सदस्यः:Pranathi A Udupa/मुम्बईनगरम् 79

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

मुम्बई भारतस्‍य महाराष्ट्रप्रान्‍तस्‍य राजधानी अस्‍ति। एतद् नगरं भरतदेशस्य विशालं नगरम्। भारते लोकसंख्यया प्रथमं, पृथिव्यां द्वितीयं च एतन्नगरं वर्तते। भारतस्य पश्चिमे समुद्रतटे एतद् नगरं स्थितम्।

प्रशासनम्[सम्पादयतु]

१९९० तमे वर्षे प्रशासनसौकर्यार्थं मुम्बईनगरस्य मण्डलद्वये विभाजनं जातम् । मुम्बईमण्डलं, मुम्बई-उपनगर-मण्डलं च इत्येतौ विभागौ स्त: । तथापि सामान्यत: मुम्बई नगरस्य केचन विभागा: भवन्ति । ते यथा - 'फोर्ट', बाजार इति क्रयविक्रयणकेन्द्रं, परळ-भायखळाविभागे धनिकानां निवासस्थानानि, 'बन्दर' नौकास्थानकविभाग:, मध्यमवर्गीयजनानां निवासस्थलं, उपनगराणि च ।

विशिष्टम्[सम्पादयतु]

आधुनिकभारतनिर्माणे मुम्बई नगरस्य सहभाग: महत्वपूर्ण: । नैकानां राजकीय-सामाजिक-सांस्कृतिक-आर्थिकान्दोलनानाम् आरम्भस्थलमिदम् । 'रॉयल एशियाटिक सोसायटी'(१८०५), 'स्ट्यूडन्ट्स लिटररी एण्ड सायण्टिफिक सोसायटी(१८४८), 'सर जे. जे. स्कूल ऑफ आर्ट' (१८५७), 'प्रार्थना समाज:' (१८६७), 'आर्य समाज:' (१८७५), 'थिऑसॉफिकल सोसायटी' (१८७५), 'भारतीय राष्ट्रीय काङ्ग्रेस' (इण्डियन नेशनल काङ्ग्रेस) इत्यस्य प्रथमम् अधिवेशनं(१८८५), 'कामगार चळवळ'- कर्मकराणाम् आन्दोलनम् (१८८५), 'भारत छोडो आन्दोलनम्' (१९४२) इत्येतासां घटनानां प्रमुखस्थानमासीत् मुम्बई नगरम् । मुम्बई नगरे नैके राजकीय नेतारः, उद्योगपतयः, सामाजिक कार्यकर्तार:, विद्वज्जना: संशोधका:, लेखका:, कलावन्त: च आसन्, सन्त्यपि । तेषां जन्म वा कार्यस्थलमस्ति नगरमिदम् । सांस्कृतिकदृष्ट्याऽपि वैविध्यपूर्णमिदं नगरम् । भाषा-धर्म-सम्प्रदाय-आर्थिकस्तरे भिन्नता अस्ति चेदपि व्यवसायकारणात् जना: अत्र आगच्छन्ति निवसन्ति च । मुम्बई नगरे तासां सर्वासां संस्कृतीनां समाहार: दृश्यते । मराठी, हिन्दी, गुजराती, आङ्ग्ल, सिन्धी, उर्दू इत्येतासु भाषासु जनाः वदन्ति । मराठी रङ्गभूमि-हिन्दीचलच्चित्रनिर्माणव्यवसाययोः(बोलिवुड्) जनाः विशेषत्वेन कार्यरताः दृश्यन्ते ।

व्यक्तिविशेषा:[सम्पादयतु]

नैकानां विभूतिनां जन्मस्थलं, कार्यस्थलं वा नगरमिदम् । यथा राजा भीमदेव, पुर्तगालप्रशासक: फ्रान्सिस् अल्मेडा, जेराल्ड आञ्जियर्, डा हाफकिन्, रुदियार्ड् किप्लिङ्ग, फिरोजशहा मेहता, दादाभाई नौरोजी, महादेव रानडे, डेविड् ससून, जगन्नाथ शङ्कर शेठ, जमशेठजी टाटा, होमी भाभा, मादाम कामा च ।