सदस्यः:Muralivenkatakrishnan/प्रयोगपृष्ठम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

त्रिशिरःपुरी(तिरुचिरापल्ली/तिरुची)-उच्चिपिल्लैयार्-कोविल्[सम्पादयतु]

मलैकोट्टै-विनायमन्दिरम्

उच्चिपिल्लैयार्-कोविल् अस्ति दक्षिणभारतीय-तमिल्नाडु-राज्यान्तर्गते तिरुची-नगरे विद्यमानं गिरिस्थं विनायकमन्दिरम् | "उच्चिपिल्लैयार्" इत्युक्ते उच्चस्थः विनायकः यतः एतत् मन्दिरम् उन्न्तस्थाने अर्थात् गिरौ अस्ति | (अस्य गिरेः नाम मलैकोट्टै(गिरिदुर्गम्) इति वदन्ति |) मन्दिरस्य औन्नत्यम् अस्ति २७३पादमितम् | विनायकसन्निधिं प्राप्तुं ४३७ सोपानानि आरोढव्यानि |