सामग्री पर जाएँ

सदस्यः:NehalDaveND/प्रयोगपृष्ठम्/20

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

------

भाष्याणि[सम्पादयतु | स्रोतः सम्पाद्यताम्]

[सम्पादयतु]

शतपथब्राह्मणस्य उभयोः शाखयोः भाष्यानि उपलब्धानि सन्ति -

(१) काण्वशतपथब्राह्मणस्य भाष्यं महाभारतस्य टीकाकर्त्रा नीलकण्ठेन कृतम्। भाष्यं त्वनुपलब्धमेवाऽस्ति, किञ्च तस्य निर्देशः महाभारत-वनपर्वस्य द्वाषष्ट्यधिकशतमध्यायस्य एकादशश्लोकस्य टीकायां तेनैव स्वयं कृतः।

(२) माध्यन्दिनशतपथस्य टीका उव्वटेन लिखिता इति श्रूयते। ऐतरेयब्राह्मणस्य भाष्याण्युपलब्धानि सन्ति। 

ऐतरेयब्राह्मणस्य भाष्याणि[सम्पादयतु | स्रोतः सम्पाद्यताम्]

[सम्पादयतु]

गोविन्दस्वामी ऐतरेयब्राह्मणस्य भाष्यम् अरचयत्। षड्गुरुशिष्यः ऐतरेयब्राह्मणस्य भाष्यम् अरचयत्।

तैत्तिरीयब्राह्मणभाष्यम्[सम्पादयतु | स्रोतः सम्पाद्यताम्]

[सम्पादयतु]

भवस्वामी भट्टभास्करस्य कथनानुसारेणास्य भाष्यं वाक्यार्थपरकम् आसीत् । केशवस्वामी बौधायनप्रयोगसारनामकग्रन्थे भवस्वामिनं स्मरति । एकादशशतके निर्मिते त्रिकाण्डमण्डने केशवस्वामिनः उल्लेखो वर्त्तते । अतोऽस्य समयः दशमशतकस्य पूर्वार्द्धे वक्तुं शक्यते । तैत्तिरीयसंहितायाः, तैत्तिरीयब्राह्मणस्य च भाष्यं केवलं निर्दिष्टमेव अस्ति न तूपलब्धम् अस्ति। भट्टमास्करः तैतिरीयसंहितायाः भाष्यं लिखित्वा तैतिरीयभाष्यमपि लिखितवान्। अाचार्यसायणः अाचार्यसायणोऽपि तैत्तिरीयब्राह्मणस्य भाष्यं प्रणीतवान् ।

सामवेदीयब्राह्मणभाष्यम्[सम्पादयतु | स्रोतः सम्पाद्यताम्]

[सम्पादयतु]

सामवेदस्य ब्राह्मणेषु सायणात् पूर्ववर्तिनः कतिपया आचार्या: टीकां कृतवन्तः । हरिस्वामिनः पुत्रेण जयस्वामिना ताण्ड्यब्राह्मस्योपरि, गुणविष्णुना मन्त्रब्राह्मणोपरि, भास्करमिश्रेण आर्षयब्राह्मणोपरि तथा भरतस्वामिना सामविधानब्राह्मणोपरि भाष्यं रचितम्। आचार्यसायणस्तु निजपद्धत्यानुसारेण समग्रसामवेदीयब्राह्मणेषुपरि भाष्याणि प्रणीतवान् । गोपथब्राह्मणस्य न काऽपि व्याख्या समुपलब्धाऽस्ति । 

------