सदस्यः:NKB96/प्रयोगपृष्ठम्
दिखावट
४४ विशेषालङ्कारः
विशेषः रव्यातमाधारम् विनाप्याधेयवर्णनम्। गतेSपि सूर्ये दीपस्थास्तमश्छिन्दन्ति तत्कराः॥९९॥ यथा वा-
कल्पमनम्भसि कमले कुवलये तानि कनकमतिकायाम्।
सा च सुकुमारसुभगेत्युत्पातपरम्परा केयम्॥
अत्राद्ये सूर्यस्य प्रसिद्धाधारस्याभावेSपि तत्कराणामन्यत्रावस्थितिरुक्ता। द्वितीये त्वम्भसः प्रसिद्धाधारस्याभावेSपि कमल कुवलययोरन्यत्रावस्थितिरुक्ता। कचित्प्रसिद्धाधाररहितानामाधारान्तरनिर्देशम् विनैवाप्रलयमवस्थितेर्वर्णनम् द्य्श्यते। यथा वा (रुद्रटा)
दिवमप्युपयातानामाकल्पगुणगणा येषाम्।
रमयन्ति जगन्ति गिरः कथमिह कवयो न ते वन्द्याः॥
अत्र कवीनामभावेSपि तद्रिरामाधारान्तरनिर्देशम् विनैवाप्रलयमवस्थितिर्वर्णता॥६६॥
विशेषः सोSपि यद्येकम् वस्त्वनेकत्र वर्प्यते।
अन्तर्बहिः पुरः पक्ष्वात् सर्वदिक्ष्वपि सैव मे॥२००॥
यथा वा-
हृदयान्नापयातोSसि दिक्षु सर्वासु द्य्श्यसे।
वत्स राम! गतोSसीति सस्तापेनानुमीयसे॥२००॥
किचिदारम्भतोSशक्यचस्त्वन्तर कृतिक्ष्व सः।
त्वाम् पश्यता मया लब्धम् कल्पवृक्षनिरीक्षराम्॥२०२॥
यथा वा-
स्फुरदद्धतरूपसुत्प्रतापज्वलनम् त्वाम् सृजतानवद्यविद्यम्।
विधिना ससृजे नवो मनोभूर्भुवि सत्यम् सविता बृहस्पतिक्ष्व॥
अत्राद्ये राजदर्शनारम्भेण कल्पवृक्षदर्शनरूपाशक्यवस्त्वन्रतरकृतिः।
द्वितीये राजसृष्ट्चारम्भेण मनोभ्वादिसृष्टिरूपाSशक्यवन्तरकृतिः॥२०२॥