सदस्यः:Nandan1657/सामाजिकसंरचनातन्त्रम् 25

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

भारतदेशे विविधाः भेदा अपि वर्तन्ते । ते भेदाः सांस्कृतिकभेदाः सन्ति । भारतदेशे विविध समाजस्य लोकाः जनाः निवसन्ति । भारतदेशस्य जनसङ्‌ख्या ११० कोटी च भाषाः शताधिकाः । तर्हि तेषां विविधनियमानां ज्ञानम् अस्मिन् प्रकरणे प्राप्स्यामः।

भारतदेशस्य सामाजिकार्थिकसांस्कृतिकब्भेदाः

  1. सामाजिकभेदः
  2. आर्थिकभेदः

सामाजिकभेदः[सम्पादयतु]

भारतदेशे विविधसमाजस्य लोकाः निवसन्ति । तेषु अपि सामाजिकभेदाः अस्ति । सम्पूर्णजगति भारतस्य रचनातंत्रं ज्ञात्यनुसारं प्रचलति । भारतदेशे त्रिसहस्त्रात् अपि अधिका ज्ञातयस्सन्ति । भारत देशस्य ज्ञातिव्यवस्थायाः विविधविभागेषु विभजनं वर्तते । विवाहनियमेष्वपि भिन्नता दृश्यते । जातिव्यस्थायां सह गोत्रविवाहे सप्रवरविवाहे च अपरोधः आसीत् । कतिपयजातिषु देवरेण सह विवाहः मानितः आसीत् । कतिपयजातिषु देवरेण सह विवाहः प्रतिषेधः अस्ति । तदवत् जात्यनुसारं व्यसायेष्वपि भिन्नता दृश्यते तदनुसारं भारतीय समाजव्यवस्थायाः जातिव्यवस्थानुसारं विशेष स्थानं वर्तते । जात्यनुसारं व्यवसाये एवं भाषायाम् अपि भिन्नता दृश्यते । ज्ञात्यनुसारं विवाहनियमेष्वपि विविधता दृष्यते यथा आयुसीमा पुनर्विवाहः विवाहक्षेत्रम् इत्यादिषु । अनेन प्रकारेण भारतीय समाजव्यवस्था जातिव्यवस्थानुसारं प्रचलति ।

आर्थिकभेदः[सम्पादयतु]

प्रत्येकसमाजव्यवस्थायां सामाजिकव्यवस्थया सह आर्थिकव्यवस्थायाः महत्त्वम् अधिकं वर्तते । समाजस्य अर्थव्यवस्थानुसारं भारत देशस्य विकासः वा प्रगतिर्भवति । प्रत्येकसमाजस्य एका वर्गव्यवस्थास्ति । व्यक्तेः स्थानं तस्य जाति, स्थिति तस्य कुशलता निश्चियति । भारतदेशे जात्यानुसारं व्यक्त्तेः स्थानं निश्चियते । प्रत्येकसमाजे मूल्यः प्रचलति । मूल्यैः समाजस्य प्रस्थापितव्यवसायः उच्च वा निम्नः गण्यते । व्यवसायाय प्राप्त्यै मनुष्यः शिक्षणं प्राप्नोति । तर्हि कतिपयव्यवसायेषु शिक्षणस्य अवष्यकता न भवति।

सामाजिक कोटिक्रमः[सम्पादयतु]

समाजे ये वर्गाः सन्ति, तेषु उच्चनीचयोः भेदानुसारं कोटिक्रमः दृश्यते । यथा उच्चवर्गः, मध्यवर्गः, निम्नवर्गः इति ।

निश्चितलाभः[सम्पादयतु]

प्रत्येकवर्गः कोटिक्रमानुसारं निश्चितलाभं प्राप्नोति । उच्चवर्गस्य लोकाः स्वल्पं परिश्रमं कृत्वा अधिकां सुविधां प्राप्नुवन्ति । निम्नवर्गस्य लोकाः अधिकं परिश्रमं कृत्वा सुविधां प्राप्नुवन्ति।

जीवनशैली[सम्पादयतु]

प्रत्येकवर्गस्य एका जीवनशैली विध्यते । उच्चवर्गस्य मनुष्याः प्रासादे वसन्ति । निम्नवर्गस्य मानवानां समीपे निवासस्थानं अपि न वर्तते । अनया रीत्य उच्चवर्गस्य एवं निम्नवर्गस्य जीवनशैली पृथक् पृथक् वर्तते ।

मृदुव्यवस्था[सम्पादयतु]

वर्गानाम् एका लाक्षणिकता मृदुव्यवस्था अस्ति । सा ज्ञातिव्यवस्थया सदृशी पुरुषा वा चटिला नास्ति । वर्गव्यवस्था एका शोभनव्यवस्थास्ति ।कोपि मानवाः एकवर्गात् अन्यवर्गे स्वस्वकुशलतया प्रवेष्टुं शक्नुवन्ति ।

कुटुम्बसंस्था एवं धर्मः[सम्पादयतु]

कुटुम्बं मनुष्यसमाजस्य एका संस्थास्ति । यदा मानवस्य जन्म कुटुम्बे भवति, तदा मनुष्यः प्राणिस्वरूपे जन्म नयति । मनुष्यः सामाजिकप्राणीः भवितुं कुतुम्बसंस्थायाः भूमिका महत्वपूर्णा अस्ति । मानवस्य जन्मन आरभ्य मृत्युपर्यन्तं आवश्यकतानां पूर्तिः कुटुम्बेनैव भवति ।

धर्मः[सम्पादयतु]

हिंदुसमाजे पूर्वजपूजायाः महत्वं अधिकं अस्ति । हिंदु धर्मानुसारं मृतकाय अग्निसंस्कारो दीयते, तर्हि मुस्लिमसमाजे अग्निसंस्कारस्य निषेधः अस्ति । हिन्दुसमाजे देविपूजकादिजातिः भूत प्रेतादितंत्रविध्यायाम् अधिकं विश्वासं करोति ।