सदस्यः:Kunapuli Venkata Sai Sandeep

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

नलगोण्डा[सम्पादयतु]

नलगोण्डा-नगरं तेलङ्गाना-राज्यस्य नलगोण्डा-मण्डलस्य मुख्यालयः अस्ति । “नल्ला” “कोण्डा” इत्येताभ्यं तेलुगु-भाषायाः शब्दाभ्यां “नलगोण्डा” इति नाम निर्मितम् । नल्ला अर्थात् नीलवर्णः, “कोण्डा” अर्थात् पर्वतः इति । अतः अपभ्रंशत्वात् नलगोण्डा इत्यभवत् । स्थानीयजनाः साम्प्रतम् अपि नलगोण्डास् इति नाम्ना व्यवहरन्ति । अस्य स्थलस्य नाम साहित्यिककृतिषु अपि दृश्यते । अस्य नगरस्य समीपे बहूनि वीक्षणीयस्थलानि सन्ति । पर्यटनदृष्ट्या नलगोण्डा-नगरम् आन्ध्रप्रदेशस्य महत्त्वपूर्णः भागः मन्यते स्म । किन्तु साम्प्रतम् इदं नगरं तेलङ्गाना-राज्ये स्थितम् अस्ति ।

“मत्तापल्ली”, “पिल्ललमार्री”, “राजीवपार्क”, “पानीगिरि-बौद्धस्थलं”, “पनागल-मन्दिरं”, “नन्दीकोण्डा”, “लतीफ शेब दरगाह”, “कोल्लनपाकू-जैनमन्दिरं”, “राचाकोण्डा-दुर्गः”, “मेल्लावशेरवू”, “देवेराकोणा-दुर्गः”, “भुवनगिरी-दुर्गः” च इत्यादीनि नलगोण्डा-नगरस्य समीपस्थानि पर्यटनस्थलानि सन्ति । एतानि सर्वाणि वीक्षणीयस्थलानि नलगोण्डा-नगरस्य इतिहासेन सह सम्बद्धानि सन्ति । अस्य नगरस्य जलवायुः उष्नकटिबन्धीयः अस्ति । अतः वर्षर्तौ अस्य नगरस्य भ्रमणं सौख्यकरं, सुखदं च भवति । शीतर्तौ अपि जनाः तत्र गच्छन्ति । नलगोण्डा-नगरं ९ क्रमाङ्कय राष्ट्रियराजमार्गे स्थितम् अस्ति । अयं राष्ट्रियराजमार्गः नलगोण्डा-नगरं हैदराबाद-नगरेण, वारङ्गल-नगरेण, विजयवाडा-नगरेण च सञ्योजयति । तेलङ्गा-राज्यस्य सर्वकारेण पर्यटकानां सौकर्याय बसयानानि अपि प्रचालितानि सन्ति । अतः जनाः बसयानैः सरलतया नलगोण्डा-नगरं प्राप्यते । नलगोण्डा-नगरे एकं रेलस्थानकम् अस्ति । इदं रेलस्थानकं गुण्टूर्-सिकन्दराबाद-रेलमार्गे स्थितम् अस्ति । अस्य मार्गस्य महत्त्वपूर्णं रेलस्थानकम् अस्ति इदम् ।

नलगोण्डा-रेलस्थानकात् देहली-नगराय, मुम्बई-नगराय, कोलकाता-नगराय, बेङ्गळूरु-नगराय इत्यादिभ्यः भारतस्य प्रमुखनगरेभ्यः रेलयानानि प्राप्यन्ते । इदं रेलस्थानकं भारतस्य विभिन्ननगरैः सह सम्बद्धम् अस्ति । नलगोण्डा-नगरे विमानस्थानकं नास्ति । हैदराबाद-नगरस्य राजीवगान्धी-अन्ताराष्ट्रियविमानस्थानकं नलगोण्डा-नगरस्य समीपस्थं विमानस्थानकम् अस्ति । नलगोण्डा-नगरात् हैदराबाद-नगरं ११० किलोमीटरमिते दूरे स्थितम् अस्ति । भारतस्य, विदेशस्य च प्रमुखनगरेभ्यः राजीवगान्धी-अन्ताराष्ट्रियविमानस्थानकात् नियमितरूपेण वायुयानानि प्राप्यन्ते । हैदराबाद-नगरात् बसयानैः, भाटकयानैः वा नलगोण्डा-नगरं प्राप्यते । अनेन प्रकारेण भूमार्गेण, धूमशकटमार्गेण, वायुमार्गेण च नलगोण्डा-नगरं सम्बद्धम् अस्ति । अतः जनाः सरलतया नलगोण्डा-नगरस्य वीक्षणीयस्थलानि प्राप्तुं शक्नुवन्ति ।

"https://sa.wikipedia.org/w/index.php?title=सदस्यः:Kunapuli_Venkata_Sai_Sandeep&oldid=471655" इत्यस्माद् प्रतिप्राप्तम्