सदस्यः:Monalisa Bhuyan 1995/प्रयोगपृष्ठम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

सांख्यदर्शने सर्ग प्रक्रिया' भारतीयदर्शनेषु आस्तिक दर्शनं अन्यतमम्। षड् आस्तिक दर्शनेषु सांख्य दर्शनं अन्यतमम्। सांख्यशब्दः “सम्” उपसर्गपूर्वक- ख्याञ (चक्षिङ् ख्याञ) धातोः “अण्” प्रत्ययात् निष्पन्नं भवति (सम्+ख्याञ्+ अण୍= सांख्यम्)। सांख्यशब्दस्य अर्थस्तावत् ‘सम्यक ज्ञानम्’ अर्थात सम्यक् विचारः,प्रकृति- पुरुषविवेको वा । महर्षिकपिलस्य सांख्यदर्शनं भारतीयदर्शनेषु प्राचीनतम सर्वाधिकमहत्वपूर्णं चेति चकास्ति ।सांख्यदर्शनोपरि ईश्वरकृष्णेन रचिता सांख्यकारिकाम् आधारीकृत्य सर्वतन्त्रस्वतन्त्रः श्रीवाचस्पति मिश्रः सांख्यतत्वकौमुदीनामकं टीकाग्रन्थं रचितवान्।महर्षिकपिलप्रणीते सांख्यदर्शने प्रकृतिपुरूषयोः संयोग एव सर्गस्य कारणत्वेन प्रतिपादितः।

                तत्र प्रकृतिर्नाम यत् जनयति तत् प्रकृतिः। सा मूलप्रकृतिः।व्रह्माव्यक्त- वहुधानक-माया-प्रधानाख्याभिरस्वभावतः अचेतना। प्रकृतौ अहेतुत्वम् नित्यत्वम् व्यापित्वम् निष्क्रियत्वम् एकत्वम् अनाश्रितत्वम् अलिङ्गत्वम् निरवयवत्वम् स्वतन्त्रत्वं चेति स्वभावाः प्रकृतिः। सत्वगुणः प्रीत्यात्मको रजोगुणः दुःखात्मकः तमोगुणः विषादात्मको भवति । सा प्रकृतिनित्या, अव्यया अनादिश्च।
                 शरीरेन्द्रियमनः प्रभृतिभ्यः पृथगभूत सुखदुःखादिभाक् अथ चेन्द्रियागोचरश्च सांख्यमतीयः पुरुषः। तस्मिन् त्रिगुणत्वं विवेकित्वं अविषयत्वं असाधारणत्वं चेतनत्वम् अप्रसवधर्मत्वञ्चेति स्वभावाः सन्ति।

संघातपरार्थत्वात्,त्रिगुणादिविपर्ययात्,अधिष्ठानात्,भक्तृभावात्,कैवल्यार्थं प्रवृत्तेश्च पुरुषस्य सिद्धिर्भवति ।पुरुषस्य स्वररुपमपि कथितमस्ति यत् पुरुषः साक्षी केवली मध्यस्थः , द्रष्टा अकर्ता भवतिति । अनयोः प्रकृतिपुरुषयोः यदा संयोग भवति तदा सर्गप्रक्रिया प्रचलति।ईश्वरकृष्णेन निगदितम् यत् –

               “पुरुषस्य दर्शनार्थ कैवल्यार्थ तथा प्रधानस्य 
               पंग्वन्धवदुभयोरपि संयोगस्तत्कृत्य सर्गः।” सां.का.22

प्रकृतिपुरुषयोः संयोगात् सृष्टिर्भवति।प्रकृतिस्वभावतः अचेतना। पुरुषश्चेतनः प्रकृतिः त्रिगुणात्मिका क्रियाशील च। पुरुषः उदासीनः अकर्ता च । प्रकृतिः एका। पुरुषाः वहबः।परन्तु उभयोः संयोगात् अचेतन प्रकृतिः स चेतना इव भवति ।अनादिकालात् अज्ञानात् वद्घ इव पुरुषः स्वस्य कैवल्यार्थ प्रकृतिश्च आत्मानं दर्शयितुं परस्परसंयोगद्वारा सृष्टिं रचयति। सृष्टिकाले प्रकृतिगुणाः पुरुषे पुरुषगुणाश्च प्रकृतौन्यस्ता भवन्ति। यथा पङ्ग्वन्धयोः मेलनात् गमनक्रिया संभवति। एवमेव प्रकृतिपुरुषयोः संयोगात् सृष्टिर्भवति। प्रथमतः प्रकृतेः सकाशात् महत्तत्वस्य सृष्टिर्भवति। महतत्वं नाम बुद्धितत्वम् ।

   तस्मात् अभिमानात्मकोऽहंकारः जायते । अहंकारो गुणभेदेन वैकृततैजसभूतादिरूपेण त्रिधा विभक्तः।वैकृताहङ्कारात् एकादशेन्द्रियाणिभूताद्यहंकारात् पञ्च तन्मात्राणि जायन्ते। पञ्चत तन्मात्रेभ्यः पञ्च महाभूतानामुत्पत्तिभवति तैजसाहंकारस्य उभयत्र कारणत्वमस्ति। 
एवं सांख्योक्ता सर्गप्रक्रिया वर्णिता।