सदस्यः:Prajwol Rai/प्रयोगपृष्ठम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
                                                                एनी बेसन्ट्


एनी बेसन्ट् होम् रूल्-आन्दोलनस्य प्रणेता आसीत् ।[१]स्वराज-आन्दोलने अपि तस्याः महत्वपूर्णं योगदानम् आसीत् । तस्याः पिता इङ्गलैण्ड-देशस्य प्रसिद्धः वैद्यः आसीत् । तस्याः माता आयर्लैण्ड-देशीया आसीत् । अतः एनी बेसन्ट् 'आईरिश्' इति प्रसिद्धा आसीत् ।एनी बेसन्ट् यदा पञ्चवर्षीया आसीत्, तदा तस्याः पिता मृतः । अतः तस्याः परिवारः आर्थिकपराधीनः अभवत् । परन्तु तस्याः मातुः अविरतपरिश्रमेण कालान्तरे परिवारस्य आर्थिकस्थितिः सुदृढा जाता । एनी बेसन्ट् यदा सप्तदशवर्षीया जाता, तदा तस्याः विवाहः 'फ्रेन्क् बेसन्ट्'-नामकेन युवकेन सह अभवत् । परन्तु विचारभेदत्वात् दम्पतौ वारं वारं कलहः भवति स्म । पौनःपुन्यं कलहेन आहता एनी बेसन्ट् आत्महत्यां कर्तुम् उद्यता आसीत् । आत्महत्यायाः विचाराः वारं वारं तस्याः मानसपटले उद्भवन्ति स्म । परन्तु ईश्वरस्य कृपया सा आत्महत्यां नाकरोत् । सा यदा आत्महत्यां कर्तुम् उद्यता भवति स्म, तदा तस्याः मनसि स्थितः ईश्वरः ताम् कथयति स्म, “अयि भोः ! एतत् तु भीरुजनानां कार्यम् । दुःखात् भीता त्वं किमर्थम् आत्महत्यां कर्तुम् इच्छसि ? आत्मसमर्पण-सत्ययोः मार्गेण तव कल्याणं भविष्यति” इति । ततः तया अन्तर्मनसः कथनानुसारं कार्यं प्रारब्धम् ।

ऐकस्मिन् दिने पति-पुत्रान् त्यक्त्वा सा आत्मकल्याणमार्गं प्रति न्यर्गच्छत् । स्वप्रश्नानाम् उत्तराणि क्रिस्त-धर्मात् तया न प्राप्तानि । अतः तया ‘नेशनल् सेक्युलर् सोसायटि’[२] इत्याख्यायाः संस्थायाः चार्ल्स् ब्रेटमा इत्यस्य सम्पर्कः कृतः । चार्ल्स् ब्रेटमा इत्यस्य विचारेण प्रभाविता सा ‘नेशनल् सेक्युलर् सोसायटि’ इत्याख्यायाः संस्थायाः कार्यं प्रारभत । तया ‘नेशनल् सेक्युलर् सोसायटि’ इत्याख्यया संस्थाया प्रकाशितस्य ‘नेशनल् रिफोर्म्स्’ इत्याख्यायाः पत्रिकायाः सम्पादनकार्यं कृतम् ।एनी बेसन्ट् यदा आयर्लैण्ड्-देशे निवसति स्म, तदा सा रेडमान्ड् इत्यस्य नेतृत्वे संस्थापितस्य होम् रूल् लीग् इत्यस्य कार्यकर्ता आसीत् । १९२१ तमात् वर्षात् अनन्तरम् एनी बसन्ट् सामाजिकप्रवृत्तिम् आरभत । नारीसशक्तीकरण-आदिवासिसेवा-स्त्रीशिक्षा इत्यादीनि कार्याणि तया कृतानि । सा भारतमातरं जन्मभूमिवत् प्रीणाति स्म । अतः तया अन्तिमश्वासः अपि भारतमातुः कुक्षौ त्यक्तः ।

Prajwol Rai 1610381 Rifan 1610481

  1. https://www.mapsofindia.com/on-this-day/1-august-1916-annie-besant-starts-the-home-rule-league
  2. http://www.secularism.org.uk/about.html