सदस्यः:Mokashi.aradhana/प्रयोगपृष्ठम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

समाचार पत्र[सम्पादयतु]

सम्प्रति अनेकानि प्रसारमाध्यमानि सन्ति। किन्तु समाचारपत्राणां महत्त्वं सर्वे जानन्ति। यतः देश विदेशस्य वार्ता: वयं समाचारपत्रेभ्य: जानीभः। जनानां दिवसस्य आरम्भः समाचारपत्रेण एव भवति। कतिपय जनास्तु समाचार पत्राणाम् अधीनाः जाता: यत् ते समाचारपत्रम् आस्तरणे एव इच्छन्ति। बालकाः अपि समाचारपत्रं विना दुग्धप्राशनं न कुर्वन्ति। अद्य खलु नभोवाणि, दूरचित्रवाणि एतादृशानि प्रसारमाध्यमानि। समाचारान् प्रसारयन्ति समाचारपत्रपठनेन जनाः संतुष्टाः भवन्ति। अनेन वयं विश्वस्यापि जगतः समाचारान् ज्ञातुं शक्नुमः। अद्यत्वे कोऽपि समाचारः क्षणेनैव प्रकाशितो भवति। मनोरंजनस्य शिक्षाप्रसारस्य विज्ञापनस्य च क्षेत्र समाचारपत्र महत्वं को न जानाति। निर्वाचनसमये नेतृणां भाषणमपि समाचारपत्रं प्रकाशयति तथा जनजागरणम् अपि करोति। नागरिकाणां प्रश्नानां समाधानमपि समाचारपत्रं करोति। यदा क्वचित् संकटम् आपतति तदा समाचारपत्रं सहायकं भवति। देशः दुर्भिक्षपीड़ितो भूकम्पग्रस्तो वा जायते तदा समाचारपत्राणि सहायतायै लोकान् प्रेरयन्ति। अनेकानां दातृणां नामावलीं प्रकाशयन्ति, अन्यान् प्रोत्साहयन्ति च। अत: संकटकाले समाचारपत्राणि एव जनानां सहायकानि भवन्ति। समाचारपत्रस्य वार्तादृशः विदेशमपि गत्वा वार्ता: प्रेषयन्ति। सम्प्रति समाचारपत्र प्रेषणक्षेत्रे महत् परिवर्तनं जातम्। मुद्रण क्षेत्रे अपि परिवर्तनम् अभवत्।

भारतदेशे सर्वासु प्रांतीयभाषासु समाचारपत्राणि प्रकाशितानि भवन्ति। किन्तु ‘नवभारत टाइम्स', 'हिंदुस्तान टाइम्स', 'टाइम्स ऑफ इंडिया' एतानि समाचारपत्राणि विख्यातानि सन्ति। यानि समाचारपत्राणि देशम् उन्नतिपथं नयन्ति तान्येव स्तुत्यानि यत: समाचारपत्रं देशस्य दर्पणमस्ति।

उल्लेख[सम्पादयतु]

https://en.wikipedia.org/wiki/Newspaper

newspapers