सदस्यः:NKB96/प्रयोगपृष्ठम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
                    ४४ विशेषालङ्कारः

विशेषः रव्यातमाधारम् विनाप्याधेयवर्णनम्। गतेSपि सूर्ये दीपस्थास्तमश्छिन्दन्ति तत्कराः॥९९॥ यथा वा-

     कल्पमनम्भसि कमले कुवलये तानि कनकमतिकायाम्।
     सा च सुकुमारसुभगेत्युत्पातपरम्परा केयम्॥

अत्राद्ये सूर्यस्य प्रसिद्धाधारस्याभावेSपि तत्कराणामन्यत्रावस्थितिरुक्ता। द्वितीये त्वम्भसः प्रसिद्धाधारस्याभावेSपि कमल कुवलययोरन्यत्रावस्थितिरुक्ता। कचित्प्रसिद्धाधाररहितानामाधारान्तरनिर्देशम् विनैवाप्रलयमवस्थितेर्वर्णनम् द्य्श्यते। यथा वा (रुद्रटा)

     दिवमप्युपयातानामाकल्पगुणगणा येषाम्।
     रमयन्ति जगन्ति गिरः कथमिह कवयो न ते वन्द्याः॥

अत्र कवीनामभावेSपि तद्रिरामाधारान्तरनिर्देशम् विनैवाप्रलयमवस्थितिर्वर्णता॥६६॥

     विशेषः सोSपि यद्येकम् वस्त्वनेकत्र वर्प्यते।
     अन्तर्बहिः पुरः पक्ष्वात् सर्वदिक्ष्वपि सैव मे॥२००॥

यथा वा-

     हृदयान्नापयातोSसि दिक्षु सर्वासु द्य्श्यसे।
     वत्स राम! गतोSसीति सस्तापेनानुमीयसे॥२००॥
     किचिदारम्भतोSशक्यचस्त्वन्तर कृतिक्ष्व सः।
     त्वाम् पश्यता मया लब्धम् कल्पवृक्षनिरीक्षराम्॥२०२॥
यथा वा-
     स्फुरदद्धतरूपसुत्प्रतापज्वलनम् त्वाम् सृजतानवद्यविद्यम्।
     विधिना ससृजे नवो मनोभूर्भुवि सत्यम् सविता बृहस्पतिक्ष्व॥
     अत्राद्ये राजदर्शनारम्भेण कल्पवृक्षदर्शनरूपाशक्यवस्त्वन्रतरकृतिः।
     द्वितीये राजसृष्ट्चारम्भेण मनोभ्वादिसृष्टिरूपाSशक्यवन्तरकृतिः॥२०२॥