सदस्यः:Nikita.v.kattimani/प्रयोगपृष्ठम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
                                           अन्तरलापा

कस्तूरी जायते कस्मात्को हन्ति करिणा कुलम् | किं कुर्यात्कातरो युद्धे मृगात्सिंह: पलायनम् ||१||

क: खे चरतिं का रम्या का जप्यां किं विभूषणम् |को वन्ध् कीद्दशी लड्। वीरमर्कटम्यिता ||२||
सीमन्तिनीषु का शान्ता राजा कोअभूद्नुणोत्तम:|विद्वद्भि: का सदा वनधा अत्रैवोक्तं न बुध्यते ||३||

कस्य पुत्रो गड्। वहति कीद्दशी|हंसस्थ शोभा का वस्ति धर्मस्य त्वरिता गति: ||४||
भोजनान्ते च किं पेयं जयन्त: कस्य वै सुत्:|कथं विष्णुपदं प्रोक्तं तकं शकस्य दुर्लभम् ||५||
पृथ्वीसंबोधनं कीद्दक्कविना परिकीर्तितम्|केनेदं मोहितं विश्र्वं प्राय:केनाप्यते यश: ||६||
क: कुर्याद्भुवनं सर्वे क:न्  सभुन्मूलयेद्दुमा|किं प्रतीके भवेन्मुख्यं क: परत्रैति पुण्यताम् ||७||
भवत इवातिखच्छं कस्याभ्यन्तरमगाधमतिशिशिरम् | काव्यामृतरसमभस्त्वमिव सदा क: कथय: सरस:||८||
वीरे सरुषि रिपूणां नियतं का ह्रदयशायिनी भवति |नभसि प्रस्थितजलदे का राजति हन्त वद तारा||९||
:भ्रमरहित कीद्दक्षो भवतितरां विकसित: पद्मा:|ज्योतिषिक: किद्दक्ष: प्रायो भुवि पूज्यते लोकै:||१०||
प्रभव: को गड्।या नगपतिरतिसुभगशृ धर:| के सेव्यन्ते सेवकसार्थैरत्यर्थमर्थरतै:||११||
अयमुदितो हिमरसश्मिर्वनितावदनस्य कीद्दश: सद्दश: |नीलादिकोपलम्भ:स्फुरति प्रत्यक्षत: कस्य:||१२||
गैरिकमन:शिलादि: प्रायेणोत्पध्यते कुतो नगत:|य:खलु न चलति पुरुष: स्थानादुक्त: स कीद्दक्ष:||१३||
कस्य मरौ दुरधिगम: कमले क: कथय विरचितावास:|कैस्तुष्यति चामुण्डा रिपवस्ते वद कुतो भ्रष्टा:||१४||
कं संजघान कृष्ण: का शीतलवाहिनी | के दारपोषणरता: कं बलवन्तं न बाधते शीतम् ||१५||
क: कौ के कं कौ कान् च हसन्ति हरिणाक्ष्या:|अधर: पल्लवम हंसौ चन्दस्य कोरकान्दन्ता||१६||
का शंभुकान्ता किमु कुन्द्रकान्तं कान्तामुखं किं कुरुते भुजगं:|क: श्रीपति का विषमा समस्या पौरीमुखं चुम्बति वासुदेव:||१७||
का लोकमाता किमुं देहमुख्यं रते: किमादौ कुरुते मनुष्य:|को दैत्यहन्ता वद वै कमेण ग़ौरीमुखं चुम्बति वासुदेव:||१८||
का शैलपुत्री किमु नेत्ररम्यं शुकार्भक: किं कुरुते फलानि |मोक्षस्य दाता स्मरणेन को वा ग़ौरीमुखं चुम्बति वासुदेव:||१९||
के भूषयन्ति स्तनमण्डलानि कीद्दश्युमा चन्द्रमस: कुत: श्री:|किमाह सीता दशंकण्ठ्नीता हारामहादेवरतातमात:||२०||
खे कवे: किं समरस्य सारं क़ृषेर्भयं किं किमुशन्ति |खलाद्भयं विष्णुपदं च केषां भागीरथीतीरसमाश्रितानाम ||२१||
ब्रजन्ति पद्मानि कदा विकासं प्रिया गते भर्तरी किं करोति रात्रो च नित्यं विरहाकुला का सूर्योदये रोदिति चकवाकी ||२२||
सन्तश्र्व लुब्धाश्र्व महर्षिसंघा विप्रा: कृषिस्था: खलु माननीया:| किं किं समिच्छन्ति तथैव सर्वे नेच्छन्ति किं माधवदाघयानम्||२३||
का पाण्डुपत्नी गृहभूषणं किं को रामशत्रु: किमगस्त्यजन्म |क: सूर्यपुत्रोविपरीतपृच्छा कुन्तीसुतो रावणकुम्भकर्णा :||२४||
करोति शोभामलके स्त्रिया: को द्दश्या न कान्ता विधिना च कोक्ता |अङाए तु कस्मिन्दहन: पुरारे: सिन्दूरबिन्दुर्विधवाललाटे||२५||
किं भूषणं सुन्दरसुन्दरीणा किं दूषणं पान्थजनस्य नित्यम्| कस्मिन्विधात्रा लिखितं जनानां सिन्दूरबिन्दुर्विधवाललाट ||२६||
कीद्दक्षा गिरिशतनुर्जये च धातुर्विष्णौ का विबुधजरातमस्तृतीया |मध्याणे सति कथमात्मकोअस्ति देश: सोमाज्यां सकलकला जसातसाहा||२७||
विवाहे पुरंध्रीजनैर्लिप्यते का न कै मानमायान्ति गर्वेन्नता का| घने वारिधौ रामत: कम्पते का हरिद्रा दरिद्रा: सरिद्रावणश्री: ||२८||
कस्मिन्वसन्ति वद भीनगणा विकल्पं किं वापदं वदति किं कुरुते विवखान् |विधुल्लतावलयवान्पथिका नानामुद्वेजको भवति क: खलु वारिवाह:||२९||
शब्द: प्रभूगत इति प्रचुराभिधायी कीद्दग्भवेद्वदत शब्दविदा विचिन्त्य| कीद्दग्बृहस्पतिमते विहिताभियोग: प्राय: पुमान्भवति नास्तिकवर्गमध्य: ||३०||
क: प्रार्थ्यते मदनविह्वलया युवत्या भाति क पुण्डकमुपैती कथं बतायु:|कानादरो भवति केन च रज्यतेअब्जं बाह्यास्ति किं फलमुदाहर नालीकेरम् ||३१||
क्क वसंति लघु जन्तु:किं निदानं हि वान्तेर्झटिति वद पशुं कं लम्बकण्ठं वदन्ति|प्रसवसमयदु:ख वेत्ति या कामिनीनां तिलतुषपुटकोणे मक्षिकोष्ट्रं प्रसूतो||३२||
को निर्दग्धस्त्रिपुररिणा कश्र्व कर्णस्य हन्ता नधा कूलं विघटयति क: क: परस्त्रीरतश्र्व |क: संनद्धो भवति समरे भूषणं किं कुचानां किं दु:खद्भवति महतां मानपूजापहार:||३३||
क: कान्तारमगात्पितुर्वचनत: संश्लिष्य कण्ठस्थलीं कामी किं कुरुते च गृध्रहठतश्छिन्नं प्ररूढं च किम्| का रक्ष: कुलकालरात्रिरभवच्चन्द्रातपं द्वेष्टि को रामश्र्वुम्बति रावणस्य वदनं सीतावियोगातुर:||३४||
कीद्दड्भत्तमतंगज: कमभिनत्पादेन नन्दात्मज: शब्दं कुत्र हि जायते युवतय: कस्मिन्सति व्याकुला:|विकेतुं दधि गोकुलात्प्रचलिता कृष्णेन मार्गे धृता गोपी काचन तं किमाह करुणं दानी अनोखे भये||३५||

किं कुर्यन्त्युषसि द्विजा: प्रतिदिनं के माननीया: प्रभो: का वा साहसिकी निशासु सततं घौ: कीद्दशी वर्तते |कुत्रास्ते मधु नालिकेरजफले कै: स्यात्पिपासाशम: संध्यावन्दनमाचरन्ति विबुधा नारीभगान्तर्जलै:||३६||

लंकाभूपनिशाचरो रघुपतिं युद्धे कथं हष्टवान दीनं पाति पितेव य: पशुपति: कस्तस्य वाह: प्रिय: |केनापृर्वफलं नरै: सुकृतिभि: कस्मिन्स्थले भुज्यते जारा ये भुवि तान्प्रशास्ति कतमो ह्येषामिहैवोत्तरम् ||३७||

कुत्रोदेत्युदयाचलस्य तरणी रम्या यति: कस्य खे कान्त्या भान्ति च किं करोति गणको यष्टिं विधृत्यैति क: |कस्मिज्जाग्रति जन्तवो न च कदा सूते च का क: प्रिय: शृड।ग्रे तुरगस्य भानि गणयत्यन्धोह्नि वन्ध्यासुत:||३८|| अन्यस्त्रीस्पृहयालवो जगति के पद्द्भामगन्धा च का को धातुर्दशने स्मस्तमनुजै: का प्रार्थ्यतेअहर्निशम्|हष्वैकां यवनेश्र्वरो निजपुरे पद्माननां कामिनीं मित्रं प्राह किमादरेण सहसा यारानदी दंशमा ||३९||

कस्मिन्शेते मुरारि: क्क न खलु सितिभाशौरिसंबोधनं किम् |संबुद्धि: का हिमाशोर्विधिहरवयसां चापि संबुद्धय: का श्रूते लुब्ध: कथं वा कुरुकुलहननं केन तत्केशवेन||४०||
गच्छन्ति काजिवह्नौ हुतनिजतनव: का भिनति स्वकुलं किं स्याधोज्यं विकल्पे ककचनिभनखै किं नृसिंहेन भिन्नम् |कीद्दग्दित्या: प्रसूति: किमनलशमनं का ऩृपै: पालनिया को वन्ध: क: प्रमार्ष्टि त्रिभुवनकलुषं स्वर्धुनीवारिपूर:||४१||
पुंस: संबोधनं किं विदधति करिणां के रुचोअग्नेर्द्विषत्किं का शून्या ते रिपूणां नरवरनरकं कोअपिधीद्रोचकं किम् |के वा वर्षासु न स्युर्बिसमिव हरिणा किं नखाग्रौर्विभिन्नं को वा मार्गे विसर्पन्विघटयति तरून्नर्मदावारिपूर:||४२||

किं तृष्णाकारि किद्दग्रथचरणमहो रौति क: काब्धिकाश्र्वि: कोअपस्मारी भुजंगे किमु कलिशमनं त्वार्यसंबोधनं किम् |का सुन्दर्यामपीन्दु: कथमचलभृत: का च संबुद्धिरग्रेर्बीजं किं कावनीजारमणमतिहरा हेमसारङालीला ||४३|| ताराविष्णूरणाविट्खगह्यदयरमास्कन्दसंबुद्धय्: स्याद्धातुत्रयं लुग्विकरणपठितं कुत्र तत्त्वावबोध: चत्वार स्तद्धिता: स्यु: क नु खलु किं सूत्रं पाणिनीयं विकसति न सहस्त्रोक्तिभिर्भाखरेअपि||४४||

                                           बहिरलापा:
  पूजयां किं पदं प्रोक्तमस्तनं को बिभतर्त्युर: |क आयुधतया रन्यता प्रलम्बासुरविद्विष: ||१||
  को दुराढ्यस्यं मोहाय का प्रिया मुरविद्विष: |पदं प्रश्रवितर्के किं को दन्तच्छदभूषणम्||२||
  पक्षिश्रेष्ठसखीबभ्रूसुरा वाच्या: कथं वदं |ज्येष्ठे मासि गता: शोषं किद्दश्योअल्पजला भुव:||३||
  विश्र्वंभराप्रलम्बघ्रव्रीहिमानुषसंयुगा:|कथं वाच्या भवन्त्येता दिनान्ते विकसन्ति का:||४||
  आनन्दयति कोअत्यर्थे सज्जनानेव भूतला |प्रबोधयति पद्मानि तमांसि च निहन्ति क:||५||
  अटवि कीद्दशी प्रायो दुर्गमा भवति प्रिये |प्रियस्य किद्दशी कान्ता तनोति सुरतोत्सवम्||६||
   कीद्दक्किं स्यान्न मत्स्यानां हितं खेच्छाविहारिणाम्|गुणै: परेषामत्यर्थे मोदते कीद्दश पुमान्||७||
  अगस्त्येन पयोराशे: कियत्किं पीतमुज्झितम् |त्वया वैरिकुलं वीर समरे कीद्दशं कृतम् ||८||
  के स्थिरा: के प्रिया: स्त्रीणां कोअप्रियो नक्तमाह्नय |नृत्यभू: कीद्दशी रम्या नदी कीद्दग्घनागमे ||९||
  का कृता विष्णुना कीद्दग्योषितां क: प्रशस्यते|असेव्य: कीद्दश: स्वामी को निहन्ता ||१०||
 लक्ष्मणेत्युत्तरं यत्र प्रश्र: स्थादत्र किद्दश: |ग्रीष्मे द्विरदवृन्दाय वनाली कीद्दशी हिता||११||
  प्राय: कार्ये न मुह्यन्ति नरा: सर्वत्र कीद्दशा:|नाधा इति भवेच्छब्दो नौवाची वद कीद्दश:||१२||
 कामुका: स्यु: कथा नीचा: सर्व: कस्मिन्प्रमोदते |अर्थिन: प्राप्य पुण्याहं करिष्यध्वे वसुनि किम्||१३||
 को दु:खी सर्वकार्येषु किं भृशार्थस्य वाचकम्|यो यस्माद्विरतो नित्यं तत: किं स करिष्यति||१४||
 वारेणेन्द्रो भवेत्कीद्दक्प्रीतये भृङासंहते |यघवशयं तदास्मै किमकरिष्यमहं घनम||१५||
  काले देशे यथायुक्तं नर: कुर्वन्नुपैति काम् |भुक्तवन्तावलप्स्येतां किमन्नमकरिष्यताम् ||१६||
  हिमानीस्थगिरौ स्याता कीद्दशौ शशिभास्करो|क:: क पूज्य: प्रमाणेभ्यो न प्रभाकरसमत:||१७||
  के प्रविणा: कुतो हीनं जीर्ण वासोंअशुमाश्र्व क: |निराकरिष्णवो बाह्यं योगाचाराश्र्व कीद्दशा||१८||
 न श्र्लाघते खल: कस्मै सुप्तिङन्तं किमुच्यते |लादेशानां नवानां च तिङां किं नाम कथ्यताम्||१९||
      
  
                                 उपानिधि पराकरम
  वासनस्थमनाख्याय हस्तेSन्यस्य यदर्प्यते|
 द्रव्यं तदौपनिधिकं प्रतिदेवं तथैव तत् ||
 
 न दाप्योSपह्र्तं तं तु राजदैविकतस्करै:|
 भ्रेषश्र्चेन्मार्गितेSदत्ते दाप्यो दण्डं च तत्समम् ||
 आजीवन्स्वेच्छया दण्ड्यो दाप्यस्तं चापि सोदयम् |
 याचितान्वाहितन्यासनिक्षेपादिष्वयं विधि ||
 तपस्विनो दानशीला: कुलीना: सत्यवादिन:|
 धर्मप्रधाना ऋजव: पुत्रवन्तो धनान्विता:||
 
 स्त्रीबालवृध्दकितवमत्तोन्मत्ताभिशस्तका:|
 रड्|वतारिपाखण्डिकूटकृद्विकलेन्द्रिया:||
 पतिताप्तार्थसंबन्धिसहायरिपुतस्करा:|
 साहसी दृष्टदोषश्र्च निर्धूताधास्त्वसाक्षिण:||
 उभयानुमत: साक्षी  भवत्येकोSपि धर्मवित् |
 सर्व: साक्षी संग्रहणे चौर्यपारुष्यसाहसे ||
 साक्षिण: श्रावयेद्वादिप्रतिवादिसमीपगान् |
 ये पातककृतां लोका महापातकिनां तथा||
 अग्निदानां च ये लोका ये च स्त्रीबालघातिनाम् |
 स तान्सर्वानवाप्नोति य: साक्ष्यमनृतं ||
सुकृतं यत्त्वया किंचिज्जन्मान्तरशतै: कृतम्|
तत्सर्वं तस्य जानीहि यं पराजयसे मृषा ||
अब्रुवन्हि नर: साक्ष्यमृणं सदशबन्धकम् |
राजा सर्वं प्रदाप्य: स्यात्षट्चत्वारिंशकेSहनि||
 न ददाति हि य: साक्ष्यं जानन्नपि नराधम:|
 स कूटसाक्षिणां पापैस्तुल्यो दण्डेन चैव हि ||
 द्वैधे बहूनां वचनं समेषु गुणिनां तथा |
 गुणिद्वैधे तु वचनं ग्राह्यं ये गुणवत्तमा||
यस्योचु: साक्षिण: सत्यां प्रतिग्यां स जयी भवेत् |
अन्यथा वादिनो यस्य ध्रुवस्तस्य पराजय:||
उक्तेSपि साक्षीभि: साक्ष्ये यध्यन्ये गुणवत्तमा:|
द्विगुणा वाSन्यथा ब्रूयु: कूटा: स्यु पूर्वसाक्षिण:||
पृथक्पृथग्दण्डनीया:     कूटकृत्साक्षिणस्तथा|
विवादाद् द्विगुणं दण्डं विवास्यो ब्राह्मण: स्मृत:||
य: साक्ष्यं श्रावितोSन्येभ्यो निह्र्ते तत्तमोवृत:|
स दाप्योSष्टगुणं दण्डं ब्राह्मणं तु विवासयेत ||
 वर्णिनां हि वधो यत्र तत्र साक्ष्यनृतं वदेत|
 तत्पावनाय निर्वाप्यश्र्चरु: सारस्वतो द्विजै||

 य: कश्र्चिदर्थो निष्णात: स्वरुच्या तु परस्परम् |
 लेख्यं तु साक्षिमत्कार्यंं तस्मिन्धनिकपूर्वकम्||


 समामासतदर्धाहर्नामजातिस्वगोत्रकै:|
 सब्रह्मचारिकात्मीयपितृनामादिचिह्नितम् ||
 समाप्तेSर्थे ऋणी नाम् स्वहस्तेन निवेशयेत्|
 मतं मेSमुकपुत्रस्य यदत्रोपरि लेखितम् ||
 साक्षिणश्र्च स्वहस्तेन पितृनामकपूर्वकम्|
 अत्राहममुक: साक्षी लिखेयुरिति ते समा ||
 उभयाभ्यर्थितेनैतन्मया   ह्यमुकसूनुना |
 लिखितं ह्यमुकेनेति लेखSन्ते ततो लिखेत||
 विनापि साक्षिभिर्लेख्यं स्वहस्तलिखितं तु यत्|
 तत्प्रमाणां स्मृतं लेख्यं बलोपधिकृतादृते ||
 ऋणं लेख्यकृतं देयं पुरुषैस्त्रिभिरेव तु |
 आधिस्तु भुज्य्ते तावधावत्तन्न प्रदीयते ||
देशान्तरस्थे दुर्लेख्ये नष्टोन्मृष्टे हृते तथा |
भिन्ने दग्धेSथवा छिन्ने लेख्यमन्यत्तु कारयेत||
संदिग्धलेख्यशुद्धि:स्यात्स्वहस्तलिखितादिभि:|
युक्तिप्राप्तिकियाचिह्नसंबन्धागमहेतुभि||
लेख्यस्य पृष्टेSभिलिखेद्दत्त्वा दत्त्वर्णिको धनम्|
धनी वोपगतं दधात्स्वहस्तपरिचिह्नितम ||
दत्त्वर्णं पाटयेल्लेख्यं शुद्धयै वाSन्यत्तु कारयेत्|
साक्षिमच्च भवेधद्वा तद्दातव्यं ससाक्षिकम् ||