सदस्यः:Poojitha boganatham 123/प्रयोगपृष्ठम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

समाहर्तृसमुदयप्रस्थापनम्[सम्पादयतु]

सञ्चिका:Revenue.jpg
रेवेनुए कोल्लेक्तिओन्
सञ्चिका:Revenue collector.jpg
समाहर्तृसमुदयप्रस्थापनम्

<ref>https://en.wikipedia.org/wiki/Revenue<ref> <ref>https://www.mof.gov.bz/index.php/2012-08-30-03-42-02/mof-revenue-collection-menu<ref> समाहर्ता दुर्गं राष्ट्रं खनिं सेतुं वनं व्रजं वणिक्पथं चावेक्षेत । शुल्कं दण्डः पॉतवं नागरिको लक्षणाद्यक्षो मुद्राद्यक्षः सुरा सूना सूतं तैलं धृतं क्षारः सौवर्णिकः पण्यसंस्था वेश्या धूतं वास्तुकं कारुशिल्पिजणो देवताद्यक्षो दूरबाहिरिकादेयं। सीता भोगो बलिः करो वणिक् नदीपालस्तरो नावः पत्तनं वेवीतं वर्तनी रज्जुष्वोररज्जुश्व राष्ट्रम्। सुवर्णरजतवज्रमणिमुक्ताप्रवालशण्खलोहलवणभूमिप्रस्तररसधातवः खनिः । पुष्पफलवाटषण्डकेदारमूलवापाः सेतुः । पशुमृगद्रव्यहस्तिधनपरिग्रहो वनं । गोमहिषमजाविकं खरोष्ट्रमश्वाश्वतरं च व्रजः । स्थलपथो वारिपथश्व वणिक्पथः इत्यायशरीरम् । मूल्यं भागो व्याजी पारिद्यः क्लृप्तं रूपिकमत्ययश्व च आयमुखम् । देवपितृपूजादानार्थं , स्वस्थिवाचनं, अन्तः पुरं, महानसं, दूतप्रावर्तिमं, कोष्टागारं, आयुधागारं, पण्यागृहं, कुप्यगृहं, कर्मान्तो, विष्टिः, पत्त्यश्वरथद्विपरिग्रहो, गोमण्डलं, पशुमृगपक्षिव्यालवाटाः, काष्टतृणवाटाष्वेति व्ययशरीरम् । राजवर्षं मासः पक्षो दिवसश्व व्युष्टं, वर्षाहेमन्तग्रीष्माणा तृतीयसप्तम्, दिवसोनाः पक्षाः शेषाः पूर्णाः, पृथगाधिमासकहः, इति कालः । करणीयं सिद्वं शेषमायव्ययौ नीवी च । संस्थानं प्रचारः शरीरावस्थापनं आदानं सर्वसमुदयपिण्डः संजातम् एतत्करणीयम् । कोशार्पितं राजहारः पुरव्ययश्व प्रविष्टं परमसंवत्सरानुवृत्तं शाषमाहरणीयं मुखाग्नप्तं चापातनीयम्-एतत्सिद्द्म् । सिद्दिकर्मयोगः दण्ड शेषमाहरणीयं बलात्कृतप्रतिष्टब्धं अवमृष्टं च प्रशोद्यम्‌-एतच्छेषम्, असारमल्पसारं च । वर्तमानः पर्युषितोअन्यजानश्वायः । दिवसानुवृत्तो वर्तनमानः । परमसांवत्सरीकः परप्रचारसंक्रान्तो वा पर्युषितः । नष्टप्रस्मृतं आयुक्तदण्डः पाश्व पारोहीणिकं औपायनिकं डमरगतकस्वं अपुत्रकं निधिश्वान्यजातः । विक्षेपव्याधितान्तरारम्भशेषं च व्ययप्रत्यायः । विक्रये पण्यानामर्धवृद्दिरूपजा, मानोन्मानविशेषो व्याजी, क्रयसंघर्षे वार्घवृद्दिः-इत्यायः । नित्यो नित्योत्पादिको लाभो लाभोत्पादिक इति व्ययः । दिवसानुवृत्तो नित्यः । पक्षमाससंवत्सरलाभो लाभं । तयोरुत्पन्नो नित्योपादिको लाभोत्पादिक इति व्ययः ।

  संजातादायव्यययाविशुद्दा नीवी, प्राप्ता चानुवृत्ता च । 
  एवं कुर्यात्समुदयं वृद्दिं चायस्य दर्शयेत् । 
  ह्रासं व्ययस्य च प्राग्नः साधयेच्च विपर्ययम् ॥

समुदयस्य युक्तापह्रतस्य प्रत्यानयनम् - कोशपूर्वाः सर्वारम्भाः । तस्मात्पूर्वं कोशमवेक्षेत् । प्रचारसमृद्दिश्वारित्रानुग्रहश्वोरनिग्रहो युक्तप्रतिपेधः सस्यसंपत् पण्यबाहुल्यमुपसर्गप्रमोक्षः परिहारक्षयो हिरण्योपायनमिति कोशवृद्दिः । प्रतिबन्धः प्रयोगो व्यवहारो अबस्तारः परिहापणमुपभोगः परिवर्तनमहारश्वोति कोशक्षयः । सिद्दीनामसाधनमनवनतारणमप्रवेशनं वा प्रतिबन्धः । तत्र दशबन्धो दण्डः। कोशद्रव्याणां वृद्दिप्रयोगाः । पण्यव्यवहारो व्यवहारः । तत्र फलद्विगुणो दण्डः । सिद्दं कालमप्राप्तं प्राप्तं वेत्यवस्तारः । तत्र पन्चबन्धो दण्डः । क्लृप्तमायं परिहापयति व्ययं वा विवर्धयतीति परिहापणम् । तत्र हीनचतुर्गुणो दण्डः । स्वयमन्यैर्वा राजद्रव्याणामुपभोजनमुपभोगः । तत्र रत्नोपभोगे घातः, सारोपभोगे मद्यमः साहसदण्डः, फल्गुकुप्योपभोगे तच्च तावच्च दण्डः । राजद्रव्याणामन्यद्रव्येणादानं परिवर्तनम् । तदुपभोगे व्याख्यातम् ।

सिद्दमायं न प्रवेशयति, निबद्दं व्ययं न प्रयच्छति, प्राप्तां नीवीं विप्रतिजानीत इत्यपहारः । तत्र द्वादशगुणो दण्डः । 

तेषां हरणोपायाश्वत्वारिंशत् । पूर्वं सिद्दं पश्वादवतारितं, पश्वात्सिद्दं पूर्वमबतारितं, साद्यं, न सिद्दं, असाद्यं सिद्दं, सिद्दमसिद्दं कृतम्, अन्यत्सिद्दमन्यत्कृतम्, अन्यतः सिद्दं अन्यतः कृतम्, देयं न दत्तं, अदेयं दत्तं, काले न दत्तं अकाले दत्तं, अल्पं दत्तं बहु कृतम्, बहुदत्त्मल्पं कृतम्, अन्यद्द्त्तमन्यत्कृतम्, अन्यतो दत्तमन्यतः कृतं, प्रविष्टमप्रविष्टं कृतम्, अप्रविष्ट .

DONE BY

  SPANDNA R 1610286
  POOJITHA  1610285