सदस्यः:Krishnaprasad Nirola/प्रयोगपृष्ठम्/2

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Jump to navigation Jump to search

वासांसि जीर्णानि यथा विहाय () इत्यनेन श्लोकेन भगवान् श्रीकृष्णः देहिनः शरीरान्तप्राप्तेः तत्त्वज्ञानं कथयति । पूर्वस्मिन् श्लोके भगवान् देहिनः निर्विकारिताम् उपस्थाप्य अत्र तस्य देहिनः देहान्तरप्राप्तेः विषये मनुष्याणां वस्त्रपरिवर्तनस्य उदाहरणेन बोधयति । सः कथयति यत्, मनुष्यः यथा जीर्णानि वस्त्राणि त्यक्त्वा नवीनानि वस्त्राणि धरते, तथैव देही पुरातनं जीर्णं शरीरं त्यक्त्वा अपरं नवीनं शरीरं धरते अर्थात् अपरे शरीरे निवासाय गच्छति इति ।

भावार्थः[सम्पादयतु]

'वासांसि जीर्णानि...संयाति नवानि देही' – अग्रे भगवान् उक्तवान् यत्, देहान्तरप्राप्तिविषये धीरः पुरुषः शोकं न करोति इति [१] । अत्र उदाहरणं दत्त्वा तं विषयमेव स्पष्टयति । अत्र भगवान् कथयति यत्, यथा जीर्णवस्त्राणि परिवर्तनकाले यथा मनुष्यः शोकं न करोति, तथैव देहिनः शरीरपरिवर्तनेऽपि शोकः न करणीयः इति । वस्त्राणि केवलं मनुष्यः एव परिवर्तयति, न तु पश्वादयः । अत एवात्र 'नरः' इत्यस्य पदस्य उपयोगः । 'नरः' इत्येतद् पदं मनुष्ययोनिवाचकत्वाद् तत्र स्त्रिः, पुरुषः, युवकः, युवती, बालकः, वृद्धः इत्यादीनां सर्वेषां समावेशः भवति ।

यथा मनुष्यः पुरातनवस्त्राणि त्यक्त्वा अपराणि नवीनानि वस्त्राणि धरते, तथैव देही जीर्णं शरीरं त्यक्त्वा नवीनं शरीरं धरते । पुरातनशरीरस्य त्यागः 'मृत्युः', नवीनशरीरस्य प्राप्तिश्च 'जन्म' इति । यावता देहिनः प्रकृत्या सह सम्बन्धः भवति, तावता देही पुरातनं शरीरं त्यक्त्वा कर्मानुसारम् उत अन्तकालस्य चिन्तनानुसारं नवीनानि शरीराणि प्राप्नुवन् अटति । अत्र 'शरीराणि' इत्यस्य पदस्य बहुवचनोपयोगस्य तात्पर्यम् अस्ति यत्, यावता शरीरी स्वस्य वास्तविकस्वरूपस्य यथार्थं न जानाति, तावता सः शरीरी अनन्तकालं यावद् शरीराणि धारयन् भवति । अद्य पर्यन्तं तेन शरीरिणा कति शरीराणि धृतानि इत्यस्य गणना नास्ति । एनं विषयं लक्षीकृत्य 'शरीराणि' इत्यस्य बहुचनस्य प्रयोगः । सर्वेषां ध्यानं कर्षयितुं 'देही' इत्यस्य पदस्य उपयोगः ।

एतस्य श्लोकस्य पूर्वार्धे जीर्णवस्त्राणाम्, उत्तरार्धे च जीर्णशरीराणां चर्चा अस्ति । जीर्णवस्त्राणाम् उदाहरणं जीर्णशरीरेषु कथम् उपयुक्तं भवति ? यतो हि शरीराणि बालकानां, वृद्धानां चापि म्रियन्ते । केवलं वृद्धानां जीर्णशरीराणि म्रियन्ते इति तु नास्ति खलु ! इति प्रश्ने उद्भूते उत्तरं भवति यत्, शरीरं तु आयुष्ये पूर्णे सत्येव म्रियते । तच्च शरीरं बालस्य स्याद् उत वृद्धस्य । आयुष्ये पूर्णे सति सर्वाणि शरीराणि जीर्णानि एव अङ्गीक्रियते । तात्त्विकदृष्ट्या पश्यामः चेत्, आयुष्यं तु प्रत्येकक्षणं पूर्णताङ्गच्छति । अर्थात् शरीरं प्रतिक्षणं जीर्णं भवदस्ति इति । शरीरस्य मृत्युः प्रतिक्षणं भवति, तन्न क्षणं यावद् स्थिरं तिष्ठति । यथा युवि सति बाल्यं म्रियते, तथैव बाल्यम् अपि निरन्तरं म्रियमाणं भवति । परन्तु तस्मिन् सूक्ष्मपरिवर्तने ध्यानाभाद् प्रतिक्षणस्य मृत्योः ज्ञानं न भवति । सैव मूर्छा इति ।

एतस्मिन् श्लोके 'यथा', 'तथा' इत्येतयोः पदयोः उपयोगं कृत्वा भगवान् कथयति यत्, मनुष्यः जीर्णानि वस्त्राणि त्यक्त्वा नवीनानि वस्त्राणि धरते, तथै एतस्य जीर्णस्य शरीरस्य त्यागं कृत्वा शरीरी नवीनं शरीरं गच्छति । अत्र शङ्का भवति यत्, यथा कौमारयौवनवार्धक्यानि स्वतः भवन्ति, तथैव देहान्तरप्राप्तिः स्वतः भवति [२] इति । अत्र तु 'यथा', 'तथा' इत्येतयोः उपयोगः औचित्यं वहति । एतस्मिन् श्लोके जीर्णवस्त्राणां त्यागे, नवीनवस्त्राणां धारणे च मनुष्यस्य स्वतन्त्रता अस्ति । परन्तु जीर्णदेहस्य त्यागोत्तरं नवीनदेहस्य स्वीकारे देहिनः स्वतन्त्रता नास्ति । एवम् अत्र 'यथा', 'तथा' इत्येतयोः पदयोः औचित्यं कथम् ? एतस्य समाधानम् अस्ति यत्, अत्र भगवतः उदाहरणोपस्थापनस्य आशयः स्वतन्त्रतायाः उत परतन्त्रतायाः परिप्रक्ष्ये नास्ति, अपि तु वियोगे सति उद्भूतस्य शोकस्य अपाकरणार्थे अस्ति । यथा जीर्णवस्त्राणि त्यक्त्वा नवीनवस्त्रे धृते मनुष्यः पूर्ववद् भवति, तथैव पूरातनशरीराणां त्यागे सत्यपि देही पूर्ववद् भवति । एवं शोकः न करणीयः इति वक्तुम् एषः श्लोकः अस्ति ।

अपरा शङ्का अस्ति यत्, पुरातनवस्त्राणां त्यागे, नवीनवस्त्राणां धारणे च सुखं भवति । परन्तु जीर्णशरीरस्य त्यागोत्तरं नवीनशरीरस्य धारणे दुःखं भवति । अत्र 'यथा', 'तथा' इत्येतयोः पदयोः औचित्यं कथं सिद्ध्यति ? एतस्य निराकरणम् अस्ति यत्, मृते शरीरे यद्दुःखं भवति, तन्मरणेन न भवति, अपि तु जीवनेच्छात्वाद् भवति इति । 'अहं जीवेम' इति जिजीविषा अन्तःकरणे भवति, परन्तु मृत्युः तु यथाकालं भवत्येव । तस्मिन् काले दुःखम् अनुभूयते । तात्पर्यम् अस्ति यत्, यदा मनुष्यः शरीरेण सह एकात्मतां साधयति, तदा शरीरे मृते स्वयं मरिष्यति इति मत्वा दुःखी भवति । परन्तु यः मनुष्यः शरीरेण सह स्वस्य एकात्मतां न स्वीकरोति, सः मृत्यौ प्राप्ते दुःखी न भवति । प्रत्युत सः वस्त्रपरिवर्तनस्य आनन्दम् अनुभवति । यदि मनुष्यः वस्त्रैः सह स्वस्य एकात्मतां न अङ्गीकरोति, तर्हि वस्त्रपरिवर्तनावसरे सः दुःखी न भवति । यतो हि तस्य मनसि वस्त्रभिन्नतायाः विवेकः स्पष्टः अस्ति । परन्तु लघोः बोलकस्य स्थितिः भिन्ना भवति । सः तु जीर्णवस्त्रपरिवर्तनोत्तरं नवीनवस्त्रधारणेऽपि रोदिति । तस्य तद्दुःखं मौढ्यत्वाद् अज्ञानत्वादेव । तस्य मौढ्यस्य नाशाय एव भगवान् अत्र 'यथा', 'तथा' इत्येतयोः पदयोः उपयोगं कुर्वन् वस्त्रस्य दृष्टान्तम् अयच्छत् ।

अत्र भगवता वस्त्रधारणे 'गृह्णाति' (धारयति) इत्यस्याः क्रियायाः उपयोगः कृतः । परन्तु शरीरधारणे 'संयाति' (गच्छति) इत्यस्याः क्रियायाः उपयोगः कृतः । एवं किमर्थम् ? इत्यस्य उत्तरम् अस्ति यत्, लौकिकदृष्ट्याः कारणे यः भ्रमः अस्ति, तस्य फलस्वरूपम् एव प्रतीयते । यतो हि मनुष्यः स्वस्य स्थाने भूत्वा वस्त्राणि धरते, देहान्तरप्राप्त्यै तु देही तं शरीरं त्यक्त्वा गच्छति । एतस्याः लौकिकदृष्ट्याः कारणेन क्रियाभेदः दृश्यते ।

मर्मः[सम्पादयतु]

'येन सर्वमिदं ततम्', 'नित्यः सर्वगतः स्थाणुः' इत्यादिभिः गीताशास्त्रे देही नित्यः, सर्वव्याप्तः, सर्वगतः, स्थिरस्वभावी च उक्तः । 'संयाति नवानि देही', 'शरीरं यदवाप्नोति' इत्यादिभिः देहिनः देहान्तरप्राप्तिः अपि उक्ता । अत्र शङ्का भवति यत्, यः सर्वत्र व्याप्तः अस्ति, तस्य गमनागमनक्रिया कथम् ? यतो हि यः यस्मिन् स्थले नास्ति, सः तं स्थलं गच्छति एवं भूते सत्येव 'गमनम्' इति उच्यते । तथैव यः यस्मिन् स्थले नास्ति, सः तं स्थलम् आगच्छति एवं भूते सत्येव 'आगमनम्' इति उच्यते । परन्तु देहिनः विषये उक्ते वाक्ये अनुचिते इति । एतस्याः शङ्कायाः समाधानम् अस्ति यत्, यथा कोऽपि बाल्याद् यौवनं प्रति गच्छति, तदा सः कथयति यद्, 'अहं युवानम् अभवम्' इति । परन्तु वास्तव्येन सः युवा न भवति, अपि तु शरीरं युवा भवति । एवं बाल्यकाले यः आसीत्, स एव युवावस्थायां भवति । परन्तु शरीरेण सह तादात्म्ये साधिते शरीरस्य परिवर्तने स्वस्मिन् परिवर्तनम् आरोपयति । एवम् आगमनगमनं वास्तव्ये शरीरधर्म, परन्तु शरीरेण तादात्म्ये साधिते स्वस्य गमनागमनं मन्यते । अतः वास्तव्येन देही तु न कुत्रापि गच्छति, केवलं शरीरस्य तादात्म्यत्वाद् तस्य गमनागमनं प्रतीयते ।

ततः प्रश्नोद्भवति यत्, अनादिकालाद् यद् जन्ममृत्य्वोः चक्रं चलति, तस्य कारणं किम् ? कर्मदृष्ट्या तु कर्मफलोपभोगाय एव जन्ममरणे भवतः । ज्ञानिनः दृष्ट्या अज्ञानत्वाद् जन्ममरणे भवतः । भक्तिदृष्ट्या भगवतः वैमुख्यं जन्ममरणयोः कारणम् । एतेषु त्रिषु मुख्यकारणम् अस्ति यत्, भगवता जीवाय या स्वतन्त्रता प्रदत्ता, तस्याः दुरुपयोगत्वादेव जन्ममरणे भवतः इति । तर्हि जन्ममरणयोः चक्राद् विमुक्तिः कथम् ? चेत्, प्राप्तस्वतन्त्रतायाः सदुपयोगेन जन्ममरणयोः चक्राद् मुक्तिः शक्यते । तात्पर्यम् अस्ति यत्, स्वार्थपूर्त्यै कर्म कृते सति जन्ममरणे भवतः । अतः स्वार्थत्यागं कृत्वा अपरस्य हिताय कर्म कृते सति जन्ममरणं न भवति इति । स्वज्ञानस्य अनादरेण जन्ममरणे भवतः, अतः स्वज्ञानस्य आदरं कृत्वा जन्ममरणोः नाशः शक्यः । स्वज्ञानस्य अनादरम् इत्युक्ते वयं यद् जानीमः, तदनुगुणं कार्यं न करणीयम् । यद्यपि सत्यं वक्तव्यम्, असत्यभाषणम् अयोग्यम् इत्येतयोः ज्ञानं भवति, तथापि स्वार्थवशेन असत्यभाषणं करोति । एतद् स्वज्ञानस्य अनादरः उच्यते । भगवतः वैमुख्यं जन्ममरणचक्रम् अरचयत् । तर्हि भगवतं प्रति सम्मुखता एव जन्ममरणचक्रं भङ्गयिष्यति ।

भाष्यार्थः[सम्पादयतु]

इतःपरं वयं प्रकृतविषयं वक्ष्यामः । एतस्मिन् प्रकरणे आत्मनः अविनाशित्वस्य प्रतिज्ञा अभवत्, सा कीदृशी अस्ति ? इति कथयति –

यथा जगति मनुष्यः जीर्णवस्त्राणि त्यक्त्वा नवीनानि वस्त्राणि धरते, तथैव जीवात्मा जीर्णं शरीरं त्यक्त्वा नवीनं शरीरं प्राप्नोति । अभिप्रायः अस्ति यत्, जीर्णवस्त्राणि त्यक्त्वा नवीनवस्त्रधारी पुरुषवद् जीवात्मा सर्वदा निर्विकारी भवति इति ।

भाष्यार्थः[सम्पादयतु]

यद्यपि नित्यानां देहिनां शरीरेभ्यः केवलं वियोगः भवति, तथापि रमणीयभागस्य साधनशरीरस्य नाशे सति तस्माद् शरीराद् वियोगरूपिणः शोकस्य कारणं तु प्रत्यक्षमेवास्ति । एतस्मिन् विषये वदति यत् -

धर्मयुद्धे शरीरत्यागी शरीरापेक्षया (विविधभोगयुक्तस्य नृपशरीरस्य अपेक्षया इत्यर्थः) अधिकतरं कल्याणमयं शरीरं (दिव्यशरीरम्) प्राप्नोति इति शास्त्रेषु लिखितम् अस्ति । अत एव पुरातनवस्त्राणि त्यक्त्वा नवीनवस्त्रधारकवद् एतद् शरीरपरिवर्तनं तु हर्षनिमित्तम् एव प्रतीयते ।

  1. गीता, अ. २, श्लो. १३
  2. गीता, अ. २, श्लो. १३