सदस्यः:Manish61293

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Jump to navigation Jump to search
Christ University Hosur road Bangalore 4820.JPG क्रैस्तविश्वविद्यालयस्य विकिप्रकल्पस्य भागभूतः अयं लेखः २०१४ फेब्रवरिपर्यन्तं निर्माणावस्थायां तिष्ठति । अस्मिन् अवधौ अस्य विषये चर्चितुं सम्भाषणपृष्ठस्य उपयोगः क्रियताम् ।

सुवर्णाधक्षस्य कर्तव्यानि[सम्पादयतु]

सुवर्णाध्यक्षः सुवर्णारजतकर्मान्तानामसंबान्धावेशनचतुः शालामेकद्वारामाक्षशालां कारयेत्॥ विशिखामध्ये सौवर्णिकं शिल्पवन्तमभिजातं प्रात्ययिकं च स्थापयेत्॥ जाम्बूनदं शातकुम्भं हाटकं वैणावं श्रृंगशुक्त्तिजं, जातरुपं रसविध्दमाकरोद्रतं च सुवर्णाम्॥ किञ्जल्कवणं मृदु स्निग्धमनादि भ्राजिष्णु च श्रेष्ठम्॥ रक्तपितकं मध्यमम्॥ रक्तमवरम्॥ श्रेष्ठानां पण्डु श्वेतं चाप्राप्तकम्॥[सम्पादयतु]

तघेनाप्रप्तकमं तच्चतुर्गुणोन सीसेन शोधयेत्॥ सीसान्वयेन भिघमानं शुष्कपटलैर्ध्मापयेतु॥ रुक्षत्वाद्भिघमानं तैलगोमये निषेचयेत्॥ आकरोद्गतं सिसान्वयेन भिघमानं पाकपत्त्राणि कृत्वा गण्डिकासु कुट्टयेत॥ कन्दलीवज्नकन्दकल्के वा निषेचयेत्॥ तुत्थोद्गतं गौडिकं चाक्रवालिकं च रुप्यम्॥ श्वेतं स्निग्धं मृदु च श्रेष्ठम्॥ विपर्यये स्फोटनं च दुष्टम्॥ तत्सीसचतुर्भागेन शोधयेत्॥[सम्पादयतु]

उद्गतचूलिकमच्छं भ्राजिष्णु दधिवर्णा च शुद्धम्॥शुद्धस्यैको हारिद्रस्य सुवर्णो वर्णकः॥ ततः शुल्बकाकण्युत्तरापसारिता आचतुःसीमान्तादिति षोडशवर्णाकः॥ सुवर्णा पूर्व निकष्य पश्र्वाद्वार्णिकां निकषयेत्॥ समरागलेखमनिम्नोन्नते देशे निकषितम्॥ परिमृदितं परिलीढं नखान्तराद्वा गैरिकेणावचुर्णितमुपधिं विधात्॥ जातिहिङ्गुलकेन पुष्पकासीसेन वा गोमूत्रभावितेन दिग्धेनाग्रहस्तेन संस्पृष्टं सुवर्ण श्वेतीभवति॥ सकेसरस्निग्धो मृदुर्भ्राजिष्णुश्र्व निकषरागः श्रेष्ठः॥कालिड्गकस्तापि पषाणो वा मुद्गवर्णो निकषः श्रेष्ठः॥ समरागी विक्रयहितः॥ हस्तिच्छविकः सहरितः प्रतिरागी विक्रयहितः॥[सम्पादयतु]

स्थिरः परुषो विषमवर्णश्र्वाप्रतिरागि क्रयहितः॥ भेदश्र्विक्कणः समवर्णः श्र्लाक्ष्णो मृदुर्भ्राजिष्णुश्र्व श्रेष्ठः॥ तापे बहिरन्तरश्र्व समः किञ्जल्कवर्णः कुरण्डकपुष्पवर्णो वा श्रेष्ठः॥ श्यावो नीलश्र्वाप्राप्तकः॥ तुलाप्रतिमानं पौतवाध्याक्षे वाक्ष्यामः॥ तेनोपदेशेन रुप्यसुवर्ण दधादाददीत च॥ आक्षशालामनायुक्तो नोपगच्छेत्॥ अभिगच्छन्नुच्छेधः॥ आयुक्तो वा सरुप्यसुवर्णस्तेनैव जियेत॥ विचितवस्त्रहस्तगुह्याः काञ्चनपृषतत्वष्ट्टतपनीयकारवो ध्मायकचरकपांसुधावकाः प्रविशेयुः निष्कसेयुश्र्व॥ सर्व चैषामुपकरणमनिष्ठिताश्र्व प्रयोगास्तत्रैवावतिष्ठेरन॥[सम्पादयतु]

======गृहितं सुवर्ण धुतं च प्रयोगं करणमध्ये दधात्॥ सायं प्रातश्र्व लाक्षितं कर्तृकारयितृमुद्राभ्यां निदध्यात्॥ क्षेपणो गुणः क्षुद्रकमिति कर्माणि॥ क्षेपणः काचार्पणादीनि॥ गुणः सूत्रवानादीनि॥ धनं सुषिरं पृषतादियुक्तं क्षुद्रकमिति॥ अर्पयेत्काचकर्मणः पञ्चभागं कञ्चनं दशभागं कटुमानम्॥ तम्रपादयुक्तं रुप्यं रुप्यपादयुक्तं वा सुवर्ण संस्कृतं तस्माद्रक्षेत्॥ पृषतकाचकर्मणस्त्रयो हि भागाः परिभाण्डं द्वौ वास्तुकम्॥ चत्वारो वा वास्तुकं त्रयः परिभाण्डंम्॥ त्वष्ट्टकर्मणः शुल्बभाण्डं समसुवर्णोन संंयुहयेत्॥ रुप्यभाण्डं धनं धनसुषिरं वा सुवर्णार्धेनावलेपयेत्॥ चतुर्भागंसुवर्ण वा वालुकाहिंगुलकस्य रसेन चुर्णोन वा वासयेत्॥ तपनीयं ज्येष्ठं सुवर्ण सुरागं समसीसातिक्रान्तं पाकपत्त्रपक्वं सैन्धविकयोज्ज्वालितं नीलपीतश्वेतहरितशुकपोतवर्णानां प्रकृतिर्भवति॥ तीक्ष्णं चास्य मयूरग्रीवाभं श्वेतभङ्गं चिमिचिमायितं पीतचूर्णितं काकणिकः सुवर्णरागः॥ तारमुपशुद्धं वास्थितुत्थे चतुः समसीसे चतुः शुष्कतुत्थे चतुः कपाले त्रिर्गोमये द्विरेवं सप्तदशतुत्थातिक्रान्तिं सैन्धविकयोज्ज्वालितम्॥ एतस्मात्काकण्युत्तरापसारिता, आद्विमाषादिति सुवर्णो देयम् पश्र्वाद्रागयोगः, श्वेततारं भवति॥ त्रयोंङ्शास्तपनीयस्य द्वात्रिंशद्भागश्वेततारमोओर्छितं तत् श्वेतलोहितकं भवति॥त ताम्रं पीतकं करोति॥ तपनीयमुज्ज्वाल्य रागत्रिभागं दधात्॥======

=======पितरागं भावति॥ श्वेततारभागौ द्वावेकस्तपनीयस्य मुद्गवर्ण करोति॥ कालायसस्यार्धभागाभ्यक्तं कृष्णं भवति॥ प्रतिलेपिना रसेन द्विगुणाभ्यक्तं तपनीयं शुकपत्त्त्रवर्ण भवति॥ तस्यारम्भे रागविशेषेषु प्रतिवर्णिकां गृह्योयात्॥ तीक्ष्णताम्रसंस्कारं च बुद्धयेत॥ तस्माद्वज्रमणि-मुक्ताप्रवालरुपाणामपनेयिमानं च रुप्यसुवर्णभाण्डबन्धप्रमा-णानि चेति॥ समरागं समद्वन्द्वमशक्तं मृषतं स्थिरं। सुविमृष्टमसंवितं विभक्तं धारणे सुखम्॥ अभिनीतं प्रभायुक्तं संस्थानमधुरं समम्। मनोनेत्राभिरामं च तपनीयगुणाः स्मृताः॥=======[१]

  1. कौटलीय अर्थशास्त्र १८६ - १९७
"https://sa.wikipedia.org/w/index.php?title=सदस्यः:Manish61293&oldid=288464" इत्यस्माद् पुनः प्राप्तिः