सदस्यः:Mdeekshaarya/भारतीयसंस्कृतिः38
प्रास्ताविकम्
[सम्पादयतु]पुरातनः इतिहासः, अनन्या भौगोलिकरचना, वैविध्यमयाः जनसमूहाः, धर्माः, विभिन्नाः सम्प्रदायाः, अनेके उत्सवाः, नैकानि आचरणानि, प्राचीनपरम्परा, परितः विद्यमानानां देशानां प्रभावः – एवं विभिन्नाः विषयाः भारतीयसंस्कृतिम् अरचयन् । "एन्साएइक्लापीडिया आफ सोश्यमलसान्सौस" एतन्नामाख्ये सामाजिकविज्ञाने संस्कृतिः शब्दास्य व्याख्या मानवशास्त्त्री "मोलेनोवस्की" महोदय एवं प्रकारेण करोति ।
संस्कृतिप्रकार:
संस्कृते: द्वौ प्रकारौ स्त: १) भौतिकसंस्कृतिः २) अभौतिकसंस्कृतिः
लोकसंस्कृतिः अथाव देशीयपरम्परा:
हिन्दुधर्मस्य, बौद्धधर्मस्य, जैनधर्मस्य, सिख्-धर्मस्य जन्मभूमिः भारतम् । समग्रे विश्वे एव अब्रहां धर्माणाम् अनन्तरस्य स्थानम् अस्ति भारतीयधर्माणाम् ।भारते बहुभ्यः शतकेभ्यः अविभक्तकुटुम्बपद्धतिः आसीत् । भारतीयसंस्कृतिः व्यवस्थितां सामाजिकश्रेणीव्यवस्थाम् अनुसरति इति वदति यूजिन्मेकरः ।भारतीयानां वेषभूषणम् अत्यन्तं विशिष्टम् अस्ति जगति एव । जगति अन्यत्र कुत्रापि एतावन्ति वेषभूषणानि न सन्ति एव । दक्षिणभारतीयानां वेषं भिन्नम्, उत्तरभारतीयानां वेषं भिन्नम् ।
वनवासिसंस्कृतिक परम्परा
संसदः सदनद्वयमस्ति । अत्र २८ राज्यानि, सप्तकेन्द्रशासितप्रदेशाः च सन्ति । एतत् आर्थिकपुरोगामिपञ्चराष्ट्रेषु अयमपि अनयतमः देशः । अयं देशः बहुभाषीयः,विविधधर्मी च अस्ति । अत्र विविधाः वन्यजीविनः वसन्ति ।भारतस्य इतिहासः आधुनिकमानवस्य (होमो-सेपियन्स्) पुरातत्त्वावशेषकालतः प्रायः ३४००० वर्षेभ्यः आरब्धः । भारतस्य इतिहासे सम्पूर्णभरतखण्डस्य तन्नाम इदानीन्तनभारतस्य पाकिस्तानस्य, बाङ्ग्लादेशस्य, श्रीलङ्कादेशस्य, नेपालदेशस्य, भूतानदेशस्य च इतिहासः अन्तर्भूतः ।
उत्सवाः
विविधानां धर्माणाम् आश्रयभूमिः भारतम् । अतः एव अत्रत्या संस्कृतिः अपि वैविध्यमयी एव । तस्मात् कारणात् एव भारते विभिन्नाः उत्सवाः आचर्यन्ते । तादृशाः उत्सवाः चतुर्धा विभज्यन्ते । धार्मिकपर्वाणि, प्रादेशिकपर्वाणि, राष्ट्रियपर्वाणि, जयन्त्युत्सवाः च इति ।
स्वातन्त्र्यदिनं, गणतन्त्रदिनम् इत्यादीनि राष्ट्रियपर्वाणि । दीपावली, नवरात्रं, गणेशचतुर्थी, क्रिस्मस्, गुड्-फ्रैडे, रम्जान्, ईद्-उल-फितर् इत्यादीनि धार्मिकपर्वाणि, बुद्धजयन्ती, महावीरजयन्ती, बसवजयन्ती, गुरुनानकजयन्ती, दत्तजयन्ती इत्यादयः जयन्त्युत्सवाः । ओणम् (केरले आचर्यते), द्रीपर्व (अरुणाचलप्रदेशस्य जैरोखातप्रदेशे निवसन्तः अपाटानिस्-जनाः आचरन्ति), बोणम् (तेलङ्गाणप्रदेशे आचर्यते),राजप्रभा (ओरिस्साराज्ये आचर्यते) इत्यादीनि प्रादेशिकपर्वाणि ।
प्रदर्शककलाः
सङ्गीतम्
भारते बहुविधानि सङ्गीतप्रकाराणि सन्ति । जानपदसङ्गीतं, धार्मिकसङ्गीतं, सुगमसङ्गीतं, शास्त्रीयसङ्गीतं, पाप्-सङ्गीतम् इत्यादीनि । सामवेदः भारतीयपरम्परयाः प्राचीनतमं सङ्गीतम् । श्रौतयज्ञादिषु सामवेदस्य मन्त्राः सङ्गीतक्रमेण गीयन्ते । भारतस्य शास्त्रीयसङ्गीतस्य उपरि हिन्दुग्रन्थानां प्रभावः महान् अस्ति । शास्त्रीयसङ्गीतं कर्नाटिक् तथा हिन्दुस्तानी इति द्विधा विभक्तम् अस्ति । भारतीयसङ्गीतस्य सहस्रशः वर्षाणाम् इतिहासः अस्ति । दासश्रेष्ठः पुरन्दरदासः कर्नाटिकसङ्गीतस्य पितामहः इति उच्यते । पुरन्दरदासेन “पुरन्दरविठल” इति अङ्कितनाम्ना ४,७५,००० कीर्तनानि रचितानि सन्ति इति विश्वासः । किन्तु इदानीं वयं केवलं १००० कीर्तनानि केवलं प्राप्तवन्तः स्मः ।
नृत्यम्
भारतीये नृत्यप्रकारे अपि जानपदं, शास्त्रीयं चेति विधद्वयम् अस्ति । पञ्जाबस्य भाङ्ग्रा, अस्सामस्य बिहु, जार्खण्डस्य तथा ओरिस्सायाः छौ, राजस्थानस्य घूमर्, गुजरातस्य दाण्डिया, गर्बा च, कर्णाटकस्य यक्षगानं, महाराष्ट्रस्य लावणी, गोवायाः देखनी इत्येतानिप्रसिद्धानि जानपदनृत्यप्रकारकाणि ।
निरूपणतन्त्रयुक्तान्, पौराणिकांशयुक्तान् च भारतस्य अष्टविधान् नृत्यप्रभेदान् “राष्ट्रिय-सङ्गीत-नृत्य-नाटक-अकादमी” शास्त्रीयनृत्यत्वेन परिगणितवती अस्ति । ते च प्रभेदाः – तमिळुनाडुराज्यस्य भरतनाट्यम्, उत्तरप्रदेशस्य कथक्, केरळस्य कथाकेळी, मोहिनीआट्टं च, आन्ध्रप्रदेशस्य कूचुपुडि, मणिपुरस्य मणिपुरि, ओडिशायाः ओडिस्सि, अस्सामराज्यस्य सात्रिया च ।
विश्वस्य अत्यन्तं पुरातनयुद्धकला अस्ति कलारियप्पट्टु अथवा कलारि । “मल्लपुराणम्” इति कृतौ तस्याः युद्धकलायाः विषयः पठ्यरूपेण संरक्षितः अस्ति । बौद्धधर्मः यथा भारततः चीनादेशं प्रति प्रसृतः तथैव कलारियुद्धकला अपि भारततः चीनादेशं प्रति गत्वा कालान्तरे सः नृत्यप्रभेदः “कुङ्ग्-पू” इति युद्धकलारूपेण विश्वप्रसिद्धः सञ्जातः । “गट्क”, “पेहल्वानि”, मल्लयुद्धम्” इत्यादीनि अनन्तरकाले उद्भूताः युद्धकलाः । एताः विहाय अपि बह्व्यः सुप्रसिद्धाः युद्धकलाः सन्ति ।