सदस्यः:Nandithashenoy/प्रयोगपृष्ठम्
दिखावट
प्राचीनसशिक्षणपध्दतिः
इदानीन्तनकालॆ शिखणमिति शब्दश्रवणॆ अयं वैषयः स्मृतिपथमायति। पुस्तकानं भारं वॊढुमशक्तः विद्यर्थी भारं वहन् अस्ति। तस्मै गृहपाठस्य भारः पुनश्चैकः। सद्य ऎव शामलां प्रविष्टः/प्रविष्टा पुत्रः/पुत्री वा आङ्ग्लभाषायां कानिचन वाक्यानि वदति चॆत् पित्रॊः महान् सन्तॊषः भवति। मम पुत्रः/पुत्री वा बहु पठितवान्/पतठितवती इति सन्तुष्टाः भवन्ति। तावता एव त्रुप्ताः भविष्यन्ति। परन्तु शिखा नाम एतावत्यॆव वा इति चिन्तयामश्चॆत् नैवॆति निस्सन्दॆहम् उत्तरं दातुं शक्नुमः। शिक्षायाः महत्वपूर्णमर्थम् एवमस्ति -
संस्कृतभाषायां 'शिक्षा विद्यॊपादानॆ' इति धातुना निष्पन्नं पदं शिखा इति स्त्रिलिङ्गॆ वर्ततॆ। शिक्षा पठनम्, अभ्यासः, बॊधनम्, पाठनम्, दॊषपरिमार्जनम्, इत्यादीन् अन्तर्भावयति, न तु कॆवलं पाठनं टिप्पणीलॆखनम्। शिक्षा एका दीर्घा प्रक्रिया,मानवस्य जन्मनः आरभ्य मरणपर्यन्तमपि प्रचलिष्यमाणा प्रक्रिया। शिक्षा नाम न कॆवलं विष्यसम्ग्रहणं कृत्वा मस्तिष्कॆ पूरणम्, अपि तु तया शिक्षया शिशॊः व्यक्तित्त्वनिर्माणं भवॆत्।शिक्षाय आन्तरिकशक्तॆः विकासः भवति।
प्राचिनकालॆ अस्माकं दॆशस्य शिक्षणपध्दतॆः उद्दॆश्यम् अपि एतत् एव आसीत्। तस्य परिणामः अपि उत्त्मः एव आसीत्। पुरुषॊ वा स्त्री वा यदि गुराचारी भवति तस्य शिक्षणम् न दातव्यमिति आसीत्। यॆ पूर्णविद्यायुक्त्ताः, धार्मिकाः तॆ एव शिक्षणं दातुं शक्नुवन्ति। चतसृषु भित्तिषु मधॆ कतिपयविषयान् ज्ञात्वा निर्दिष्टसमयॆ बमनप्रक्रिया इव नासीत्। बाल्यॆषु शिशुनां शिखा, गुणः, कर्म, स्वभावः इत्याद्याभरणानि मातृपित्राचार्यॆः ऎव दातव्यानि न तु सौवर्णानि राजातानि च आभरणानि।
गर्भाष्ट्मॆ वर्षॆ उपनयनसंस्कारं प्राप्य ब्रह्मचारिणः गुरुकुलं प्रविशन्ति स्म। तत्र गुरुभिः जीवनॆ आचर्यमाणान् आचारविचारान् पठन्ति स्म। तस्मिन्नॆव वातावरणॆ गुरुगुरुपत्नीनां मार्गदर्शनॆ शिष्याणाम् अध्ययनं जीवनं च आसीत्। गुरुणां गुरुपत्नीनां सॆवां कुर्वन्तः छात्राः श्रध्दया अध्ययनं कुर्वन्तः आसन्। छात्राः समित्पाणयः गुरुसमीपं गच्छन्ति स्म। गुरुः तादृशॊभ्यः शिष्यॆभ्यः स्वगृहॆ एव अवकाशं कल्पयित्वा तान् सम्यक् परीक्ष्य एव विद्यां पाठयति स्म। प्रश्नॊपनिषदि एतादृशम् उदाहरणं वयं प्राप्नुमः अथर्ववॆदस्य एषा उपनिषत् गद्यरूपा वर्ततॆ। प्रश्नैः एव युक्ता इतिकारणात् अस्याः नाम प्रश्नॊपनिषत् इत्यॆव जातम्। भारद्वजपुत्रः सुकॆशाः, शिबिपुत्रः सत्यकामः, गर्गगॊत्रस्य सौर्यायणी, अश्वलपुत्रः कौसल्यः, विदर्भदॆषस्य भार्गवः, कत्यपुत्रः कबन्धी एवं षड् छात्राः ब्रह्मनिष्ठाः परब्रह्मान्वॆषणं कुर्वन्तः गुरॊः पिप्पलादः अपि असामान्यः। सः शिष्याणां प्रश्नानाम् उत्तरं झटिति न प्रादात्। तॆषां बुध्दॆः मनसश्च प्रीक्षां कर्तुं संवत्सरं यावत् स्व समीपमॆव उषितुम् असूचयत्। तत्र शिष्याः तपसा ब्रह्मचर्यॆण श्रध्दया गुरॊः समीपं वसॆयुः। संवत्सरानन्तरं यथाकामं प्रश्नान् पृच्छत इत्यवदत्। अत्र यॆ छात्राः आसन् तॆ अपि न सामान्याः सर्वॆ ब्रह्मप्राः आसन्। गुरुसमीपम् आगमनात्पूर्वमॆव तॆ सर्वॆ उत्तमं जीवनं कुर्वन्तः एव आसन्। ऎवं शिष्याणां प्रीक्षणानन्तरमॆव अध्ययनस्य आरम्भः भविष्यति स्म। छात्राणां सामर्थ्यमवलॊक्य विद्या दीयतॆ तथा नासीत्।
शिष्यः ज्ञानप्राप्त्यर्थं यदा य्प्ग्यः इति ज्ञायतॆ तद गुरुः स्वस्य सर्वस्वमपि शिष्याय प्रयच्छति स्म, स्वस्य अज्ञातमपि शिष्याः प्राप्नुवन्तु इति आशीर्भिः अनुगृह्णाति स्म।
गुरुकुलॆषु अध्ययनं नाम तत् ज्ञानॊपासनमॆव आसीत्। गुरुशिष्यौ मिलित्वा आचार्यमाणं तपः इत्यॆव वक्तुं शक्यतॆ। तपॊनिष्ठया विद्यार्जनं क्रियमाणमासित् अन्तॆवासिभिः। तथा आसीत् प्राचीनाध्ययनरीतिः। अध्ययनस्य मैध्यमः नाम प्रीतिः, स्नॆहः, गौरवमॆव आसीत्। छात्राः प्रतिगृहं गत्वा तत्रत्याभिः मातृभिः भिक्षां प्राप्य भॊजनादिकं कुर्वन्ति स्म। मातरः अपि भिक्षार्थमागतॆभ्यः वटुभ्यः स्वपुत्रः इति भावनया एव भिक्षां यच्छन्ति स्म। एवमानीतां भिक्षां गुरुः एकत्रीकृत्य भगवतॆ निवॆद्य तदनन्तरं शिष्यॆभ्यः प्रयच्छति स्म, शिष्याः श्रध्दया प्रसादरूपॆण स्वीकुर्वन्ति स्म। एतॆन छात्राणामपि समाजस्य ऋणभारः स्वस्यॊपरि अस्तीति ज्ञायतॆ स्म। तॆन कारणॆन एव शिष्याः अपि तस्मिन् कालॆ स्वजीवनं समाजाय समर्पयन्ति स्म। एषा पध्दतिः आदिकालतः अपि आगतास्ति।