सदस्यः:NehalDaveND/प्रयोगपृष्ठम्/3

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

वार्ताः इति विभागः संस्कृतविकिपीडिया-जालस्थानो मुखपृष्ठस्य भिन्नेषु विभागेषु अन्यतमः । वार्ता इत्यनेन शब्देन वृत्तः वृत्तान्तो वा ग्राह्यः । वृत्तान्तः, वार्ताः, वृदन्तकः, वृत्तः, संवादः, श्रुतिः, प्रवृत्तिः, उदन्तः इत्यादयः पर्यायवाचिनः शब्दाः शब्दकल्पद्रुमे, अमरकोषे च प्राप्यन्ते । हिन्दीभाषायां 'समाचार'-शब्दस्य कृते एते वृत्तान्तादयः शब्दाः संस्कृतवाङ्मये बहुत्र प्राप्यन्ते ।

संस्कृतविकिपीडिया-जालस्थानस्य सर्वेऽपि सदस्याः मुखपृष्ठस्य कृते वार्तायाः प्रस्तावं कर्तुं शक्नुवन्ति । सर्वेषां सदस्यानां कर्तव्यम् अस्ति यत्, "अत्याधुनिकवार्तायाः विषये संस्कृतविकिपीडिया-जालस्थानस्य मुखपृष्ठे वार्तानां प्रस्तावं कुर्युः, येन पाठकानां रुचिः विकिपीडिया-जालस्थानं प्रति वर्धेत" इति । विकिपीडिया:वार्ता/प्रत्याशी इत्यस्मिन् पृष्ठे सदस्याः स्ववार्तानां प्रस्तावं निम्ननियमानुगुणं कर्तुं प्रभवन्ति ।

सामान्यनियमाः[सम्पादयतु]

वार्ताः इत्येनन नाम्ना विकिपीडिया-जालस्थानस्य मुख्यपृष्ठान्तर्गतः कश्चन विभागः वर्तते, यस्मिन् आविश्वं ज्ञानवर्धिकाः, रुच्युत्पादिकाः वार्ताः अन्तर्भवन्ति । प्रत्येकं वार्तासु नूनातिनूनम् एकस्य मुख्यस्य लेखस्य परिसन्धिः (Link) भवत्येव, सः च परिसन्धिः स्थूलाक्षरैः लिखितः भवति । यथा - भारतगणराज्यस्य प्रधानमन्त्री नरेन्द्र मोदी 'ब्रिक्स्' शिखर-परिषदि भागम् ओढुं ब्राजिल्-देशं प्रापत् ।

सः स्थूलाक्षरैः लिखितः परिसन्धिः विकिपीडिया-जालस्थाने विद्यमानपृष्ठं प्रति गच्छति, यस्य पृष्ठस्य विषये मुख्यवार्तायाम् उल्लेखः भवति । वार्तानां क्रमं निर्धारितुं कस्याः अपि पद्धत्याः अनुसरणं न भवति ।

वार्तायाम् उल्लिखितस्य लेखस्य लेखनशैली विकपीडिया-जालस्थानानुगुणम् आवश्यकी । तस्मिन् लेखे पर्याप्तमात्रायां सूचनाः भवेयुः इति ध्यातव्यम् । मुखपृष्ठस्य वार्तायां यस्याः सूचनायाः उल्लेखः भवति, तस्याः सूचनायाः विषये परिसन्धिते लेखे लिखितं स्यादेव । “मुखपृष्ठस्य वार्तायै एषा वार्ता योग्या” इति प्रस्तावं यः कोऽपि सदस्यः कर्तुं शक्नोति । कोऽपि सदस्यः यदि वार्तायाः प्रस्तावं कर्तुम् इच्छति, तर्हि विकिपीडिया:वार्ता/प्रत्याशी इत्यस्मिन् पृष्ठे वार्तायाः प्रस्तावं कर्तुं शक्नोति । केनचित् योजकेन प्रस्ताविता वार्ता वार्तालक्षणानुगुणं स्यादेव ।

उद्देशः[सम्पादयतु]

  • मुखपृष्ठे लिखितायाः वार्तायाः विकिपीडिया-जालस्थानस्य लेखेन सह परिसन्धौ सति तं परिसन्धितं लेखं पाठकाः विस्तारेण पठेयुः ।
  • केचन विषयाः तादृशाः भवन्ति, यान् विषयान् पाठकाः न अन्विषन्ति । परन्तु यदि ते विषयाः पाठकानां दृष्टिपथि आगच्छन्ति, तर्हि ते निश्चयेन तेषां विषयाणां लेखं पठिष्यन्ति । तादृशानां लेखानां विषये पाठकानां ज्ञानं भवेत् इत्यपि वार्तायाः उद्देशः ।
  • वार्तायाः माध्यमेन पाठकानां पुरः विकिपीडिया-जालस्थानस्य गतिशीलतायाः प्रदर्शनं कर्तव्यं, येन विकिपीडिया-जालस्थानं गतिशीलसंसाधनत्वेन पाठकानां मनसि स्थानं प्राप्नुयात् ।
  • विकिपीडिया-जालस्थाने ये सदस्याः योगदानं कुर्वन्तः सन्ति, ते वर्तमानकाले घटितया घटनया सह सम्बद्धितेषु लेखेषु अद्यतनपरिवर्तनं कर्तुं प्रेरिताः भवेयुः ।

वार्तालक्षणम्[सम्पादयतु]

  • वार्तायाः विषयः विश्वव्यापी, देशव्यापी च भवेत् । अत्र व्यापकतायाः परीक्षणम् अन्ताराष्ट्रियस्तरे, राष्ट्रियस्तरे च वार्तायाः कियत् महत्त्वम् अस्ति इत्यस्य आधारेण भवति । अतः पत्रकारिताक्षेत्रस्य महत्तया सह वार्तायाः दुर्लभतायाः अपि परीक्षणं भवति । यस्मिन् देशे/राज्ये/क्षेत्रे या घटना घटिता, सा तत्र मुहुर्मुहुः भवति उत न इत्यस्यापि परीक्षणं भवति ।
  • मुख्यपृष्ठे या वार्ता लिख्यते, तस्याः अक्षराणि शतेभ्यः (१००) अक्षरेभ्यः अधिकानि न भवेयुः । यदि अक्षरगणनायाः आवश्यकता अनुभूयते, तर्हि {{अक्षरगणना}} इत्यस्य उपयोगः कर्तुं शक्यते ।
  • लेखः अद्यतनपरिवर्तनयुक्तः भवेदेव । अत्र अद्यतनपरिवर्तनम् इत्यस्य अर्थः या वार्ता मुखपृष्ठे उल्लिखिता, तस्याः वार्तायाः विषये तस्मिन् लेखे विस्तारेण लिखितं स्यात् ।
  • वार्तायाम् उल्लिखितस्य लेखस्य लेखनशैली विकपीडिया-जालस्थानानुगुणम् आवश्यकी । तस्मिन् लेखे पर्याप्तमात्रायां सूचनाः भवेयुः इति ध्यातव्यम् । वार्तायाः विषयः आपत्तिजनकः न स्यात् इत्यपि ध्यातव्यम् । लेखे वार्तासम्बद्धिताः सन्दर्भाः अवश्वमेव योजिताः स्युः ।
  • मुख्यलेखे न केवलं वार्तायाः विस्तृतसूचनाः, अपि तु वार्तायाः यः विषयः भवति, तस्य विषयस्य परिचयः अपि स्यात्।

प्रक्रियात्मकं वार्तालक्षणम्[सम्पादयतु]

  • प्रस्तावकर्तारं, प्रबन्धकं च विहाय अन्ये सदस्याः अपि प्रस्तावितायाः वार्तायाः समर्थनम्, असमर्थनं वा कर्तुं शक्नुवन्ति । अन्ये सदस्याः अपि वार्तायाः विषये स्वविचारान् उपस्थापयेयुः इत्यस्य कृते प्रबन्धकः सदस्यानां प्रोत्साहनं कुर्यात् । वार्तायाः समर्थनं, विरोधश्च योग्यकाराणाधारैण भवेत् । वार्तायाः विषये यदि मतैकता भवति, तर्हि विकिपीडिया:मुखपृष्ठं – वार्ताः इत्यत्र अद्यतनपरिवर्तनं कर्तव्यम् । परन्तु वार्तायाः विषये यदि सदस्याः स्वाभिप्रायान्, स्वमतं वा न सूचयन्ति, तर्हि वार्तालक्षणानुगुणं वार्तायाः परीक्षणानन्तरं विकिपीडिया:मुखपृष्ठं – वार्ताः इत्यत्र अद्यतनपरिवर्तनं कर्तव्यम् । मतानाम् अभावे परिवर्तनं कर्तुम् एकस्य दिनस्य समयः पर्याप्तः मन्यते ।
  • घटनायाः ७२ घण्टायाः अधिकं मतविषये प्रतीक्षा न कर्तव्या । ७२ घण्टां यावत् यानि मतानि प्राप्तानि, तेषामनुसारं विकिपीडिया:मुखपृष्ठं – वार्ताः इत्यत्र अद्यतनपरिवर्तनं कर्तव्यम् । ७२ घण्टानन्तरं वार्ता पुरातना मन्यते ।
  • ७२ घण्टायाः काले व्यतीते सत्यपि विकिपीडिया:मुखपृष्ठं – वार्ताः इत्यत्र अद्यतनपरिवर्तनं न भवेत् चेत् –
  • यदि प्रस्ताविता वार्ता तस्मिन् समये अपि मुख्यवार्तात्वेन परिगण्यते, तर्हि विकिपीडिया:मुखपृष्ठं – वार्ताः इत्यत्र अद्यतनपरिवर्तनं कर्तव्यमेव ।
  • यदि प्रस्ताविता वार्ता तस्मिन् समये मुख्यवार्तात्वेन न परिगण्यते, तर्हि मतैकतायां प्राप्ते सत्यपि विकिपीडिया:मुखपृष्ठं – वार्ताः इत्यत्र अद्यतनपरिवर्तनं न कर्तव्यमेव ।
  • दीर्घकालिकायाः प्रथमघटनायाः विषये विकिपीडिया:मुखपृष्ठं – वार्ताः इत्यत्र लेखनानन्तरं, तस्याः घटनयाः सम्बद्धानि बृहत्परिवर्तनानि घटनानुसारं योजयितुं शक्यन्ते । परन्तु एकस्याः घटनायाः केवलम् एकवारमेव मुख्यवार्तायां समावेशो भवितुम् अर्हति । यानि नवीनानि परिवर्तनानि आवश्यकानि भवन्ति, तानि पूर्वलिखितायां वार्तायामेव करणीयानि ।
  • काश्चन विशेषघटनाः भवन्ति, येषां विकिपीडिया:मुखपृष्ठं – वार्ताः इत्यत्र उल्लेखनार्थं मतैक्यस्य आवश्यकता न भवति । ते विषयाः {{पुनरावर्तकविषयत्वेन}} परिगण्यन्ते । ये विषयाः {{पुनरावर्तकविषयेषु}} अन्तर्भवन्ति, तत्सम्बद्धाः वार्ताः यः कोऽपि सदस्यः प्रस्तावितुं शक्नोति । प्रबन्धकः स्वयमपि {{पुनरावर्तकविषयसम्बद्धानां}} वार्तानां विकिपीडिया:मुखपृष्ठं – वार्ताः इत्यत्र अद्यतनपरिवर्तनं कर्तुं शक्नोति ।
  • मुखपृष्ठे लिखिता वार्ता नूनातिनूनं दिनद्वयं मुखपृष्ठे भवेदेव । दिनद्वयात् पूर्वं ताम् अपाकर्तुं न शक्यते । कानिचन परिवर्तनानि, अन्यानां वार्तानां च योजनं तु कर्तुं शक्यते एव । ७२ घण्टानन्तरमपि याः वार्ताः न परिवर्तिताः, तासां विषये एषः नियमः अपवादत्वेन परिगण्यते ।

विशेषपरिस्थितयः[सम्पादयतु]

मृत्युः[सम्पादयतु]

कस्यचित् व्यक्तेः मृत्योः वार्ताः मुख्यवार्तात्वेन स्थापयितुं शक्यते यदि –

1. मृत्युकाले मृतव्यक्तिः यदि उच्चपदे आरूढः आसीत् । तस्य प्रभावः कस्मिंश्चित् राष्ट्रे/राज्ये अधिकः आसीत् ।

2. मृतव्यक्तिः स्वकार्यक्षेत्रस्य अतिप्रख्यातः व्यक्तिः आसीत् ।

3. तस्य व्यक्तेः मृत्योः कारणेन वर्तमानस्थित्याः उपरि अधिकप्रभावः अभवत् ।

क्रीडा, पुनरावर्तकविषयाः च[सम्पादयतु]

काश्चन घटनाः व्यापकरूपं धरन्ते, यस्याः पौनःपुन्येन घटिते सति प्रतिवारं मुख्यवार्तात्वेन गणना भवत्येव । एतादृशाः वार्ताः पुनरावर्तकविषयेषु अन्तर्भवन्ति । एतादृशाः वार्ताः मतैक्यस्य नियमेषु न अन्तर्भवन्ति । अतः ताभ्यः वार्ताभ्यः मतैक्यस्य विचारम् अकृत्वैव साक्षात् मुख्यवार्तात्वेन स्थापयितुं शक्यते ।

प्रबन्धकस्य कृते निर्देशाः[सम्पादयतु]

युक्तेषु स्थानेषु आवश्यकानि निम्नफलकानि योजनीयानि –

  • लेखस्य वार्तापृष्ठे फलकम्:वार्ताः इत्येतत् फलकं योजनीयम्
  • वार्ताप्रस्तावकस्य योजकस्य पृष्ठे फलकम्:वार्तासूचना इत्येतत् फलकं योजनीयम्

बार्नस्टार्[सम्पादयतु]

ये सदस्याः, प्रबन्धकाः च मुखपृष्ठस्य वार्तायै महत्त्वपूर्णं योगदानम् अकुर्वन्, तेषां बार्नस्टार् इत्यनेन सम्मानः कर्तुं शक्यते।

चित्रम् किं लेखनीयम् विवरणम्
मुखपृष्ठवार्ताः बार्नस्टार् {{subst:मुखपृष्ठवार्ताः बार्नस्टार्|सन्देशः ~~~~}} मुखपृष्ठवार्ताः बार्नस्टार् इति तारकं ते सदस्याः प्राप्नुवन्ति, ये मुखपृष्ठवार्तायै महत्त्वपूर्णं योगदानं यच्छन्ति ।

उपयोगिपृष्ठानि[सम्पादयतु]

https://hi.wikipedia.org/wiki/%E0%A4%B8%E0%A4%BE%E0%A4%81%E0%A4%9A%E0%A4%BE:%E0%A4%96%E0%A4%BC%E0%A4%AC%E0%A4%B0_%E0%A4%A8%E0%A5%8B%E0%A4%9F%E0%A4%BF%E0%A4%B8

https://hi.wikipedia.org/wiki/%E0%A4%B8%E0%A4%BE%E0%A4%81%E0%A4%9A%E0%A4%BE:%E0%A4%96%E0%A4%BC%E0%A4%AC%E0%A4%B0_%E0%A4%B5%E0%A4%BE%E0%A4%B0%E0%A5%8D%E0%A4%A4%E0%A4%BE

https://hi.wikipedia.org/wiki/%E0%A4%B5%E0%A4%BF%E0%A4%95%E0%A4%BF%E0%A4%AA%E0%A5%80%E0%A4%A1%E0%A4%BF%E0%A4%AF%E0%A4%BE:%E0%A4%B8%E0%A4%AE%E0%A4%BE%E0%A4%9A%E0%A4%BE%E0%A4%B0/%E0%A4%AA%E0%A5%81%E0%A4%A8%E0%A4%B0%E0%A4%BE%E0%A4%B5%E0%A4%B0%E0%A5%8D%E0%A4%A4%E0%A5%80_%E0%A4%B5%E0%A4%BF%E0%A4%B7%E0%A4%AF

https://hi.wikipedia.org/wiki/%E0%A4%B8%E0%A4%BE%E0%A4%81%E0%A4%9A%E0%A4%BE:%E0%A4%85%E0%A4%95%E0%A5%8D%E0%A4%B7%E0%A4%B0_%E0%A4%97%E0%A4%A3%E0%A4%A8%E0%A4%BE