेकाः समस्याः विद्यन्ते । तासां परिहारं रामायणमहाकाव्ये अन्वेष्टुं शक्यते । अस्य काव्यस्य महत्त्वं वर्णयितुं श्लोकाः अनेकाः सन्ति । ऊदाहरनात् - 1. आदर्शगुणाः इति पद्यभाग: आदिकविना वाल्मीकिमहर्षिणा प्रणीतात्-'आदिकाव्यम्' इति प्रसिद्धात् रामायणमहाकाव्यात् उद्धृतः । भागोऽयं बालकाण्ड-अयोध्याकाण्ड-अरण्यकाण्डेभ्यः सङ्गृहीतः । ग्रन्थेऽस्मिन् सप्तकाण्डैः चतुर्विंशतिसहस्रैः श्लोकैश्च श्रीरामस्य चरितं निबद्धमस्ति । रामायणम् इतिहासत्वेनाऽपि प्रसिद्धम् । काव्यमदः जीवनमौल्यानि मानवसम्बन्धसूक्ष्मांश्च कान्तासम्मिततया बोधयति ; तान् गुणान् अनुकर्तुं प्रेरयति च । ‘कोऽन्वस्मिन् साम्प्रतं लोके गुणवान् कश्च वीर्यवान्' इति महर्षि वाल्मीकिः नारदमहर्षि पृच्छति । तदा नारदः श्रीरामस्य चरितं कथयति । तदनु वाल्मीकिः स्वीये रामायणे श्रीरामस्य आदर्शगुणान् बहुप्रकारैः वर्णयति । तथा अरण्यकाण्डे राक्षसः मारीचोऽपि रावणस्य सम्मुखे श्रीरामस्य गुणान् कीर्तयति। 2. तेषु केचन अत्र वर्णयितुम् उद्धृताः । कूजन्तं रामरामेति मधुरं मधुञ्जक्षरम् । आरुह्य कविताशाखां वन्दे वाल्मीकिकोकिलम् |

  1. https://en.wikisource.org/wiki/A_History_of_Sanskrit_Literature/Chapter_10
  2. https://simple.wikipedia.org/wiki/Ramayana#:~:text=The%20Ramayana%20is%20an%20ancient,is%20divided%20into%20seven%20parts.
Lord Rama