सदस्यः:Pranathi A Udupa/मुम्बईनगरम् 78

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

प्रास्ताविकम्[सम्पादयतु]

सामन्यतः दषलक्षाधिकजनसंख्ययुतं नगरं बृहन्नगरम् कत्यथे| भरतदेशे २००१तमे वर्षे सप्तविंशतिः प्रमुख महानगराणि सन्ति। विश्वभौगोलिकशब्दकोष अनुसारं विश्वस्मिन् ई सा २००५तमे वर्षे ७८ प्रमुख महनगराणि दर्शितः सन्ति। विश्वगेजेटियर् २००५तमे वर्षे जातगनानुसरं विश्वस्य प्रमुख महानगराणि जनसंख्या निर्देशानुसारम् वर्तते ।

चीना देशस्य शघाई महनगरीय जनसंख्या '१४,६०८,५१२ प्रथमस्थने वर्तते । द्वेतीयस्थने भरतदेशस्य मुम्बई जनसंख्या १२,६९१,८३६ महनगरं वर्तते । तृतीयास्थने पाकिस्तान देशस्य कराची नगरं जनसंख्या ११,६२४,२१९ महनगरं वर्तते । चतुर्थेस्थने अर्जेन्टाईना देशस्य ब्यूनस् आर्यन् नगरं जनसंख्या ११,५७४,२०५ महनगरं वर्तते । पन्चमेस्थने भरतदेशस्य देहली नगरं जनसंख्या १०,९२७,९८६ महनगरं वर्तत

भौगोलिकीस्थितिः एवं विकासः[सम्पादयतु]

मुम्बई नगरं भरतदेशस्य पश्चिमतटे अरभसमुद्रीयेषु सप्तद्वीपेषु कोला॒बा, फोर्ट,' बाईकुला, परेल, वर्ली, माटुंगा, माहिमा तथा समीपवर्ती तटीयभूभागोपरि ६०३ कि.मी. क्षेत्रेषु विस्त्रुतं अस्ति । मुम्बईनगरस्य उपनगरीयक्षेत्रस्य क्षेत्रफलं ४४६ कि.मी. अस्ति ।मुम्बई नगरस्य जनसङ्ख्या (२०११) १,८४,१४,२८८ अस्ति । अत्र ९८,९४,०८८ पुरुषा:, ८,५२०,२०० महिला: च सन्ति । अत्र पुं-स्त्री अनुपातः १०००-८६१ अस्ति । अत्र साक्षरता ९०.७८% अस्ति । मुम्बई नगरस्य जनसङ्ख्या तु इदानीं जनानां चिन्ताविषय: । अस्याः समास्यायाः निवारणार्थं कार्यरतमस्ति बृहन्मुम्बईनगरप्रशासनम् । ब्रुहद् मुम्बईनगरस्य जनसंख्यां २००१तमे वर्षे जातगणानुसरां ११९.७८ लक्षपरिमितासीत्। तेषु मोहमय्यां क्षेत्रे ३३.३८ लक्षजनाः न्य्वसन्तः। तथा उपनगरिक्षेत्रेषु ८६.४० लक्षजनाः न्य्वसन्तः। मोहमयीमेट्रोक्षेत्रे बिटानिका इति विश्वकोषानुसारं २००१तमे वर्षे १६३.६८ लक्षसंख्या आसीत्। मुम्बईनगरस्य जनसंख्या विश्वस्मिन् द्वीतीया भरतदेषे प्रथमा वर्तते। मुम्बईनगरस्य ७२% प्रतिशतं भागः उपनगरीयक्षेत्रेषु निवसन्ति। मुम्बई नगरस्य नामं अत्रत्या अधिष्ठात्री मुम्बादेवी नामे नीतः । मुम्बई नगरस्य इतिहासं अत्यन्त प्राचीनतमा आसीत्।

मुम्बई भारतस्‍य महाराष्ट्रप्रान्‍तस्‍य राजधानी अस्‍ति। एतद् नगरं भरतदेशस्य विशालं नगरम्। भारते लोकसंख्यया प्रथमं, पृथिव्यां द्वितीयं च एतन्नगरं वर्तते। भारतस्य पश्चिमे समुद्रतटे एतद् नगरं स्थितम्।

प्रशासनम्[सम्पादयतु]

१९९० तमे वर्षे प्रशासनसौकर्यार्थं मुम्बईनगरस्य मण्डलद्वये विभाजनं जातम् । मुम्बईमण्डलं, मुम्बई-उपनगर-मण्डलं च इत्येतौ विभागौ स्त: । तथापि सामान्यत: मुम्बई नगरस्य केचन विभागा: भवन्ति । ते यथा - फोर्ट, बाजार इति क्रयविक्रयणकेन्द्रं, परळ-भायखळाविभागे धनिकानां निवासस्थानानि, बन्दर नौकास्थानकविभाग:, मध्यमवर्गीयजनानां निवासस्थलं, उपनगराणि च ।

विशिष्टम्[सम्पादयतु]

आधुनिकभारतनिर्माणे मुम्बई नगरस्य सहभाग: महत्वपूर्ण: । नैकानां राजकीय-सामाजिक-सांस्कृतिक-आर्थिकान्दोलनानाम् आरम्भस्थलमिदम् । 'रॉयल एशियाटिक सोसायटी(१८०५), स्ट्यूडन्ट्स लिटररी एण्ड सायण्टिफिक सोसायटी(१८४८), सर जे. जे. स्कूल ऑफ आर्ट (१८५७), प्रार्थना समाज:' (१८६७), आर्य समाज:(१८७५), थिऑसॉफिकल सोसायटी (१८७५), भारतीय राष्ट्रीय काङ्ग्रेस (इण्डियन नेशनल काङ्ग्रेस) इत्यस्य प्रथमम् अधिवेशनं(१८८५), कामगार चळवळ- कर्मकराणाम् आन्दोलनम् (१८८५), भारत छोडो आन्दोलनम् (१९४२) इत्येतासां घटनानां प्रमुखस्थानमासीत् मुम्बई नगरम् । मुम्बई नगरे नैके राजकीय नेतारः, उद्योगपतयः, सामाजिक कार्यकर्तार:, विद्वज्जना: संशोधका:, लेखका:, कलावन्त: च आसन्, सन्त्यपि । तेषां जन्म वा कार्यस्थलमस्ति नगरमिदम् । सांस्कृतिकदृष्ट्याऽपि वैविध्यपूर्णमिदं नगरम् । भाषा-धर्म-सम्प्रदाय-आर्थिकस्तरे भिन्नता अस्ति चेदपि व्यवसायकारणात् जना: अत्र आगच्छन्ति निवसन्ति च । मुम्बई नगरे तासां सर्वासां संस्कृतीनां समाहार: दृश्यते । मराठी, हिन्दी, गुजराती, आङ्ग्ल, सिन्धी, उर्दू इत्येतासु भाषासु जनाः वदन्ति । मराठी रङ्गभूमि-हिन्दीचलच्चित्रनिर्माणव्यवसाययोः(बोलिवुड्) जनाः विशेषत्वेन कार्यरताः दृश्यन्ते ।

व्यक्तिविशेषा:[सम्पादयतु]

नैकानां विभूतिनां जन्मस्थलं, कार्यस्थलं वा नगरमिदम् । यथा राजा भीमदेव, पुर्तगालप्रशासक: फ्रान्सिस् अल्मेडा, जेराल्ड आञ्जियर्, डा हाफकिन्, रुदियार्ड् किप्लिङ्ग, फिरोजशहा मेहता, दादाभाई नौरोजी, महादेव रानडे, डेविड् ससून, जगन्नाथ शङ्कर शेठ, जमशेठजी टाटा, होमी भाभा, मादाम कामा च