सामग्री पर जाएँ

सदस्यः:Mohapatra Monalisa/प्रयोगपृष्ठम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

कोविड 19 कोरोना संक्रमण रोग: अयं रोग: सम्पूर्ण विश्वे जनान् रोगी कृतवान। इदानीम् अपि अयं रोग: पूर्णबलेन मानवान् पीडयन्नस्ति । एष: संक्रमण रोग: चीनदेशस्य वुहान नगरात् सम्पूर्ण विश्वस्मिन् स्वस्य प्रभावं दर्शितवान् । अयं रोग: केवलं मानवान् शारीरिक स्वास्थ्यं एव न मानसिक स्वास्थ्यं अपि असय्यक् जातं । मानवानां व्यापार निरूद्ध: भारते एव न सम्पूर्णविश्वे आर्थिक हानि: जात: अनेन जना: रोजगारहीना: अभवन् । 31लक्ष जना: अनेन संक्रमणेन मृता: । अस्य मूलकारणम् अस्ति यत् मानवा: प्रकृते: बहु शोषणम् कृतवन्त: ,पशुन् खादितवन्त: अयं रोग: पश्यरत् मानवं प्रति आगत: ।

करोनाभिधः विषाणुः जगत् एव कम्पयन् अस्ति चीनदेशे तेन रुद्रताण्डवनृत्यमेव कृतम्ची नदेशः भारतस्य प्रतिवेशी भारतचीनयोः सीमाप्रदेशः ३४८८ किलोमीटरमितः एवं स्थिते अपि तस्य रोगस्य प्रसारः भारते अत्यल्पप्रमाणेन एव दृश्यते एतस्य कारणं भारतेन ऊढा जागरूकता या सर्वेषां प्रशंसापात्रतां गच्छन्ती अस्ति विद्यालयानां विरामः महाकार्यक्रमाणां निरसनं सभासम्मेलनादीनां व्याक्षेपः यत्र महता प्रमाणेन जनाः मिलेयुः तादृशानाम् आयोजने निर्बन्धः इत्यादीनां कारणतः जनजीवनं किञ्चित्प्रमाणेन बाधाग्रस्तं जातम् इति तु सत्यमेव एते सर्वेपूर्वजागरूकताकारणतः अवलम्बिताः निर्णयाः जनैः तु भेतव्यं नास्ति इति

राष्ट्रनायकाः पौनःपुन्येन स्मारयन्तः सन्ति यदा रोगप्रसारः आरब्धः तदा बहवः देशाः विमानयानव्यवस्थां स्थगितवन्तः तस्मात् बहुषु देशेषु निवसन्तः भारतीयाः कष्टग्रस्ताः अभवन् तदा तादृशान् आनेतुं भारतेन विमानादिव्यवस्था कृता तादृशेषु रोगाणुसत्तासम्भावना आसीत् एव तथापि भारतेन धैर्यप्रवृत्तिं प्रदर्श्य तादृशाः आनीताः इरानदेशः कोरोनारोगाणुकारणतः दिग्बन्धनग्रस्तः अस्ति तत्रत्याः भारतीयाः भारतम् आगन्तुम् अशक्नुवन्तः विमानस्थानके परितपन्ति तेभ्यः परीक्षणचिकित्सादिसाहाय्यदाने असामर्थ्यं प्रदर्शितम् अस्ति इरानदेशेन अतः भारतेन एतावता एव तत्र रोगाणुपरीक्षणव्यवस्था परिकल्पनाय दक्षाः प्रेषिताः सन्ति असहायकताम् अनुभवतां भारतीयानाम् आनयनाय योजना प्रचलति अपि रोगप्रसारबहुलात् प्रदेशात् जनानाम् आनयनम् अपायस्य स्वागतीकरणमिव इति तु सत्यम् किन्तु विशेषप्रसङ्गेषु अपायस्य सम्मुखीकरणे धैर्यं प्रदर्शनीयं भवति एव भारतेन तदेव क्रियमाणम् अस्ति यत्र विदेशीयाः आधिक्येन गमनागमनं कुर्वन्ति यत्र जनसङ्ख्याधिक्यं भवति तत्र एतादृशानां रोगाणां प्रवेशस्य प्रसारस्य निग्रहणं भवति महते क्लेशाय तथापि भारतेन तु समुचितान्नि ग्रहोपायान् अनुतिष्ठता अपायबहुलां साहसप्रवृत्तिं प्रदर्शयता जगतः अवधानम् आकृष्टम्अ स्ति.