सामग्री पर जाएँ

सदस्यः:Poorna ds/प्रयोगपृष्ठम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
                                              अविमारकम्
                                         (  इति नाटकस्य परिचयः  )

कविपरिचयः

[सम्पादयतु]

अस्य नाटकस्य कर्ता भासः।अस्य कालस्य विषये संशयः वर्तते। अस्य त्रयोदश नाटकानि प्रसिद्दनि। यथा :-(१)दूतवाक्यम् (२)कर्णभारम् (३)दूतघतटोत्कचम् (४)मध्यमव्यायोगमः (५)पञ्चतन्त्रम् (६)ऊरुभङ्गम् (७)अभिषेकः (८)बालचरितम् (९)अविमारकम् (१० प्रतिमानातकम् (११)प्रतिग्नायौगन्धरायणम् (१२)स्वप्नवासवदत्तम् (१३)चारुदत्तम्।

पात्रपरिचयः

[सम्पादयतु]

पुरुषपात्राणि

[सम्पादयतु]
  1. राजा कुन्तिभोजः ->कुरङ्याः पिता।
  2. कौञ्जायनः ->कुन्तिभोजस्य अमात्यः।
  3. भूतिकः ->कुन्तिभोजस्य अमात्यः।
  4. भटः ->कुन्तिभोजस्य जयसेन नाम प्रतिहारि।
  5. अविमारकः ->सौवीरराज्ञः पुत्रः,विष्णुसेना इति। अस्य नाटकस्य नायकः।
  6. विदूषकः ->अविमारकस्य सन्तुष्ट नामक सखा।
  7. सौवीरराजः ->अविमारकस्य पिता।
  8. नारदः ->देवर्षिः।
  9. विद्याधरः ->अविमारकस्य अङ्गुलीयकप्रदान कर्ता।
  10. जयवर्मा ->काशीराजज्ञः पुत्रः।

स्त्रीपात्राणि

[सम्पादयतु]
  1. देवी ->कुन्तीभोजस्य महिषी, कुरगङ्ग्याः माता।
  2. कुरङ्गी ->कुन्तिभोजस्य कन्या, अविमारकस्य प्रेयसी,अस्य नाटकस्य नायकी।
  3. सुदर्शना ->अविमारकस्य जननी,काशीराज्ञः पत्नी।
  4. प्रतीहारी ->कुन्तीभोजस्य द्वाररक्षिका।
  5. चेटी ->चन्द्रिकानाम्नी कुरङ्ग्याः सेविका।
  6. धात्री ->कुरङ्ग्याः पोषणकर्त्री जयदानाम्नी।
  7. नलिनिका-मागधिका-विलासिनी ->कुरङ्ग्याः सेविकाः।
  8. वसुमित्रा-हरिणिका ->देव्याश्चेट्यौ।
  9. सौदामिनी ->विध्याधरस्य प्रेयसी।
  10. सुचेतना ->सौवीरराजस्य पत्नी।
  11. सुमित्रा ->कुरङ्ग्याः भगिनी,जयवर्मणः पत्नी।



                                                कथासारः

अविमारकमिति नाटके षड् अङ्काः सन्ति। अस्य नाटकस्य नायकः विष्णुसेनः सः अविमारकः इति नाम्ना प्रसिध्दः। विष्णुसेनः सौवीरराज्ञः पुत्रः वर्तते। तथा अस्य मातुः नाम सुदर्शना इति। चण्डभार्गव इति नाम्नः एकः अत्यन्त-क्रोध-ऋषिणा शापग्रस्थः सौवीरराज्ञः सपरिवारः चाण्डालत्वं प्राप्तं तथा शापग्रस्थकालम् अज्ञातरुपेण व्यतीतम्। इति पीटिका।

प्रथमो$ङ्कः

[सम्पादयतु]

नान्द्यन्ते ततः प्रविशति सूत्रधारः :- अत्र मङ्गलाचरणं यथा :-

       उत्क्षिप्तां सानुकम्पं सलिलनिधिजलादेकदंष्ट्राग्ररूढा-
           माक्रान्तामाजिमध्ये निहितदितिसुतामेकपादावधूताम्।
       सम्भुक्तां प्रीतिपूर्वं स्वभुजवशगतामेकचक्राभिगुप्तां'
            श्रीमान् नारायण्स्ते प्रदिशतु वसुधामुच्छ्रितैकातपत्राम्॥

नान्द्यनन्तरं राजा सपरिवारेण प्रविशति। अनन्तरं महाराज्ञीम् आनयतु इति केतुमती नामिका दासीं सूचयति राजा। तदनन्तरं आह्वनमङ्गीकृत्य महाराणी प्रविशति। तदा तस्याः प्रसन्नमुखभावं दृष्ट्वा प्रसन्नतायाः कारणं पृच्छति महाराजः। तदा सा वदति-> कुरङ्गीनिमित्तं दूतः आगतः तदचिरेण जामातरं प्रेक्षे इति। तदा राजः-> विवाहो नाम बहुशः परीक्ष्या कर्तव्या भवति। कुतः

     जामातृसम्पत्तिमचिन्तयित्वा
          पित्रा तु दत्ता स्वमनोभिलाषात्।
     कुलद्वयं हन्ति मदेन नारी
          कूलद्वयमं क्षुध्दजलन नदीव॥इति

एवं स्म्भाषण समये कौञ्जायन नामक मन्त्रिः आगत्य विचारमेकं श्रावयति यथा-> राजकुमारी विहारार्थंं सखीनां साखम् उद्यानं गतवति तदा एकः उन्मत्तः गजः एतासामुपरि आक्रमणम् अकृतम्।तदा भीताः सर्वाः धावितवत्यः तदा गजः कुमार्यस्योपरि आक्रमणम् अकृतः।तद एकः अत्यन्त सुन्दरः एवं वीरः एकः युवकः आगत्य तं गजं पराजितवान् एवं कुमारीं भयाद् विमुक्तीकृतवान्। इति तदनन्तरं युवकस्य कुलगोत्रादिविषये विचारार्थं गतः भूतिक नामक अमात्यः एवं विचारं श्रावयति-> तस्य युवकस्य सद्गुणादीनामाधारेण तथा शौर्यधैर्याद्याधारेण सः सत्कुलोत्पन्नः इति भासते,किन्तु किमपि विषयं गोपयति इत्यतः सः नीचकुलोत्पन्नः इति शङ्का$पि जायते। इति। अनन्तरं राजा पृच्छति काशीराज्ञः दूतस्य कृते किमुत्तरं दियमिति। तदा कौञ्जायन एवं भूतिकौ वदतः-सौवीरराजः तस्य पुत्रस्य विवाह निमित्तं दूतं प्रेषितमासीत्।तदा कन्या अप्राप्तवयस्का इत्युक्त्वा वयमपि तद् समये निराकृतम्।इदानीं काशीरज्ञः दूतः आगतः अतः विचारं कृत्वा निर्णयं स्वीकरणीयमस्तीति। तदा राजा वदति सौवीरराजः महारान्याः अग्रजः वर्तते। अतः तस्य कृते प्रथमस्थानं धेयमेव किन्तु इदानीं तस्य विषये किमपि न ज्ञायते इति।तदा भूतिकः वदति -सौवीरराजस्तु स्वमन्त्रि कृते सर्वं कार्यं दत्वा अज्ञातो वर्तते। इदानी काशीराज्ञः दूतं पूजनीयम्।विवाहार्थं बहू मर्गाः वर्तन्ते अतः तद् विषये अनन्तरं चिन्तयामः इति।

द्वितीयो$ङ्कः

[सम्पादयतु]

अस्मिन् अङ्के विदूषकः कुरङ्ग्यासक्तस्य अविमारकस्य वर्णनं करोति। अत्र चेटी एवं विदूषकस्य विनोदपूर्णंः वार्तालापः प्रचलति।अनन्तरम् अविमारकस्य दृष्यः, तत्र कुरङ्ग्यासक्तस्य अविमारकस्य वर्णनम्।तस्याः विषये आसक्तः अविमारकः भुबुक्षां-पिपासां-निद्राञ्च् त्यजति।शरीरः पीतवर्णं प्राप्नोति।कुरङ्गी अपि एतादृषमेव स्थितिं प्राप्नोति। तदा कुरङ्ग्याः धात्री एवं नलिनिका नामकौ सख्यौ कुरङ्गी एवम् अविमारकं मेलयितुं एकं योजनं रूपयत्यौ।नलिनिका अविमारकाय निमन्त्रणं यच्छति।निमन्त्रणेन सन्तुष्टः अविमारकः स्वपराक्रमेण कुरङ्ग्याः अन्तःपुरं प्रवेशयितुं निश्चयं करोति।

तृतीयो$ङ्कः

[सम्पादयतु]

अस्मिन् अङ्के नलिनिका अविमारकस्य कृते अन्तःपुरं प्रवेशयितुं व्यवस्थां करोति। पुनः अविमारकः बहु प्रयासेन सैनिकानां व्यवस्ता चेदपि एकः एव अन्तःपुरं प्रविशति। एनं दृष्ट्वाकुरङ्गी अत्यन्तमाश्चर्यम् अनुभवति। एवं प्रसन्ना$पि भवति।द्वावपि सन्तोषेण कालयापनं कुरुतः।

चतुर्थो$ङ्कः

[सम्पादयतु]

एवं कन्यान्तःपुरे अविमारकस्य निवासः वर्षं यावत् प्रचलति। अयं विषयः कालान्तरे राजाय ज्ञायते।तदा कुरङ्गी तु भयम् एवं लज्जया सन्तापमनुभवति। अविमारकोपि राज्ञंः भायात् अन्तःपुरतः बहिर्गच्छ्ति। किन्तु प्रियतमायाः वियोगमनुभोक्तुम् असमर्थः सन् आत्महत्यार्थं निश्चयं करोति। प्र्थमं जले पतित्वा प्राणत्यागं कर्तुम् इच्छति। किन्तु एतत् धर्मविरुध्दमिति मत्वा अनलेन शरीरं दहितुम् अग्नौ प्र्वविशति किन्तु अग्निः न दहत्येव, अविमारकः शीतलमनुभवति। अन्ते अविमारकः पर्वतात् पतित्वा प्राणत्यागं कर्तुं मरुत् पर्वतम् आरोहति। किन्तु तदा एकः सपत्नीकः विद्याधरः तत्र आगच्छति। अस्यरूपसम्पत्या प्रभावितः विद्याधरः अस्य विरहवेदनं ज्ञात्वा वेदनं दूरीकर्तुम् अङ्गुलीयकमेकं ददाति। एनम् अङ्गुलीयकं दक्षिणहस्ते धारणेन धृतः अदृश्यः भवति, पुनः वामहस्ते धारणेन दृश्यो भवति। अनेन सन्तुष्टः अविमारकः पुनः कुरङ्गीं प्राप्तुं योजनां निर्मान्ति। विधूषकं प्रति वृत्तान्तं सर्वं श्रावयति।

पञ्चमो$ङ्कः

[सम्पादयतु]

अस्मिन् अङ्के अविमारकस्य वियोगेन दुःखिता कुरङ्गी अपि अन्त्यन्त दयनीय स्थितिं प्राप्नोति।सा श्रुङ्गारं सर्वं त्यजति अपि,एषापि सखीनां दृष्टिगोचरी अभूत्वा आत्महत्यार्थम् आत्मानं सज्जीकरोति। तदा अङ्गुलीयकस्य सहायेण विदूष्केन साकम् अविमारकः पुनः कुरङ्ग्याः समीपम् आगच्छति। पुनः कुरङ्गी अविमारकौ सन्तोषमनुभवतः। अनन्तरं कुरङ्ग्याः सख्याः अपि तत्र आगच्छन्त्यः। अत्र विदूषकस्य हास्यप्रज्ञा बहू सुन्दरतया वर्तते।

षष्ठो$ङ्कः

[सम्पादयतु]

अस्मिन् अङ्के कुन्तिभोजः काशीराज्ञः पुत्र जयवर्मणः साकं कुरङ्ग्याः विवाहनिश्चयं करोति। तथा विवाह सिध्दता$पि करोति।तदा एव सौवीरराजोपि तत्र आगच्छति। तदा कुन्तिभोजः एवं सौवीराजा द्वावपि प्रसन्नतां प्राप्नुतः। पुत्रवियोगेन सौवीरराजः दुःखी आसीत्, तं दृष्ट्वा कुन्तीभोजः कारणं पृच्छति। तदा सौवीरराजः चण्डभार्गवस्य शापात् पत्नीपुत्रेण साकम् अज्ञातवासः, अनन्तरम् अविरूपधारी असुरसंहरणार्थं पुत्रस्य अज्ञातरूपञ्च विवृणोति। सौवीरराज्ञः पुत्रस्य वीरतां श्रुत्वा कुन्तिभोजस्य विश्वासो जायते-अनेनैव हस्तिसंभ्रमसमये मम पुत्री रक्षिता इति। तदा कुरङ्ग्याः विवाहार्थं सम्पूर्ण सिध्दता जातमासीत् तस्मिन् समये एव नारदः आगत्य - अविमारकः कुरङ्ग्याः अन्तःपुरे एव अस्ति। तस्य विवाहः कुरङ्ग्याः साकं गान्धर्वरीत्या जातं वर्तते इति वदति। तथा एव सुदर्शनायै इतो$पि एकं रहस्यं वदति यद्- अविमारकः सुदर्शनायाः पुत्रः एव, अग्निदेवेन उत्पन्नः।सुचेतनायाः प्रसवकाले तस्याः शिशुः मृतः अतः सुदर्शना एनम् अविमारकं सुचेतनायै दत्तवती इति। एनं वृत्तान्तं शृत्वा सर्वे सन्तुष्टाः सञ्जाताः।कुन्तीभोजः जयवर्मणः साकं स्वस्य कनिष्ठ पुत्री सुमित्रायाः विवाहं कारयति। एवं प्रकारेण सौवीरराजः, काशीराजः, एवं कुन्तीभोजः सर्वे$पि प्रसन्नाः भवन्ती।

अस्य नाटकस्य भरत वाक्यम्

[सम्पादयतु]
    भवन्त्वरजसो गावः परचक्रं प्रशाम्यतु।
   इमामपि महीं कृत्स्नां राजसिंहः प्रशास्तु नः॥
                                                 शुभम्