सदस्यः:Prakash mn/प्रयोगपृष्ठम्
भरद्वाजमहर्षिः :-- सुदीर्घकालं जीवन् अपि मानवः इतोऽपि अधिककालं जीवितुम् इच्छति । एषः मानवस्य स्वभावः ।
परन्तु तदेव जीवनम् उन्नतध्येयसाधननिमित्तं यदि भवति तर्हि तत् नितरां प्रशस्यते । सप्तर्षिषु अन्यतमस्य भरद्वाजस्य कथा अत्र उत्तमम् उदाहरणम् अस्ति । भरद्वाजः अत्रिमुनेः पुत्रः आदिकाव्यस्य रामायणास्य कर्तुं वाल्मीकिमुनेः शिष्यः च । सः वेदाध्ययने, देवध्याने च निरतः आसीत् । यदा मराकालः सन्निहितः तदा पुनः इन्द्रस्य ध्यानं कृत्वा - ‘मम आयुः वर्धयतु’ इति प्रार्थितवान् भरद्वाजः । प्रत्यक्षीभूतः इन्द्रः भरद्वाजम् आत्मना सह किञ्चिद्दूरं नीतवान । दूरे उन्नताः त्र्यः पर्वताः द्दश्यन्ते स्म । इद्न्रः भरद्वज्स्य अञ्जल्यां मुष्टित्रयपरिमिताः सिकताः स्थापितवान् । भरद्वाजः मौनं स्थितवान् आसीत् ।
"दूरे स्थितानां पर्वतानां महत्वं मनसि निधाय भवान् वदतु -अञ्जल्यां स्थितानां सिकतानां परिमाणं
कियत् ?" इति प्रुष्ट्वान क्न्द्रः । "क्क ते पर्वताः क्क च अञ्जलिमिताः सिकताः ! महत् अन्तरम् एतयोः " इति उक्तवान् भाद्वाजः । तदा इन्द्रः -"भवता ज्ञातं वेदज्ञानम् अपि मुष्टिपरिमितम् एव । बवता
पर्वतपरिमितं ज्ञातव्यम् अस्ति " इति उक्तवान् इन्द्रः । भरद्वाजः मदवचनात् भीतः सन्- यावत् ज्ञातं तावता अलम् इति वदेत् , अथवा अहङ्कार्ण -मया सर्वं ज्ञातम् अस्ति इति व वदेत्’ इति इन्द्रः चिन्तितवान् आसीत् । भरद्वाजः तु किञ्चितकालं यावत् मौनं स्थित्वा - "तर्हि ज्ञानं नाम तावत् बृहत
वा !तत् मया सम्पादनीयम । भवतः आशीर्वादःअ अस्ति चेत् तान् त्रीन् अपि पर्वतान् मदीयान्
करिष्यामि" इति म्,अहता विनयेन उक्तवान । भरद्वाजस्य द्दढम् आत्मविश्वासम्, उन्नतध्येयं च ज्ञात्वा इन्द्रः आश्चर्यचकितः अभवत् । सः भरद्वाजं पुनः अपि शतवर्षपरिमितेन आयुषा अनुगृह्य
अद्दश्यतां गतः
महात्मा गान्धिः
इति प्रसिद्धः मोहनदासकरमचन्दगान्धिः (१८६९-१९४८) गुजरातस्य पोरबन्दरनामके नगरे जन्म प्राप्तवान् । तस्य उदारान् मानवीयान् गुणान् दृष्ट्वा कवि: रवीन्द्रनाथठाकुर: तं महात्मा इति शब्देन सम्बोधितवान् । तत: पश्चात् सर्वे भारतीया: तं महात्मा गान्धिः इति एव अभिजानन्ति ।भारतमातुः श्रेष्ठः पुत्रः महात्मा गान्धिः स्वातन्त्र्यान्दोलने सर्वेषां भारतीयानाम् आधारभूतः मार्गदर्शकः च आसीत् । अत एव गान्धिजयन्ती पर्व राष्ट्रियपर्वरुपेण आचर्यते । दक्षिण-आफ्रिकादेशेऽपि महात्मा गान्धिः उत्तमं कार्यं कृतवान् । अस्य पिता श्री करमचन्दगान्धिः राजकोटसंस्थाने पोरबन्दरसंस्थाने च दिवान् इति प्रसिद्धः आसीत् । माता श्रीमती पुतलीबायी साध्वी व्रतोपावासादिधर्मानुसारिणी प्रेममयी च आसीत् । मोहनदासगान्धिमहोदयस्य बाल्यं पोरबन्दरनगरे उत्तमपरिसरे सहजसुन्दरम् आसीत् । मातुः सेवाभावः त्यागबुद्धिः सर्वप्रियता इत्येते गुणाः पुत्रेऽपि परिणामम् अकुर्वन् । विद्याभ्याससमये मोहनदासगान्धिः साधारणबालकः आसीत् । मोहनदासगान्धिः राजकोटनगरे प्रौढविद्याभ्यासं कृतवान् । विनयशीलः लज्जालुः विधेयः इति च सहपाठिषु प्रख्यातः आसीत् । गान्धिमहोदय: सत्यम् अहिंसाम् च जीवने प्रतिष्ठापयितुं दृढव्रत: आसीत् । स: वैदेशिकानां शासनं मूलतः उच्छेत्तुं भारतमातुः स्वतन्त्रताय