सदस्यः:Mridhula.ravi/प्रयोगपृष्ठम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

प्राचीनविश्र्वविद्यालया:

भारतदेशो शिक्षाप्रत्त्रिया एवं गुरुकुलद्वारा विकसिता । वसिष्ठ:, कण्व:, भरद्वाज:, परशुराम:, शोनक:, सान्दीपनि: जाबालि:, इत्यादीनां महर्षीणां गुरुकुलानि तदा प्रसिध्दा: आसन् ।

वसिष्ठानां गुरुकुलम् अयोध्यानगरस्य उत्तरभागे हिमालयपर्वतप्रदेशे आसीत् । वसिष्ठ: इति महर्षि: इक्ष्वाकुवंशस्य कुलगुरु: आसीत् ।

कण्वाश्र्म: मालिनीनदीतीरे हिमालयस्य समीपे आसित् । तत्र वेदवेदाजङ्गानि दर्शनानि इत्यादीनां शास्त्राणाम् अध्ययनं प्रचलति स्म । शकुन्तला कण्वमहर्षिणा पुत्रीत्वेन परिगृहीता आसीत् । राजा दुष्यन्त: यदा एतेषाम् आश्रमं प्रतिष्ट: तत्रत्यां व्यवस्थां संवीक्ष्य आश्र्चर्यचकित: जात: । यत: तत्र आश्रमपरिसरे त्रॄग्वे दयजुर्वेदसामवेदानाम् पाठा: प्रचलन्ति स्म ।

व्यासमहर्षे: आश्रम: हस्तिनापुरात् गङ्गानदीत: च अग्रे हिमालयस्य निकटे आसीत् ।

गङ्गायमुनयो: तीरप्रदेशे भरद्वाजमुने: आश्रम: आसीत् । द्रोणद्रुपदौ एतेषां शिष्यौ आस्ताम् । आयुर्वेदशास्त्रस्य विद्वान् अग्निवेशोऽपि अस्मिन् गुरुकुले एव शिक्षां प्राप्तवान् । तदा गुरुकुले वेदवेदाग्ङै: सह आयुर्वेदाद्युपवेदानामपि अध्यनम् आसीत् । आचार्य भरद्वाजोऽपि एषु शास्त्रेषु पाण्डित्यं प्राप्तवानासीत् । अष्टादशविद्यानाम् अध्ययनं भवति स्म ।

तानि च -

               अङ्गानि वेदाश्र्चत्वारो मीमांसा न्यायविस्तर:
               पुराणं धर्मशास्त्रं च विद्याह्येताश्र्चतुर्दश: ।
               आयुर्वेदो धनुर्वेदोगन्धर्वश्र्चेति ते त्रय:
               अर्थशास्त्रं चतुर्थं तु विद्याह्यष्टदशैव हि ॥

परशुरामाश्रम: महेन्द्रपर्वतप्रदेशे आसीत् । भीष्मकर्णौ च तस्य गुरुकुले एव अधीतवन्तौ ।

शौनकानां गुरुकुलं नैमिषारण्ये स्थितमासीत् । तस्मिन् काले एतत् गुरुकुलम् अत्यन्तं महत् विद्याकेन्द्रमासीत् । अत्रापि दश सहर्साधिक छात्रा: अध्ययनं कुर्वन्ति स्म ।

सान्दीपने: आश्रम: उज्जयन्या: समीपे अवर्तत । क्रुष्णसुदामौ अत्रैव विद्याभ्यासं कृतवन्तौ । एतेन कारणेनैव एतत् गुरुकुलम् एतिहासिकहत्त्वं प्राप्तवदस्ति ।

एषु गुरुकुलेषु अध्यापनार्थं ये आचार्या: अध्यापका: च भवन्ति तेषां जीवनिर्वहणार्थं निश्र्चितरूपेण भूभागा: अपि स्थाप्यन्ते स्म । ते भूभागा: अपि करमुत्त्का: आसन् ।

छात्रा: विशेषरुणां संरक्षणे एव भवन्ति स्म । गुरुणां सम्मुखे एव अध्ययनं कुर्वन्ति इति कारणत: तान् अन्तेवासिन: इत्येव आह्वयन्ति "अन्ते समीपे अषितुं शीलं यस्य स: अन्तेवासी" इति ।