सदस्यः:Pranathi A Udupa/प्रयोगपृष्ठम्1

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
एरण्डसस्यम्
एरण्डसस्ययस्य चित्रम्
एरण्डसस्ययस्य चित्रम्

इदम् एरण्डसस्यं भारते वर्धमानः कश्चन सस्यविशेषः । अस्य एरण्डस्य तैले “ग्लिसरैड्स्”, “रिसिनोल्लिक् आसिड्”, ओलिक् लिनोलिक्”, “स्टियारिक्” तथा “हैड्रोक्सि स्टियारिक्” इत्यादयः अंशाः भवन्ति । तथैव तस्मिन् तैले “रेसिन्” इत्यख्यः विषांशः अपि भवति ।

इतरभाषाभिः अस्य एरण्डस्य नामानि[सम्पादयतु]

इदम् एरण्डसस्यम् आङ्ग्लभाषया Castor अथवा Ricinus Communis इति उच्यते । हिन्दीभाषया“रेण्डी”, “एरण्ड्”, “एरण्डी” इति च उच्यते । तेलुगुभाषया “अमुडामु” इति, तमिळ्भाषया “अमणक्कम्” इति, मलयाळभाषया“चिट्टामाक्कु”, “अबणक्का” इति च उच्यते । कन्नडभाषया एरण्डसस्यं “हरळु” अथवा “औडल” इति उच्यते ।

आयुर्वेदस्य अनुसारम् अस्य एरण्डस्य प्रयोजनानि[सम्पादयतु]

इदम् एरण्डं गृहौषधेषु महता प्रमाणेन उपयुज्यते । इदं मधुर – रसयुक्तम् । तथा च एरण्डम् उष्णवीर्ययुक्तं, गुरुः च ।

  1. इदम् एरण्डं वातं कफं च निवारयति ।
  2. एरण्डस्य अधिकेन प्रमाणेन उपयोगात् अतिसारस्य आरम्भः भवेत् ।
  3. कटिवेदनायां, ज्वरे, कफबाधायां च एरण्डस्य उपयोगः हितकरः ।
  4. एरण्डं चर्मव्याधिषु, आमवाते चापि उपयुज्यते ।
  5. इदम् एरण्डं मलावरोधं निवारयति । कासं, कफं, श्वासोच्छ्वासबाधां चापि अपगमयति ।
  6. मलबद्धतायां बालादारभ्य वृद्धपर्यन्तं सर्वेषाम् अपि अस्य एरण्डबीजस्य तैलं १ – २ चमसमितं दीयते ।
  7. अस्य एरण्डस्य तैलं वेदनानिवारकम् ।
  8. गर्भवतीनां कृते अपि एरण्डतैलं दीयते ।
  9. एरण्डतैलम् अत्यन्तं लेखनम् । तस्मात् उष्णसम्बद्धानां समस्यानां परिहाराय हितकरं भवति ।
  10. एरण्डतैलं शिरसि, पदतले च औष्ण्यस्य निवारणार्थं लेपयन्ति ।
  11. शुण्ठ्याः कषायेन सह एरण्डम् अपि योजयन्ति चेत् कटिवेदना, कीलवेदना इत्यादयः अपगच्छन्ति ।
  12. नेत्रे अवकरः पतितः चेत् एरण्डतैलस्य स्थापनेन अवकरः स्वयं बहिः आगच्छति ।
  13. नेत्रवेदनायाम् अपि एरण्डतैलं हितकरम् ।
  14. मूलव्याधिना पीड्यमानाः ज्वलनं न्यूनीकर्तुम् एरण्डतैलं “कुमारीरसेन सह योजयित्वा लेपयन्ति ।
  15. शिरोवेदनायां सत्याम् अपि एरण्डतैलस्य लेपनं शक्यते ।

can't use in sandboxऔषधीयसस्यानि]] can't use in sandboxसस्यविज्ञानसम्बद्धाः स्टब्स्]] can't use in sandboxसर्वे अपूर्णलेखाः]]

can't use in sandboxसारमञ्जूषा योजनीया‎]]