सदस्यः:Kumar.saakshi/प्रयोगपृष्ठम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

कल्पना चावला(हिन्दी: कल्पना चावला, आङ्ग्ल: kalpana chavala ) इत्यस्याः भारतीयायाः प्रथमायाः अवकाशयात्रिमहिलायाः जीवनं अन्याभिः महिलाभिः स्वल्पम् अपि भिन्नं नासीत् । किन्तु सा बहुसङ्घर्षम् अकरोत् । अनेकान् अवरोधान् अवतीर्य स्वविकासम् अकरोत्, देशस्य कीर्तिं च प्रासारयत् । कल्पनायाः पठनकाले तस्याः पितरौ प्राचीनविचारयुतौ आस्ताम् । अतः तां गृहस्य निकटतमायां शालायां प्रैषयताम् । शाला कीदृशी अपि स्यात् पठितुम् इच्छुकस्य विद्यार्थिनः महत्त्वं भवति इति कल्पना अमन्यत । यः कोऽपि पठितुम् इच्छति वा किमपि कर्तुम् इच्छति तस्मै अवरोधाः बाधकाः न भवन्ति इति अपि कल्पना अमन्यत । पठनकाले इयं अवकाशयात्रां करिष्यति इति केनापि विचारितं नासीत् । करनाल-नामके लघुग्रामे जाता कल्पना अवकाशयाने उपविश्य अवकाशयात्रां कृतवती इति सामान्या सिद्धिः तु नास्ति । दौर्भाग्येन अन्तिमयात्रायां प्रत्यागमनकाले कोलम्बिया-यानं नष्टं, तत्र सा मृता ।

कल्पनायाः जन्मसमये परिवारस्य आर्थिकी स्थितिः समीचीना आसीत् । करनाल-ग्रामे बालिकाभ्यः शिक्षाप्रदानं स्वल्पम् एव भवति स्म । 50 विद्यार्थिनां कक्षे द्वे वा तिस्रः एव बालिकाः भवन्ति स्म । कल्पनायाः वर्गेऽपि तथैव आसीत् । पिता तां पठितुं गृहस्य समीपवर्तिन्यां टागोर बालनिकेतन नामिकायां शालायां प्रैषयत् । इयं शाला गृहस्य निकटा आसीत् इति कारणं विहाय तस्याः शालायाः अपरं किमपि वैशिष्ट्यं नासीत् । तथापि कल्पना वर्गे १ तः ५ क्रमेषु एकं क्रमं प्राप्नोति स्म । कल्पना प्रारम्भादेव कल्पनाशीला आसीत् । चित्रस्य वर्गे विमानस्य चित्रस्य चित्रणं तस्यै रोचते स्म । तस्याः बाल्यकालस्य मित्रं डेझी चावला इति आसीत् । उभयोः स्वभावे असमानतायां सत्यामपि प्रगाढा मित्रता आसीत् । कल्पनायाः अमेरिका-देशे गमनं यावत् तयोः मित्रता आसीत् । करनाल-ग्रामे स्वस्याः प्रारम्भिकम् अध्ययनं समाप्य सा पञ्जाबराज्यस्य एन्जिनियरिङ्ग् महाविद्यालये एरोस्पेस्-विषये पठनं कर्तुम् अविचारयत् । अयं महाविद्यालयः चण्डीगढ-नगरे अस्ति । चण्डीगढ-नगरं गुजरातराज्यस्य गांधीनगरवत् आयोजनपूर्वकं निर्मितं सेक्टर् इत्येतेषु विभाजितं सुन्दरं नगरम् अस्ति । तत्र १४ महाविद्यालयाः सन्ति । तत्र चिकित्सासंशोधनस्य महत्त्वपूर्णं केन्द्रम् अस्ति । एभिः कारणैः पठितुम् इच्छुकेभ्यः छात्रवासस्य व्यवस्था समीचीना अस्ति । यदा कल्पना स्वज्येष्ठभ्रात्रा सञ्जयेन सह चण्डीगढ-नगरं गता तदा महाविद्यालयस्य नगरस्य च वातावरणं तस्यै अरोचत । तदानीं पठनस्य एतादृशं मुक्तं वातावरणम् अन्यत्र कुत्रापि न प्राप्यते स्म ।

नासा अमेरिका-देशस्य अवकाशसंशोधनस्य संस्था अस्ति । तस्याः सम्पूर्णं नाम नॅशनल् एरोनॉटिक्स् ऍण्ड् स्पेस् ऍड्मिनिस्ट्रेशन् इत्यस्ति । नासा-संस्थया सह कल्पनायाः सम्पर्कः व्यवहारश्च आसीत् । अतः सा १९८८ तमे वर्षे नासा एइम्स् संशोधनकेन्द्रे वृत्तिं प्राप्तवती । उपाध्यक्षपदे कार्यरतायाः कल्पनायाः कार्यशैली सर्वेभ्यः रुचिकरा अभवत् । १९९५ तमे वर्षे १५ अन्तरिक्षयात्रिणां गणे कल्पनायाः चयनम् अभवत् । जॉन्सन् स्पेस् सेन्टर् इत्यत्र अन्तरिक्षप्रवासाय तया वर्षद्वयं दृढं प्रशिक्षणं प्राप्तम् । अन्तरिक्षस्य तकनिकी-विषयाणां निष्णातात्वेन कल्पनायाः चयनम् अभवत् । अतः रोबोटिक् उपकरणानां विकासः, अवकाशयानस्य (स्पेस् शटल्) नियन्त्रणार्थं सोफ्टवेर्-विकासः, शटल् एवियोनिक्स् इत्यस्य प्रयोगशालायां परीक्षणम् इत्यादीनां निर्वहणं तस्याः मुख्यं दायित्वम् आसीत् ।


-साक्षी तथा मेधा

<ref> https://en.wikipedia.org/wiki/Kalpana_Chawla <ref> https://en.wikipedia.org/wiki/NASA